संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५६६

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि त्वया पृष्टं पूजा कार्या कथं कदा ।
इत्यादिसर्वप्रश्नानां कथयामि विधानकम् ॥१॥
प्रातर्ब्राह्मे मुहूर्ते च मध्याह्ने सायमित्यपि ।
मम पूजा प्रकर्तव्या षोडशोपसुवस्तुभिः ॥२॥
स्नपनं भोजनं चारार्त्रिकं विभूषणादिकम् ।
जलपानं ताम्बूलकं पुष्पाञ्जल्यादिकं चरेत् ॥३॥
शीतकाले कम्बलादि चोष्णोदकादि चार्पयेत् ।
मृष्टानि भोजनादीनि बलपुष्टिकराणि च ॥४॥
वर्षाकाले ह्यनुष्णं चाऽशितं जलं तथाऽम्बरम् ।
मध्यपुष्टिकरं भोज्यं दातव्यं मे प्रिये! तदा ॥५॥
आतपस्य च समये शीतं सुगन्धवज्जलम् ।
सूक्ष्मवस्त्रादि दातव्यं पच्यं भोज्यं फलादिकम् ॥६॥
स्थापनं च तदा वाच्यं समागच्छ प्रभो प्रिय ।
स्वर्णाद्यासनमासाद्य गृहाण मम पूजनम् ॥७॥
आगच्छ भगवन् स्वामिन् नारायण पते प्रभो ।
पूजां गृहीत्वा गन्तव्यं निजाऽऽवासे न चान्यथा ॥८॥
काष्ठादिचूर्णसम्पाद्यं सुगन्धरसमिश्रितम् ।
धूपं गृहाण भगवन् कृष्णनारायण प्रभो ॥९॥
घृतदीपं सौम्यगुणं गृहाण परमेश्वर ।
घृतदीपं चन्दनस्य धूपं गृह्णामि भावतः ॥१०॥
तीलतैलस्य दीपं च गुग्गुलस्य च धूपनम् ।
यद्वा गृह्णामि कालेऽपि पुष्पसारं सुगन्धकम् ॥११॥
तीर्थजलानि संगृह्य क्षालनं पादयोर्मम ।
कर्तव्यमृत्वनुसारं गृह्णामि पादशोधनम् ॥१२॥
स्नपनं तीर्थसलिलैर्दध्ना दुग्धेन सर्पिषा ।
मधुना शर्करया च तैलेन च प्रमर्दनम् ॥१३॥
नैर्मल्यापादकं चूर्णं स्निग्धं शान्तिकरं सितम् ।
दातव्यं मञ्जनं मे च गात्रे योग्ये विशेषतः ॥१४॥
चन्दनं पुष्पसारादि विष्णुतैलादि लेपनम् ।
गृह्णामि नित्यदा भक्तप्रदत्तं भावतः प्रिये! ॥१५॥
स्वर्णसिंहासनाद्यं च गृह्णामि कम्बलासनम् ।
पट्टिकां काष्ठसंभूतां चाध्यास्य चाभिषेचनम् ॥१६॥
गृह्णामि भावतो लक्ष्मि! दत्तं नरेण योषिता ।
पर्यंके गेन्दुके रम्ये मृदौ सास्तरणे पृथौ ॥१७॥
पार्श्वकाभ्यां युते गण्डमश्रुकाभ्यां समन्विते ।
कशिपुशोभिते दंशवाराच्छदनसञ्चिते ॥१८॥
गुप्तदोरकयुक्ते च स्वपिमि कमले सदा ।
यानं हंसयुतं चाश्वयुतं गजादिशोभितम् ॥१९॥
स्वर्णनिर्माणरूपं च व्योमगामि महत्तमम् ।
गरुडं वा माणिकीं वा रथं दिव्यं वहामि वा ॥२०॥
कन्दमूलफलादीनि सुगन्धरसवन्ति च ।
पक्वानि ऋतुजातानि गृह्णामि भक्तभावतः ॥२१॥
स्वर्णपात्रे प्रेमपात्रे संस्कृतं चार्पितं शुभम् ।
शरत्काले यथा स्वस्य शिशिरेऽपि यथा स्वकम् ॥२२॥
वसन्ते च यथा स्वस्य ग्रीष्मे चापि यथा स्वकम् ।
प्रावृष्यपि च वर्षान्ते यथा स्वस्यैव रोचते ॥२३॥
भोग्यं धार्यं तथा पेयं खाद्यं वस्त्रं विभूषणम् ।
जलं यानं वाहनादि वायुर्दोला वनादिकम् ॥२४॥
भवनं स्वपनं वारि शयनं सेविकादिकम् ।
तथा सर्वं मम कल्प्यं तथा देयं न चान्यथा ॥२५॥
यथा देहे तथा देवे कर्तव्यं चार्पणं प्रिये ।
अर्चा षडंगुलादूर्ध्वप्रमाणा च शुभा मता ॥२६॥
चतुःषष्ट्यंगुलं यावत् ततो दीर्घा न शस्यते ।
प्रतिष्ठानं मन्दिरे च नेत्रवृत्तिः समा भवेत् ॥२७॥
द्वारे ऊर्ध्वं चतुर्थांशै नेत्ररेखासमस्थली ।
यथा भवेत् तथा मूर्तेः प्रतिष्ठानं मतं मम ॥२८॥
मूर्त्यधः स्वर्णरत्नादि स्थाप्यं सिंहासनान्तरे ।
गर्भे तत्र च संस्थाप्या प्रतिमा श्रीहरेः प्रिये! ॥२९॥
दक्षिणे तु पतिः स्थाप्यो वामे श्रीः राधिका शिवा ।
लक्ष्मीश्च माणिकी हंसा प्रभा पार्वती मंजुला ॥३०॥
जया च ललिता शान्ता मनसा च सरस्वती ।
दुर्गा गंगा च कमला सावित्री विरजा तथा ॥३१॥
अन्या अपि यथेष्टा स्याद् भक्तस्य श्रीहरेः प्रिया ।
संस्थाप्या कर्णनिम्ना वै यथाशोभं तु दर्शनम् ॥३२॥
पूर्वेऽहनि भवेन्नक्तं नक्तं सूर्यास्तपूर्वकम् ।
द्वितीयेऽहनि कार्यं न प्राशनं च दिवानिशम् ॥३३॥
पत्रपुष्पफलान्नादेरुपोषणं च तत्स्मृतम् ।
एकहारः फलाहारो जलाहारो न बाधकः ॥३४॥
वसन्ते श्वेतवस्त्राणि फाल्गुने केसराणि च ।
कौसुंभानि तथाऽऽषाढे स्वर्णवर्णानि चाश्विने ॥३५॥
चित्रवर्णान्युत्सवादौ चैकवर्णानि नित्यदा ।
स्वर्णतारादिशोभाढ्यं धार्यते च मया प्रिये! ॥३६॥
लोहतारं विना वस्त्रं सर्वं श्रेयस्करं मतम् ।
रक्तं सम्पत्करं वस्त्रं पीतं लक्ष्मीप्रदं मतम् ॥३७॥
श्वेतं ज्ञानकरं शश्वच्चित्रं भोगप्रदं मतम् ।
नीलं निषिद्धमेवाऽत्र धार्यं नैव कदाचन ॥३८॥
मधुपर्को गुडाज्यस्व शर्कराज्यस्य वापि च ।
शर्कराक्षीरमिश्रस्य खण्डादध्नोस्तथा मतः ॥३९॥
मधुमिष्टादिपेयस्य मिष्टपेयस्य वा मतः ।
यद्गृहे जाठरे शान्तिर्भवेत् तत् मधुपर्ककम् ॥४०॥
आम्ररसादौ सर्पिश्च शर्करा चेत्यपि त्रयम् ।
मिष्टफलेषु मिष्टं च मिश्रितं मधुपर्ककम् ॥४१॥
मह्यं देयं यथायोग्यं शीतलं गुणकृन्मम ।
मधुपर्कप्रदानेन स्वर्गे चात्र विभूतयः ॥४२॥
दातुर्भवन्ति सततं चान्नपानादिपुण्यदाः ।
घृतकुल्या मधुकुल्या दधिकुल्याश्च तद्गृहे ॥४३॥
क्षीरकुल्यास्तक्रकुल्या जलकुल्या भवन्ति च ।
यत्र लोके च ताः कुल्यास्तत्र यान्ति मधुप्रदाः ॥४४॥
यावज्जाठरशान्तिः स्यात्तावत्प्रमाणकं मधु ।
देयं तृप्तिप्रदं मिष्टं येन लोकाः सनातनाः ॥४५॥
दातुरमृतदाः सर्वे रसदाश्च भवन्ति वै ।
सात्त्विकान्येव शाकानि कूष्माण्डादीनि सर्वथा ॥४६॥
वृन्ताकानि दुग्धवतीगिल्लिकादीनि यान्यपि ।
तान्दूलादीनि पत्राणि सार्षपादिदलानि च ॥४७॥
कर्कटीकारवेल्लानि चिरभट्टानि यानि च ।
सौम्यानि कन्दमूलानि सन्ति प्रियाणि मे प्रिये! ॥४८॥
श्रीखण्डपायसादीनि क्वथितानि शुभानि च ।
क्वथिका राजिकाराद्धमारनालानि यान्यपि ॥४९॥
गर्मरीमर्चिकातिक्तकरवीराम्रकाणि च ।
एवंविधानि रम्याणि सन्ति प्रियाणि मे सदा ॥५०॥
भुंक्ष्व कामं मिष्टमिष्टं शनैः पूर्णं प्रशान्तिदम् ।
यथारुचि प्रभो भुंक्ष्व पक्वान्नादीनि केशव ॥५१॥
इत्येवं भोजयेन्मां च वीजयेत्पवनं तदा ।
पुनः प्रेम्णा मम पात्रे भक्तः सम्परिवेषयेत् ॥५२॥
एवं वै भोजयेन्नित्यं स्वर्णासने निधाय माम् ।
स्वर्णपात्रे जलं भृत्वा स्वर्णस्थाल्यादिपात्रके ॥५३॥
प्रेम्णा सर्वं परिवेषयित्वा जलं च पाययेत् ।
ताम्बूलकं शुभं दद्यात् कुर्याच्च पादमर्दनम् ॥५४॥
पूजायां चापराद्धा मे यथा न स्युस्तथा भवेत् ।
मामशुद्धशरीरो न स्पृशेत् स्नानं विना क्वचित् ॥५५॥
मूकवन्नैव यायाच्च मन्दिरस्थं च मां प्रति ।
प्रबोधयेन्न वै मूको विना घण्टादिवादनम् ॥५६॥
अकाले चाऽनियमेन प्रबोधयेन्न मां क्वचित् ।
श्रेष्ठिमानुषराजार्थं जागरं कारयेन्न माम् ॥५७॥
स्वार्थार्थं पूजयेन्नैव पृष्ठं नैव प्रदर्शयेत् ।
क्षुवनं वादकरणं मर्यादात्यजनं न वा ॥५८॥
अशुद्धवस्त्रसहितो न यायान्मम मन्दिरम् ।
अशुद्धवस्तु संस्पृश्य विना प्रक्षाल्य वै करौ ॥५९॥
न मां स्पृशेन्न मामकीनानि वस्तूनि संस्पृशेत् ।
कण्डूयनं स्वयं कृत्वा न मां स्पृशेत् कदाचन ॥६०॥
दुष्टसंकल्पमेवापि मद्गृहे न हि कारयेत् ।
मत्पूजायां स्वयं नाऽद्यान्न पेयाश्च जलाद्यपि ॥६१॥
मूकवत्पूजयेन्नैव विना मे रटणं तदा ।
मन्माल्यशिष्टसामग्रीदूरीकृत्य पुनः करम् ॥६२॥
अप्रक्षाल्य स्पृशेन्नैव नूतनानि च वस्तूनि ।
थूत्काराऽपानवाय्वादि विसर्जयेन्न मन्दिरे ॥६३॥
मूत्रादिकं क्रियाच्चेद्वै स्नानं कृत्वा स्पृशेत्तु माम् ।
मम पूजामध्यवर्ती नान्यकार्यपरो भवेत् ॥६४॥
अन्यमना भवेन्नापि दुर्गन्धिभक्षको न च ।
अशुद्धपानो न स्याच्च न च हिंसापरो भवेत् ॥६५॥
वस्त्रभूषाद्यर्पणे मां प्रसह्य नैव धारयेत् ।
शीतोष्णादौ यथा स्वस्य तथा स्यान्मेऽनुकूलकृत् ॥६६॥
मुखप्रक्षालनं तैलमर्दनं चन्दनार्पणम् ।
यथायोग्यं प्रकुर्याच्च नाऽधिकं दुःखकृद् यथा ॥६७॥
शैत्ये वह्नेरुपस्थानं नात्युत्कृष्टं क्रियान्मम ।
वस्त्राणां धारणे नित्यं कुर्याद् विनिमयं मम ॥६८॥
भूषाणां धारणे चापि कुर्याद्वै परिवर्तनम् ।
न गालीं प्रवदेन्नान्यनिन्दां ग्राम्यकथां वदेत् ॥६९॥
न स्वपेन्मन्दिरमध्ये नग्नो भवेन्न मन्दिरे ।
निषीदेन्न च मां कृत्वा पृष्ठे जनमुखं प्रति ॥७०॥
विना पादौ सम्प्रक्षाल्य न गच्छेन्मन्दिरान्तरे ।
आरात्रिवर्तिकां दीपं स्पृष्ट्वा विना जलेन च ॥७१॥
करप्रक्षालनं मां वै स्पृशेन्नैव च वस्तुकम् ।
नान्यं प्रवेशयेत् कंचित् कांचिच्च मन्दिरान्तरे ॥७२॥
उच्छिष्टाननहस्तादि प्रविशेन्नैव मन्दिरे ।
मालापुष्पादि चोत्तार्य विना चोत्तारणक्षणम् ॥७३॥
दद्यान्नान्यजनायेति यद्यपि स्यान्महीपतिः ।
पूर्वदिनस्य चोत्तार्य रक्षयेच्च ददेत्तदा ॥७४॥
हस्ते समर्प्य वा दद्यात् तात्कालिकं प्रसादनम् ।
आवरणपटं नैव पुनर्मध्ये समुच्छ्रयेत् ।
न पातयेत्तथा मध्ये दर्शकानां ह्यपस्थितो ॥७५॥
शंखं जलेन भत्वैव दीपं प्रज्वाल्य वै शुभम् ।
वस्त्रं मार्जनयोग्यं च धृत्वा पात्रे सुगन्धिभृत् ॥७६॥
घण्टां संवादयित्वैव ततश्चारार्त्रिकं चरेत् ।
नग्नमूर्तेः समये मे द्वारं नोद्धाटयेत् क्वचित् ॥७७॥
वस्त्रभूषाधारणादौ द्वारपिधानमाचरेत् ।
धूलीं रजो जन्तुजालं दूरयेद्वै प्रतिक्षणम् ॥७८॥
रात्रौ च शयनादूर्ध्वं चाऽऽप्रातर्मध्यकालिकम् ।
मन्दिरोद्धाटनं नैव कुर्यादापदमन्तरा ॥७९॥
मध्याह्नेऽपि तथा नैवोद्धाटयेत् कष्टमन्तरा ।
भोज्यकाले वदेद् भोज्यकीर्तनं वाद्यसंयुतम् ॥८०॥
असंस्कृतमशुद्धं चाऽसात्त्विकं चाम्बरादिकम् ।
विभूषणं च हाराद्यनिर्मलं चान्नमित्यपि ॥८१॥
जलं चान्यदायुधादि न धारयेन्न चार्पयेत् ।
भावनां शैलविषयां धातुरूपां न चाचरेत् ॥८२॥
दिव्योऽहं सर्वथा वर्ते व्यापकश्चान्तरात्मकः ।
सर्वज्ञः सर्वसंस्थश्च पश्यामि मूर्तिसंस्थितः ॥८३॥
चित्तैकाग्र्यं हि पूजायां रक्षणीयं प्रयत्नतः ।
सर्वेन्द्रियाणां वृत्तीनां मम मूर्तौ विशेषतः ॥८४॥
भक्तस्य भोजने देयं मिष्टं प्रासादिकं मम ।
यथा ममातिसत्कारस्तथा कार्यो जनस्य मे ॥८५॥
भोजनीयो विशेषेण तत्र भुञ्जाम्यहं प्रिये ।
प्रापणं गोधूमकङ्कुयवादीनां सदुत्तमम् ॥८६॥
मदर्थं शुभपक्वान्नं निर्माय देयमेव ह ।
पात्रं स्वर्णादिधातूनां नूतनं देयमेव मे ॥८७॥
मत्कृपापात्रतामाप्ता भक्ता भागवता मम ।
प्रसादाशनयोग्यास्ते तुलसीमालिकायुताः ॥८८॥
महामन्त्रयुताश्चापि दीक्षिता नरयोषितः ।
आत्मनिवेदिभक्ताश्च नैवेद्यप्राशनेऽर्हकाः ॥८९॥
ममैकान्तिकभक्तेषु वासिनां भक्तियोगिनाम् ।
मम लोके गतिः साम्या चतुर्बाहुस्वरूपिणी ॥९०॥
कृच्छ्रादिव्रतकर्तारो यदि भोगेच्छवो जनाः ।
ते तु यान्ति महत्स्वर्गं वैराजं लोकमित्यपि ॥९१॥
अक्षारलवणा ये च व्रतिनो मत्क्रियापराः ।
सत्यलोकं प्रयान्त्येव यदि भोगेच्छवः सदा ॥९२॥
गवां सेवापरा भक्ता महाभागवता यदि ।
तदा यान्ति च गोलोकं शाश्वतं धाम मे जनाः ॥९३॥
उञ्च्छवृत्तिपरा भक्ताः परं वैकुण्ठमेव ते ।
प्रयान्ति रागहीनाश्च यात्रामात्रपरायणाः ॥९४॥
भिक्षाहारा गृहस्थाश्च मद्रताः साधवश्च ते ।
यान्ति मे शाश्वतं धामाऽक्षरममृतमव्ययम् ॥९५॥
मम गृहेऽन्तिके क्षेत्रे चालये मन्दिरेऽपि च ।
प्राणैर्वियुज्यते यः स यात्यक्षरं पदं मम ॥९६॥
अग्नितापा मम भक्ताः साकांक्षा यान्ति वै दिवम् ।
सौरलोकं तापसास्ते प्रयान्तीन्द्रभुवं तथा ॥९७॥
शाकाद्याहारकर्तारो मम भक्तिपरायणाः ।
मम लोकं त्वमृताख्यं प्रयान्त्येव न संशयः ॥९८॥
दीपदानपरा ये च तपःपरा ममाश्रिताः ।
पत्रपुष्पादिदातारो यान्ति मे परमं पदम् ॥९९॥
धर्मिष्ठाश्च सतां सेवापरा यान्ति हि मद्गृहम् ।
जानुयाना मम भक्ता यान्ति धामाऽक्षरं परम् ॥१००॥
उत्तानशयनाद्याश्च यान्ति दिव्यं परं पदम् ।
सर्वत्यागा मम सन्तो मत्स्वरूपा भवन्ति वै ॥१०१॥
यत्र क्वापि धृते देहे मयि सन्धृतमानसाः ।
आत्मना यान्ति मल्लोकं राधालक्ष्म्याश्रितं पदम् ॥१०२॥
त्यागिनः सांख्ययोगाश्च चतुर्भुजा हि विष्णवः ।
भवन्त्येव न सन्देहो मुक्ता मद्रूपधारिणः ॥१०३॥
ओं नमः श्रीकृष्णनारायणायेतिजपान्विताः ।
नरा नार्योऽक्षरादूर्ध्वं परं धाम प्रयान्ति मे ॥१०४॥
शस्त्रहता अपि नामपरा मे भक्तिसंयुताः ।
पार्षदा मम जायन्तेऽक्षरे धाम्नि हि शाश्वताः ॥१०५॥
अकस्मान्मरणं प्राप्ता यदि मच्चित्तवर्त्तिनः ।
क्षणमात्रं स्मरन्तो मां प्रयान्ति परमां गतिम् ॥१०६॥
अतृप्ता नरवर्गा वा नार्यो वा मेऽनुवर्तिनः ।
प्रयान्ति चैश्वरान् लोकान् कोटिकन्याप्रसेवितान् ॥१०७॥
मम दीक्षापरा यान्ति परे धाम्नि महात्मताम् ।
गृहस्थाः कामभोगाढ्या भक्ताश्चेद् यान्ति वैकृतम् ॥१०८॥
मायायाश्च प्रधानाया लोकेषु विगतज्वराः ।
त्यागिनो विधवाद्याश्च भक्ताः कामाभिलाषिणः ॥१०९॥
जायन्ते विष्णुरूपाश्च रमारूपाश्च धामनि ।
कोटिकल्पानि सौख्यानि भुञ्जते ते विकुण्ठके ॥११०॥
मयि स्नेहपरा भक्ता नरा नार्योऽतिकामुकाः ।
मम पत्न्यो भवन्त्येव शाश्वतीं मुक्तिमाश्रिताः ॥१११॥
गुरवोऽपि गृहस्थाश्च कृष्णरूपा भवन्ति ते ।
गोलोके सर्वभोगाश्च शाश्वतानन्दमोदिनः ॥११२॥
इत्येतत् कथितं लक्ष्मि तव पृष्टं मयाऽनघे ।
पठनाच्छ्रवणाच्चास्य लभेद्वै शांकरीं गतिम् ॥११३॥
ब्राह्मीं वा वैष्णवीं वापि स्थितिं लभेन्न संशयः ।
कथयिष्येऽन्यदेवाऽपि पार्वत्या शंकराय यत् ॥११४॥
नर्मदामूलके ऋक्षे पृष्टं यत् तच्छुभावहम् ।
दुःखं सुखं च भक्तानां मनोमात्रविकल्पनम् ॥११५॥
मया धामान्यसंख्यानि गोलोकादीनि चाऽक्षरे ।
प्रान्ते भक्ताप्रभोगार्थं निर्मितानि सुखानि हि ॥११६॥
भक्तभक्तायुगलानि मम भक्तिपराणि च ।
मदिच्छयैषु तिष्ठन्ति यावद्भोगविरामिता ॥११७॥
भोगतृप्तिसुखानां वै विरामेऽक्षरधामनि ।
यान्ति तानि युगलानि मत्स्वरूपपराणि हि ॥११८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीलक्ष्मीकृतानां विविधप्रश्नानां भक्तिकृज्जनगतिसमाधानादिनिरूपणनामा षट्षष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६६॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP