संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५६१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! शंकरश्च पार्वत्यै प्राह तीर्थकम् ।
ज्वालेश्वरं सुविख्यातं कथयामीह तेऽनघे ॥१॥
बलेः पुत्रं त्रिपुरं वै बाणं बाणेन शंकरः ।
निजघान ततश्चास्त्रं ज्वालामालासमन्वितम् ॥२॥
पतितं कल्पगावार्षुं ज्वाला शान्ता तदाऽभवत् ।
ज्वालेश्वरं हि तत्प्रोक्तं पापराक्षसनाशनम् ॥३॥
अथ रेवाचरुसंगं तीर्थं वै राजते परम् ।
नैमिषारण्यके क्षेत्रे पुराऽऽसीन्नगरी शुभा ॥४॥
हिरण्यानामतः स्वर्णसाप्तभौमैर्गृहैर्युता ।
हिरण्यवेगानाम्नी च नदी चास्ते पुरीयुता ॥५॥
हिरण्यबाहुसंज्ञश्च राजा चेयेष वै क्रतुम् ।
नैमिषे स ऋषीन् सर्वान् पप्रच्छ यज्ञभूमिकाम् ॥६॥
ते तु प्राहुर्महाक्षेत्रं पुष्करं मखयोग्यकम् ।
तस्मिन्निष्टं हुतं सर्वं पुण्यं कोटिगुणं भवेत्। ॥७॥
राजा प्राह क्रतुर्मे पुष्करे निष्पाद्यतां शुभः ।
ततो जगाम राजर्षिः पुष्करं सर्वसंभृतः ॥८॥
गवां च दशलक्षाणि सार्धं लक्षं तु वाजिनाम् ।
द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथाऽयुतम् ॥९॥
मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च ।
तेषां संख्या त्वसंख्यैव कुबेरस्य धनं यथा ॥१०॥
भक्ष्यभोज्यानि पानानि प्रवर्तन्ते दिवानिशम् ।
प्रवर्तितस्ततो यज्ञश्चाहूतो यत्र विश्वसृट् ॥११॥
शुक्रश्चापि तदाहूतो नान्ये देवा हि भूसुरैः ।
अन्यदेवैश्च किं कार्यं द्वाभ्यां सर्वं प्रपूजितम् ॥१२॥
न विष्णुश्च न चादित्या न चन्द्रो वरुणो न च ।
न रुद्रो न मरुतश्च नाऽन्ये दिश्या न पालकाः ॥१३॥
यज्ञे प्रवर्तिते यज्ञच्छिद्रान्वेषणतत्पराः ।
विघ्नं कर्तुं समायाता ह्यसुरा देवकण्टकाः ॥१४॥
सर्वशो दानवा दैत्या भूतवेतालराक्षसाः ।
पिबन्ति सोमं यज्ञांगं भक्षयन्ति स्म भूसुरान् ॥१५॥
अग्निर्विनाशितो यज्ञयूपश्च मण्डपो हतः ।
ब्रह्मा शक्रो देवताश्च वीक्ष्याऽऽकस्मिकनष्टताम् ॥१६॥
अदृश्यतां गतास्तस्मात् स्थानाद् विघ्नमयात्ततः ।
हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति वै तदा ॥१७॥
यज्ञे ज्येष्ठाननाहूय देवान् विप्रा हि भिक्षुकाः ।
अपलायन्त मे यज्ञं त्यक्त्वा स्वार्थपरा यतः ॥१८॥
अथ दैत्याः प्रसंगृह्य संभारान् प्रययुर्गृहान् ।
राजाऽविचारयन्नाऽयं पौरुषस्य क्षणो मम ॥१९॥
न कोपस्य न युद्धस्य रुष्टे देवादिमण्डले ।
एकाकी हयमारुह्य सहपत्न्या व्रजाम्यहम् ॥२०॥
यत्राऽऽदित्या न न विष्णुर्न रुद्रो न च चन्द्रमाः ।
तथाऽन्ये न दिशापालाः कथं यज्ञः सुसिद्ध्यति ॥२१॥
लोलुपा ब्राह्मणाः सर्वजिहिर्षवो न रक्षकाः ।
किन्तु ते ध्वंसका जाता लोभमूला अशक्तकाः ॥२२॥
यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः ।
सकण्टके निरुदके प्रदेशे नष्टचेतनाः ॥२३॥
शापं श्रुत्वा च वै विप्रैः शप्तो राजाऽपि दूरतः ।
अरक्षिता त्वं यज्ञस्य क्षत्रियाधम एव च ॥२४॥
अनघानां ब्राह्मणानां शापदो भव वै खरः ।
वने द्वादशवर्षाणि बभूवुः खरराक्षसाः ॥२५॥
अथ काले गतेऽरण्ये देवर्षिर्नारदो मुनिः ।
आजगाम ददर्शैतान् खरं च राक्षसाँस्तथा ॥२६॥
खरो ननाम देवर्षिं पप्रच्छ मोक्षकारणम् ।
नारदस्तु तदा प्राह नार्मदं जलमुत्तमम् ॥२७॥
रेवाचरुकसम्भेदे स्नात्वा मुक्तिं प्रयास्यसि ।
ब्राह्मणा राक्षसाश्चापि स्नात्वा यास्यन्ति मोक्षणम् ॥२८॥
इत्युक्तास्ते ययू रेवां रेवाचरुकसंगमे ।
स्नात्वा मुक्तिं गताः सर्वे नर्मदाजलसंगमात् ॥२९॥
ब्रह्मयानसमारूढाः स्तूयमानाश्च बन्दिभिः ।
ययुर्दिव्यं ब्रह्मलोकं नर्मदावारिसंगमात् ॥३०॥
यत्र विष्णुस्तथा रुद्रो सूर्यो नारायणस्तथा ।
तत्र श्रीर्विजयश्चैव भुक्तिर्मुक्तिश्च शाश्वती ॥३१॥
यत्र भक्तिर्गुरौ चास्ते यथा देवे तथा गुरौ ।
तस्य कामाः प्रसिद्ध्यन्ति गुर्वात्मकहरेर्बलात् ॥३२॥
श्रवणात् कीर्तनादस्य स्मरणात् सेवनादपि ।
वन्दनाद्धारणाद्वापि मुच्यते भवबन्धनात् ॥३३॥
अथाऽतिश्रेष्ठतीर्थं चाऽमरकण्टकमुच्यते ।
तदारभ्य गिरिश्रेष्ठं सर्वं पुण्यतमं स्मृतम् ॥३४॥
यावद्वै संगता रेवां चतुर्नाम्नी महानदी ।
उत्तरे वर्तते यज्ञपर्वतः पावनो महान् ॥३५॥
स्वयंभुवा पुरा तस्मिन्नष्टः सौत्रामणिर्मखः ।
तत्रैवेष्टं मघवता हयमेधेन वै पुरा ॥३६॥
दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः ।
स यावत् सगमो नद्याः स यावद्यज्ञपर्वतः ॥३७॥
रजः सर्वं पवित्रं वै वर्तते मोक्षदायकम् ।
ब्रह्मपुत्रः सुपर्णश्च ऋषिर्यत्राऽभवत्पुरा ॥३८॥
संगमे वासकृद् विद्वान् सर्वशास्त्रविचक्षणः ।
पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता ॥३९॥
एकदा त्वब्रवीद् वाक्यं संप्रसाद्य निजं पतिम् ।
ऋतुकाले यथायोग्ये मां भजस्व महामुने ॥४०॥
जायते मे यथापुत्रः सर्वसन्तानपावनः ।
पुत्रेण लोकान् जयति तृप्यन्ति पितृदेवताः ॥४१॥
अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः ।
ब्राह्मणस्तु तदा प्राहाऽमावास्या वर्जिता प्रिये! ॥४२॥
नाऽत्र संगः प्रकर्तव्यः पितॄणामपि बाधकः ।
दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः ॥४३॥
तद्विनाशो यथा स्यान्न तथाऽन्यत्र दिने तव ।
गर्भलाभाय च प्रिये यतिष्ये मा शुचं व्रज ॥४४॥
इत्युक्ता सा तदोवाच पत्नी ऋषिं सुपर्णकम् ।
पश्यात्र नार्मदे तीर्थे स्नानमात्रेण पापतः ॥४५॥
मुक्तो भूत्वा हि चाण्डालो विमानेन दिवं ययौ ।
न तप्तं न हुतं तेन न जप्तं न यमाः कृताः ॥४६॥
नियमान् स न जानाति तथाप्यसौ दिवं गतः ।
व्रतं नैव कृतं तेन राजस्वल्यं न पालितम् ॥४७॥
न कृतानि व्रताहानि तथापि स दिवं गतः ।
तीर्थस्याऽस्य तु माहात्म्यं परमं तादृशं मुने ॥४८॥
स्नानमात्रेण पापानां नाशो भवति सर्वथा ।
तस्माद् भोगं भजस्वाऽत्र मां गृहाण कृपानिधे! ॥४९॥
भार्यावाक्यं क्वचित् पाल्यं तदा धर्मो न लुप्यते ।
ऋतुस्नाता यदा भार्याऽपत्येच्छा प्रबला यदा ॥५०॥
भार्याया जायते तत्राऽवश्यं पाल्यं स्त्रिया वचः ।
पुत्रोऽवश्यं प्रजायेत ऋतुदानेन वै तदा ॥५१॥
तत्र व्रतं विहातव्यं पर्वाऽपि चोत्सवोऽपि च ।
अनुत्साहहते काले न गर्भोऽपत्यदायकः ॥५२॥
वत्सराणां सहस्रे च विना संगेन वै गते ।
एतादृशे स्थले धर्मः प्रियावाक्यं न चेतरः ॥५३॥
नाऽपवादो न वा बाधो न वा दोषोऽत्र विद्यते ।
दावानले महारण्ये कियन्मात्रं तृणादिकम् ॥५४॥
अमृतानां समुद्रेषु कियन्मात्रं विषतृणम् ।
मध्याह्नसूर्यवेलायां कियन्मात्रं गृहे तमः ॥५५॥
पुण्यपर्वतसंस्थाने कियन्मात्रं ह्यमादिनम् ।
तस्मादद्यैव मां नाथ भजाऽतिप्रेमभावतः ॥५६॥
अग्रहे यद्भवेत्पापं नाऽमापुण्यं हि तत्समम् ।
इत्युक्तश्च पतिस्तत्र भार्या जग्राह कामतः ॥५७॥
ददौ पुत्रस्य गर्भं सः पुत्रोऽभूद् भास्करोपमः ।
अमाश्राद्धे च पितरो भुक्त्वा ये तृप्तिमागताः ॥५८॥
तैरागत्य निशायां च प्रहस्य कथितं तदा ।
अद्य गर्भप्रदानस्य प्रायश्चित्तं द्रुतं कुरु ॥५९॥
नर्मदायां पुनः स्नात्वा होमं जपं पुनः कुरु ।
वयं तृप्ताः प्रसन्नाः स्म सन्तानसन्धिहेतवे ॥६०॥
भार्यया चार्थितस्त्वं तां पुत्रार्थं यद् गृहीतवान् ।
नार्मदं सलिलं चात्र पावनं पापनाशनम् ॥६१॥
ब्रह्महत्याबालहत्यागुरुस्त्रीहननोद्भवम् ।
व्रतनाशादिजं पापं व्यवायादिसमुद्भवम् ॥६२॥
स्नानमात्रेण रेवायां नश्यत्येव न संशयः ।
इत्युक्त्वा पितरस्तस्य ययुः प्रसन्नमानसाः ॥६३॥
अनपत्यविनिश्वासहता गर्भेण जीविताः ।
अथ कालान्तरे तत्र सुपर्णौो भार्यया सह ॥६४॥
विमाने चोज्ज्वले स्थित्वा ययौ ब्रह्मपुरं परम् ।
भुक्तिं मुक्तिं गतस्तत्र सुपर्णः संगमोत्तमे ॥६५॥
अथ वै पश्चिमे नीलगंगाया नर्मदोत्तरे ।
व्यतीपातेश्वरं नाम तीर्थं परमशोभनम् ॥६६॥
सावित्र्याश्च तपस्तप्तं सावित्रीकुण्डमस्ति च ।
इन्द्रद्युम्नोऽभवद् राजा यज्ञं कर्तुं समीहते ॥६७॥
पप्रच्छ च महर्षीन् स धर्मारण्यस्थिताँस्तदा ।
मार्कण्डाद्याश्च तं प्राहुर्नार्मदं क्षेत्रमुत्तमम् ॥६८॥
राजा तूद्घोषयांचक्रे गन्तुं रेवां प्रजाजनम् ।
गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम् ॥६९॥
अश्वानां श्यामकर्णानां सपादं लक्षमेव च ।
दन्तिनामयुतं चापि घण्टाभरणभूषितम् ॥७०॥
सहस्राणि च चत्वारि यानानां कामचारिणाम् ।
लक्षं तु करभाणां वै मणिमाणिक्यलक्षकम् ॥७१॥
अग्निशौचानि वस्त्राणि पात्राणि कानकानि च ।
नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥७२॥
लक्षं कर्मकराणां च तिलदर्भादिकं तथा ।
संगृह्य ब्राह्मणैः सार्धं राजा विमानमाश्रितः ॥७३॥
मुदा परमया युक्तः सान्तःपुरपरिच्छदः ।
धर्मारण्यं ययौ राजा यत्र सा नर्मदा नदी ॥७४॥
यात्राऽद्रिर्वर्तते रम्यो वैदूर्यमणिशोभितः ।
ओंकारेशस्तथाशंभुर्विराजते महाप्रभः ॥७९॥
ओंकारसन्निधौ रेवाकोटितीर्थं विराजते ।
अत्र दत्तं हुतं चेष्टं तपस्तप्तं ह्यनन्तकम् ॥७६॥
सर्वदा सर्वकार्येषु नर्मदा कोटिपुण्यदा ।
त्रिंशद्योजनपर्यन्तं यज्ञयूपाँश्च मण्डपान् ॥७७॥
कारयामास राजाऽसौ कुण्डानि विविधानि च ।
वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन् ॥७८॥
निर्धूमश्चाऽभवद् वह्निर्जग्राह घृतहव्यकम् ।
ब्रह्माणं च तथा विष्णुं शंकरं च समाह्वयत् ॥७९॥
रुद्रा एकादश तत्र तथाऽऽदित्याश्च द्वादश ।
विश्वेदेवा स्तथा साध्या मरुतो वसवस्तथा ॥८०॥
लोकपालाः समुद्राश्च नद्यः शैलाः सुपादपाः ।
दिक्पाला भूतपालाश्च तीर्थानि पितरस्तथा ॥८१॥
सिद्धकिन्नरगन्धर्वा नागराक्षसगुह्यकाः ।
विद्याध्राश्चारणाश्चाप्याययुस्तत्र क्रतूत्सवे ॥८२॥
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ।
बभूवुर्जलपानानि रसपानानि सर्वशः ॥८३॥
भक्ष्यभोज्यैश्च विविधैः काम्ययानादिभिस्तथा ।
तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम् ॥८४॥
एवं निर्वर्तितो यज्ञोऽवभृथं नर्मदाजले ।
बभूव दक्षिणातृप्तिः सर्वेषां यज्ञभागिनाम् ॥८५॥
ओंकारेशं स्वयं राजा पुपूज हेमरत्नकैः ।
मणिमाणिक्यहीराद्यैः कर्पूरागुरुचन्दनैः ॥८६॥
गन्धपुष्पैश्च विविधैर्ध्वजच्छत्रविमानकैः ।
चामरैर्व्यजनैश्चापि पूजयित्वा हरं हरिम् ॥८७॥
तुष्टाव मोक्षदात्रे ते ओंकाराय नमोनमः ।
साक्षाद् रुद्रो बभूवाऽथ मूर्तिमान् तस्य सन्निधौ ॥८८॥
प्राह वरं वृष्णीष्वेति चेन्द्रद्युम्न उवाच तम् ।
आवासं कुरु द्रोण्यां वै सर्वदा यज्ञपर्वते ॥८९॥
मृतानां मोक्षणं स्याच्च पापिनामपि चात्र वै ।
पर्वतं वेष्टयेद् यस्तु सूत्रेणैकेन पर्वणि ॥९०॥
पृथिवी वेष्टिता तेन सशैलवनकानना ।
तेन पुण्येन तस्यात्र मोक्षो ब्रह्मपदं भवेत्। ॥९१॥
तथाऽस्त्विति हरः प्राह तत्रैवाऽन्तरधीयत ।
ब्रह्मा प्राह च राजानं वरदानार्थमेव च ॥९२॥
राजा प्राहाऽत्र वै ब्रह्मन् लिंगमूर्तिधरो भव ।
तथास्त्विति प्रोच्य तत्र ब्रह्मा चान्तरधीयत ॥९३॥
राजा विष्णुं प्रतुष्टाव साष्टांगं प्रणिपत्य च ।
केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् ॥९४॥
पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम् ।
दामोदरं वासुदेवं श्रीहरिं कम्भरासुतम् ॥९५॥
गोपालबालं राधेशं श्रीशं रमेश्वरं प्रभुम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥९६॥
मंजुलेशं पार्वतीशं प्रभेशं माणिकीपतिम् ।
लक्ष्मीनारायणं हंसाजयानाथं नमाम्यहम् ॥९७॥
शखचक्रगदाशार्ङ्गवनमालाविभूषणम् ।
लोकनाथं जगन्नाथं श्रीनाथ प्रणमाम्यहम् ॥९८॥
अक्षरेश च मुक्तेश ललितेश नमोऽस्तु ते ।
अवतारेश देवेश व्यूहेश च नमोऽस्तु ते ॥९९॥
ईश्वरेश च मायेश दुर्गेश जाह्नवीपते ।
जीवेशाऽनन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते ॥१००॥
वेदात्मकाय कान्ताय धर्मपुत्राय ते नमः ।
ब्रह्मव्रतधरायाऽत्रिगुणाय च नमोऽस्तु ते ॥१०१॥
प्रकृतीशाय शान्ताय वैकुण्ठस्थाय ते नमः ।
नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः ॥१०२॥
साधुवेषधरायादिकारणाय च ते नमः ।
सहस्रशिरसे वेद्यपुरुषाय च ते नमः ॥१०३॥
असुराणां दमनार्थं धृतरूपाय ते नमः ।
हिरण्यगर्भरूपायाऽमृतधाम्ने च ते नमः ॥१०४॥
सर्वगर्भाय कृष्णायाऽन्तरात्मने च ते नमः ।
स्रष्ट्रेऽवित्रे च संहर्त्रे कार्यरूपाय ते नमः ॥१०५॥
सर्वदिक्पालरूपाय लोकपालात्मने नमः ।
अर्धनारीस्वरूपाय त्रिदेवाय च ते नमः ॥१०६॥
अनन्ताऽऽनन्दनिधये ब्रह्मधाम्ने च ते नमः ।
कर्मफलप्रदात्रे ते चाऽन्तःस्थाय नमो नमः ॥१०७॥
सौराष्ट्रकृतवासाय श्रीकृष्णाय परात्मने ।
कोटिगोपीकान्त तुभ्यं सुखदाय नमो नमः ॥१०८॥
ब्राह्मतेजसे क्षत्राणां वीर्यरूपाय ते नमः ।
विशां सम्पत्स्वरूपाय शरण्याय च ते नमः ॥१०९॥
पातिव्रत्यस्वरूपाय पत्नीवृषाय ते नमः ।
सदोर्ध्वरेतसे कृष्ण मोक्षदाय च ते नमः ॥११०॥
साधुषु सर्वदा स्थात्रे बालरूपाय ते नमः ।
नमो भक्तमनःकामपूरकाय नमो नमः ॥१११॥
ज्ञानदाय तथेच्छासंप्रदाय यत्नदाय च ।
क्रियादात्रे फलदात्रे भोक्त्रे भोग्याय ते नमः ॥११२॥
प्रकाशाय परेशाय जीवस्थाय च ते नमः ।
सर्वदेहिनिवासाय शक्तियोग्याय ते नमः ॥११३॥
अचिन्त्यगुणधाम्ने ते दिव्यदेहाय ते नमः ।
अपारैश्वर्यधात्रे ते दृश्यरूपाय ते नमः ॥११४॥
अदृश्यरूपरूपाय नित्यज्ञाय च ते नमः ।
सर्वतत्त्वस्वरूपाय मण्डपाय च ते नमः ॥११५॥
पञ्चाग्निकृतरूपाय व्रतस्थाय च ते नमः ।
पुण्यदाय महेशाय सर्वेशाय च ते नमः ॥११६॥
सर्वदुःखविनाशित्रे वह्निरूपाय ते नमः ।
नमोऽस्तु स्रुक्स्रुवाद्यात्मयज्ञपात्राय ते नमः ॥११७॥
दक्षिणापतये तुभ्यं चाशीर्वादाय ते नमः ।
तृप्तये शान्तिरूपाय रसरूपाय ते नमः ॥११८॥
सर्वेन्द्रियनिवासाय सत्यकामाय ते नमः ।
आदित्यादिस्वरूपाय वृषरूपाय ते नमः ॥११९॥
नमस्कारस्य पात्रायाऽर्पणपात्राय ते नमः ।
त्वत्प्रसादात् कृपासिन्धो यज्ञसिद्धिर्ममाऽभवत्१२०॥
करं गृहाण मे विष्णो यथा पत्नीकरं वरः ।
देहि मे चरणे वासं नान्यं वृणोमि केशव! ॥१२१॥
विष्णुः श्रुत्वा परं स्तोत्रं प्रसन्नः प्राह भूपतिम् ।
वरं वृणु वरं राजन् यत्ते मनसि वर्तते ॥१२२॥
ददामि ते न सन्देहो यज्ञसिद्धिर्भविष्यति ।
इन्द्रद्युम्नस्तदोवाच ओंकारनाथसन्निधौ ॥१२३॥
वैदूर्यपर्वते कृष्ण निवासं कुरु सर्वदा ।
येन मोक्षो भवेत्तत्र चागतानां तवाऽर्चनात् ॥१२४॥
दर्शनाद् वन्दनाच्चापि सेवनादवगाहनात् ।
प्राणत्यागे देहिनां च गमनं ते पदे भवेत् ॥१२५॥
पितॄणामन्नदानेन यान्तु ते वैष्णवं पदम् ।
अपि कीटपतंगाद्या यान्त्वत्र परमां गतिम् ॥१२६॥
तथास्त्विति हरिः प्राह चावाततार तत्र च ।
तीर्थान्यपि स्थितान्यत्र नारायणपदाम्बुजे ॥१२७॥
अवतेरुश्च तीर्थानि नर्मदायां क्रतुक्षितौ ।
नीलगंगासंगमे च वर्तन्ते मोक्षदानि वै ॥१२८॥
राजा रेवां प्रतुष्टाव सप्तधारामयी भव ।
इत्येवमर्थयामास सापि सप्तप्रवाहिणी ॥१२९॥
सञ्जाता मोक्षदा रेवा सर्वतीर्थमयी सती ।
दानं हुतं जपस्तप्तं सर्वमत्राऽक्षयं भवेत्। ॥१३०॥
इत्येवं वै क्रतुं कृत्वा चेन्द्रद्युम्नो हि नर्मदाम् ।
विष्णुं देवान् तथौंकारं नमस्कृत्य ययौ गृहम् ॥१३१॥
देवाद्या मानवाद्याश्च यज्ञे तृप्ता ययुर्गृहम् ।
श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥१३२॥
शंकरः पार्वतीं प्राह मोक्षश्चात्र भवेत् प्रिये! ।
लक्ष्मि! तीर्थं मयोक्तं ते भुक्तिमुक्तिप्रदं परम् ॥१३३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालेश्वरतीर्थं हिरण्यबाहुराज्ञो गर्दभतामुक्तिः, रेवाचरुकसंभेदतीर्थम्, अमरकण्टकतीर्थं, यज्ञपर्वतः, सुपर्णकथा, ओंकारतीर्थमित्यादिनिरूपणनामैकषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६१॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP