संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५५१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शंकरः पार्वतीं प्राह तीर्थान्तराणि यान्यपि ।
सौराष्ट्रे तानि ते वच्मि लक्ष्मि! निबोध मे प्रिये! ॥१॥
उन्नबिल्लं शुभं तीर्थं गृहात्मकं च शांभवम् ।
गंगेश्वरं पश्चिमे वै रैवताद् भाति शोभनम् ॥२॥
यक्षेश्वरीमहातीर्थंम् उपलात्त्वं च शोभनम् ।
वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा ॥३॥
पुत्रशोकाभिसन्तप्तो वसिष्ठो भगवानृषिः ।
आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे ॥४॥
ईशानकोणे नगरात् स्वर्णरेखानदीजले ।
वासिष्ठं तन्महत्तीर्थं वर्तते भुक्तिमुक्तिदम् ॥५॥
बलिखातं मखतीर्थे कृतस्मरस्य सन्निधौ ।
वर्तते मोक्षदं नाथतीर्थं लोकस्य शान्तिदम् ॥६॥
वस्त्रापथस्य वायव्ये दिव्यं चास्ति सरोवरम् ।
अप्सरसां परीतालं देवाः स्नान्ति विहारिणः ॥७॥
जालीगहनशंभुश्च देवी त्रिशूलिनी तथा ।
हेरम्बाख्यो गणेशश्च वर्तन्ते तीर्थवासिनः ॥८॥
पश्चिमे सागरे तत्र मकरालयपत्तनम् ।
कुन्दनाख्यं पुरं चापि मणिभद्रं शुभाश्रयम् ॥९॥
श्रीदामपुरमुत्कृष्टं द्वारिकाक्षेत्रमुत्तमम् ।
एवं तीर्थानि सामुद्रे तटे वसन्त्यनेकशः ॥१०॥
एवमुक्त्वा महादेवः पार्वतीं परमेश्वरीम् ।
कृत्वा प्राभासिकं यज्ञं श्रावणे समुपस्थिते ॥११॥
ययौ कोटिगणैर्युक्तो द्वारिकां नगरीं प्रति ।
श्रीकृष्णाद्यास्तीर्थदेवाः सत्कारं चक्रुरीश्वराः ॥१२॥
मासं नीत्वा कृष्णभूमौ चमत्कारपुरं ययुः ।
तत्र देव्यश्चाऽष्टषष्टिसंख्या हरेण पूजिताः ॥१३॥
नवरात्रव्रते सर्वाः प्राप्य श्रीशंकरं पतिम् ।
निमग्नाः सुखविस्तारे ब्रह्मानन्दात्मसागरे ॥१४॥
आश्विने च ययुः सर्वे पर्वतं त्वर्बुदाचलम् ।
गगनस्थं पुष्करं तु यत्र संराजतेऽनिशम् ॥१५॥
द्वितीयं पर्वतशृंगे तृतीयं भूतले स्थितम् ।
वसिष्ठादिमहर्षीणामाश्रमा यत्र शोभनाः ॥१६॥
पर्वते चाकचक्यादिरूपाश्च वालुकाः शुभाः ।
वृक्षाश्च वल्लिकाः स्तम्बास्तापसा इव भान्ति च ॥१७॥
अरण्यान्यपि रम्याणि देवोद्यानानि वै तथा ।
यज्ञानां भूमयो यत्र तापसानां च वेदिकाः ॥१८॥
सतीनां सुनिवासाश्च साधूनामाश्रमास्तथा ।
विद्यन्ते ब्राह्मणानां च वैष्णवानां शुभालयाः ॥१९॥
सारस्वतानि तीर्थानि नदा नद्यश्च पाविकाः ।
मेघानां शिखरावासा वायूनां गन्धमिश्रिताः ॥२०॥
धेनूनां देवकोटीनां वासा यत्र भवन्ति च ।
योगिनां सिद्धजीवानां मण्डलानि वसन्ति च ॥२१॥
पुष्करे शिखरे वासं तत्र चक्रुः शिवादयः ।
पुष्करादीनि तीर्थानि वसिष्ठाद्या महर्षयः ॥२२॥
ब्रह्माद्या देवताश्चान्ये चक्रुः शंकरमाननम् ।
जलं पुष्पं फलं चार्घं नैवेद्यं सेवनादिकम् ॥२३॥
ददुः श्रीपरमेशाय पार्वतीपतये सुराः ।
वशिष्ठेन कृता पूजा विशिष्टा च निजालये ॥२४॥
सुविश्रान्तिं ततश्चक्रुः शांक?रत्वर्बुदाचले ।
अर्बुदोऽयं दिव्यमूर्तिः सत्कारं कृतवान् बहुम् ॥२५॥
शंकरः पार्वतीं प्राह निशायां स्वासने कथाम् ।
शृणु त्वस्य कथां दिव्यां पापतापप्रणाशिनीम् ॥२६॥
गौतमोऽभून्मुनीनां वै मान्यो धन्यो महानृषिः ।
शतशृंगे निवासं स कृत्वा तपश्चचार ह ॥२७॥
अहल्या तस्य भार्याऽपि तापसी ब्रह्मवादिनी ।
दण्डकारण्यवास्तव्या गौतमे किंकरी सदा ॥२८॥
अतिथीनां पूजनं सा सदा करोति भामिनी ।
एकदाऽवग्रहे जाते पृथ्व्यामन्नानि सन्ति न ॥२९॥
विप्रा विचारयामासुर्भोजनं क्व मिलिष्यति ।
गौतमोऽस्ति समर्थः स पूजयत्यतिथीन् सदा ॥३०॥
तद्गृहं समगच्छाम इत्याययुः समन्ततः ।
गौतमस्तद्विलोक्यैव ब्रह्माणं प्रपितामहम् ॥३१॥
सस्मार सुबहु ब्रह्मा प्रत्यक्षः सम्बभूव ह ।
वरं वृणु समुवाच गौतमः प्राह भूतले ॥३२ ॥
जलं गोधूमधान्यानि यवाश्च कणिशादयः ।
प्रातरारभ्य जायन्तां मध्याह्ने तत्कणान्वयम् ॥३३॥
गृह्णीयो नित्यमित्येवं तेषां पक्वं च भोजनम् ।
वैश्वदेवं शुभं श्राद्धं नैवेद्यं देवतासु च ॥३४॥
आतिथेयं ब्राह्मणानां कुर्मो यया तथास्तु मे ।
ब्रह्मा त्वाश्रुत्य च तथास्त्विति प्राह ययौ ततः ॥३९॥
नित्यं धान्यं नवं प्रातर्जायते तच्च पच्यते ।
सहस्राणां नित्यमेव विप्राणां भोजनं तथा ॥३६॥
भवत्येवं वत्सरं वै ब्राह्मणा भोजितास्तया ।
पातिव्रत्यप्रभावेणाऽहल्या करोति सेवनम् ॥३७॥
संकल्पयति नित्यं सा प्रातः कान्तस्य पादयोः ।
नत्वा पतित्वा चाऽङ्गुष्ठे प्रक्षाल्याऽर्घं विधाय च ॥३८॥
यद्यहं स्वामिभार्याऽस्मि स्वामिभक्ता पतिव्रता ।
तदा त्वत्र प्रजायन्तां लक्षपात्राणि नित्यशः ॥३९॥
दासा दास्यः सेवकाश्च धेनवो रसवदघ्रदाः ।
खाद्यपेयानि सर्वाणि क्रियन्तां हुतभुक् स्वयम् ॥४०॥
देवाश्च परिवेष्टारो भवन्तु दण्डके मम ।
एवं नित्यं सुसंकल्प्य कृत्वा महानसानि च ॥४१॥
पाचयित्वा नवान्नानि कृत्वा विश्वसुरार्पणम् ।
गोग्रासान् जन्तुभागाँश्च विकीर्य पितृपिण्डकान् ॥४२॥
विप्रान् लक्षमितान् नित्यं भोजयत्यधिकानपि ।
अथ वर्षोत्तरे काले सुवृष्टिर्भूतलेऽभवत् ॥४३॥
अन्नानि सर्वदेशेषु जातान्येव समन्ततः ।
विप्राः प्राहुर्वयं देशान्तराण्येष्याम एव वै ॥४४॥
गौतमस्ताँस्तदा प्राह वसताऽत्रैव भूसुराः ।
तदा ते ब्राह्मणाः प्राहुः स्वतन्त्राः स्मो वयं मुने! ॥४५॥
त्वयाऽन्नानि प्रदत्तानि रक्षिताश्च वयं सदा ।
यस्याऽन्नं तस्य वै देहोऽधीनता तस्य चोत्तमा ॥८६॥
तद्वाक्यं सर्वथा पाल्यं किन्तु जिगमिषा ध्रुवा ।
इत्युक्त्वा चिन्तयामासुर्गन्तुं ते मिषमद्भुतम् ॥४७॥
एको विप्रो रोधनाख्यः प्राणायामं विधाय च ।
संयमेन विवेशाऽन्तर्हृदये गौतमस्य हि ॥४८॥
अन्यैश्चैका तु गौस्तत्र निर्मिता मायया शुभा ।
सा गता गौतमश्चैव शालायां तृणसन्निधौ ॥४९॥
गौतमोऽपि स्थितस्तत्र प्राणायामे स्थिरो ह्यतः ।
गौर्गता पर्णशालायां गौतमस्तां विलोक्य च ॥५०॥
रोधनाऽन्तःप्रवेशेन प्राणरुद्धा भवाऽत्र गौः ।
एवमुच्चारयामास प्राणरुद्धाऽभवत्तु गौः ॥५१॥
पतिता मूर्छिता चापि विप्राः प्राहुस्तदा मुहुः ।
गोघ्नो वै गौतमो नाऽस्याऽऽश्रमे स्थेयं तु भूसुरैः ॥५२॥
गौतमस्तान् मुहुः स्तुत्या तुष्टाव पूज्यभूसुरान् ।
नेयं मृताऽस्ति मूर्छायां मूर्छा नश्येत्तु वा कथम् ॥५३॥
प्रायश्चित्तं करोम्यत्र मा यान्तु भूसुरा गृहात् ।
इत्युक्ता ब्राह्मणाः प्राहुः प्रायश्चित्तं न जीविते ॥५४॥
मूर्छिते वा प्रकर्तव्यं मूर्छा दूरीकरोतु वै ।
गंगाजलं समानीय समाप्लावय गामिमाम् ॥५५॥
विमूर्छा स्थास्यति द्राग् वै वयं यामो वनान्तरम् ।
इत्युक्त्वा प्रययुः सर्वे विप्रा दण्डकभूमितः ॥५६॥
गौतमो व्योममार्गेण ययौ श्रीशंकर प्रति ।
शंकरः स्वागतं तत्र कैलासे कृतवान् पुरा ॥५७॥
गौतमस्तु हरं नत्वा ययाचे गांगकं जलम् ।
शंकरः स्वं जटाखण्डं समुत्पाट्य ददौ तदा ॥५८॥
सगांगं तं निनायात्र दत्वा गोदेहमस्तके ।
तदुत्पन्नजलेनैनां प्लावयामास गौतमः ॥५९॥
गौर्जाता स्वस्थहृदया विमूर्छा त्वाश्रमे स्थिता ।
गंगा सा गौतमी जाता गोदानस्य वरेण हि ॥६०॥
गोदावरीति विख्याता दण्डकारण्यवासिनी ।
अथ तान् ब्राह्मणानाह गौतमर्षिः पलायितान् ॥६१॥
सर्वे भवन्तु कापट्यधर्माभासा युगान्तरे ।
रौद्राः कपालसंगाश्च भोज्यदानां विनिन्दकाः ॥६२॥
इत्येवं सति! ते चास्य गौतमस्य प्रभावनम् ।
कथितं सुचमत्कारमयं गोदावरं स्थलम् ॥६२॥
तत्र गोदावरे तीर्थे गौतमस्याऽभवच्छुभः ।
शिष्यस्तूत्तंकनामा यो वेदानधीत्य यावतः ॥६४॥
गुरवे दक्षिणां दातुं प्रार्थनां प्रचकार सः ।
गुरुपत्नी तदा प्राह दक्षिणां मणिमालिकाम् ॥६५॥
सौदासस्य गृहे राज्ञी मदयन्ती स्ववक्षसि ।
धारयत्येव नित्यं सा त्वानेतव्या प्रदेहि ताम् ॥६६॥
इत्युक्तो गुरुपत्न्या स प्रस्थितः सत्वरं तदा ।
सुदासस्य गृह प्रायात् सुदासं व्याघ्ररूपिणम् ॥६७॥
ददर्श त्वभियान्तं स्वं भक्षयितुं स भूसुरः ।
विप्रः प्राह यथेष्टं त्वं खाद मां तदनन्तरम् ॥६८॥
अतिथिस्ते समायातो मणिमाला प्रदेहि मे ।
गुरुवेऽर्पय्य चैष्यामि दक्षिणां त्वभिवाञ्च्छिताम् ॥६९॥
राजा प्राह शुभं विप्र! याच्यतां महिषी मम ।
इत्युक्तो भूसुरो राज्ञीं ययाचे मालिकां प्रति ॥७०॥
राज्ञी प्राह त्वमानीहि चाभिज्ञानं नृपस्य वै ।
स गत्वा त्वरितं भूपमभिज्ञानमयाचत ॥७१॥
सौदासश्चाह वाक्यं यदभिज्ञानं यतो भवेत् ।
यैर्विना सुगतिर्नास्ति दुर्गतिं येन यान्ति च ॥७२॥
गत्वैवं ब्रूहि तां साध्वीं श्रुत्वा दास्यति मालिकाम् ।
सा ददौ भूसुरायैनां मालिकां दिव्यसत्प्रभाम् ॥७३।
उवाच त्वसुरस्तत्र रणान्तिके प्रतिष्ठति ।
अतलात् स समागत्य मालामिच्छति मे शुभाम् ॥७४॥
अजामृतोऽसुरो नाम्ना खातयामास तत्तलम् ।
भूगर्भे वासयामास राक्षसान् स निजानुगान् ॥७५॥
तेन वै विवरं पृथ्व्यां चातिदीर्घं कृतं यतः ।
आहरेन्न यथाऽऽगत्य तथा रक्ष प्रयाहि वै ॥७६॥
इत्युक्तः सोऽप्युतंकश्च मणिहारं समाददे ।
आयातः स्वगुरोः पत्न्यै ददौ हीरकहारकम् ॥७७॥.
गुरुं पप्रच्छ वाक्यस्य शुभार्थं स जगाद् ह ।
प्रसादिता द्विजा दानैर्दास्यन्ति सुगतिं पराम् ॥७८॥
असन्तुष्टा द्विजा यस्य दुर्गतिस्तस्य सर्वदा ।
इत्यर्थं चापि विज्ञाय मुमुदे भूसुरस्तदा ॥७९॥
आशीर्वादान् गुरोर्गुर्व्याः समादाय महानृषिः ।
उत्तंकः पुष्करं तीर्थं रम्यं निजालयं ययौ ॥८०॥
उत्तंकतीर्थमत्राऽस्ति पापतापप्रणाशनम् ।
अथैतद् विवरं दीर्घमायतं चासुरैः कृतम् ॥८१॥
तत्रैकदा वशिष्ठस्य कामधेनुः पपात ह ।
वशिष्ठो निजयोगेन होमधेनुं निजां तदा ॥८२॥
बहिर्निष्कासयामास तत आरभ्य सर्वदा ।
पूर्तिं विचारयामास विवरस्य महाद्रिणा ॥८३॥
हिमालयं ययौ शीघ्रं वशिष्ठो हि विहायसा ।
अर्थयामास तत्पुत्रं विवरस्य प्रपूर्तये ॥८४॥
नन्दिवर्धं सुतं प्रादाद् वशिष्ठस्तं निनाय च ।
विवरे स्थापयामास नन्दिवर्धननामकम् ॥८५॥
अर्बुदेन च नागेन धृतस्तत्र यथायथम् ।
अर्बुदाचलमेवैतन्नामख्यातिं गतं ततः ॥८६॥
भाद्रशुक्लस्य पञ्चम्यां त्वायातः पर्वतो यतः ।
तीर्थान्यपि वशिष्ठेन चानीतानि बहून्यपि ॥८७॥
अस्य शृंगे नागतीर्थं वशिष्ठस्याऽऽश्रमस्तथा ।
शंकरस्य तथा वासस्तत्र स्नात्वा च निर्झरे ॥८८॥
धनसम्पत्सुखस्वर्गपुत्रलक्ष्म्यादि चाप्यते ।
वन्ध्या स्नात्वा पुत्रवती भवेदेव न संशयः ॥८९॥
श्राद्धं तत्र करिष्यन्ति पितरस्तस्य सर्वथा ।
मुक्तिं स्वर्गात् प्रयास्यन्ति कर्ताऽपि मुक्तिगो भवेत् ॥९०॥
वशिष्ठश्चानयामास गौतमीं च सरस्वतीम् ।
गंगां मन्दाकिनीं तत्राऽचलेश्वरं च शंकरम् ॥९१॥
गौतमी ब्राह्मणी काचिदनपत्यत्वदुःखिता ।
साध्वी तीर्थं नागतीर्थमाययावर्बुदाचले ॥९२॥
अथ सा चिन्तयामास धिङ् मां पुत्रविवर्जिताम् ।
इति चिन्तापरा स्नातुं नागतीर्थं विवेश सा ॥९३॥
स्नात्वा सा निर्गता तस्मात् सलिलाद् यावदेव हि ।
विनापि भर्तृसंयोगं सद्यो गर्भवती ह्यभूत् ॥९४॥
प्रसन्ना सा च शुश्राव गां तदा चाऽशरीरिणीम् ।
यो यद्वाञ्च्छति चित्तेऽत्र जलमध्ये व्यवस्थितः ॥९५॥
चिन्तितं तदवाप्नोति नारी वाऽथ नरोऽपि वा ।
त्वया त्वत्र जलेस्थित्वा पुत्रवाञ्च्छा कृता हृदि ॥९६॥
अतो गर्भयुता जाता पुत्रस्तव भविष्यति ।
श्रुत्वाऽऽकाशगता वाणीं देवदूतेन भाषिताम् ॥९७॥
दृष्ट्वा पतिं विना गर्भं वाक्यमेतदुवाच सा ।
अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे ॥९८॥
यत्र संजायते गर्भः स्त्रीणां शुक्रं रजो विना ।
ततो गृहं गता सा च सुषुवे सुतमुत्तमम् ॥९९॥
सकामा ये चात्र तीर्थे स्नान्ति तेषां मनोरथाः ।
फलन्त्येव न सन्देहो यथा सा गौतमी तथा ॥१००॥
गोमती चाहृता कुण्डे वशिष्ठेन महात्मना ।
तत्र स्नात्वा परं स्वर्गे विन्दते नात्र संशयः ॥१०१॥
शृणु देवि! चमत्कारमचलेश्वरसन्निधौ ।
शुकश्चासीत् कृतनीडः प्रदक्षिणं करोति सः ॥१०२॥
उड्डीयोड्डीय च नीडे विश्राम्यति पुनः पुनः ।
कालेन च मृतो राजा वेणुनामाऽभवद्धि सः ॥१०३॥
जातिस्मरौ वभूवाऽसौ राजा स्मृत्वा शुकस्थितिम् ।
अचलेश्वरमासाद्य प्रदक्षिणमथाऽकरोत् ॥१०४॥
नान्यत् किञ्चित् करोत्येव करोत्येव प्रदक्षिणम् ।
नारदाद्याः ऋषयस्तु दृष्ट्वा भूपं तथाविधम् ॥१०५॥
पप्रच्छुः केवलं प्रदक्षिणं कथं विधीयते? ।
नैवेद्यं फलपुष्पादि कथं नार्पयसे वद् ॥१०६॥
वेणुः प्राह पुरा पक्षी शुकश्चासं स्थितोऽत्र तु ।
देवं तत्र स्थितं कुर्वन् प्रदक्षिणमहर्निशम् ॥१०७॥
कृपया तत्प्रभावाच्च जातिस्मरोऽधुनाऽभवम् ।
करोमि तन्महापुण्यं स्मृत्वा देवप्रदक्षिणम् ॥१०८॥
अनन्तपुण्यलाभार्थं करोम्येव प्रदक्षिणम् ।
ऋषयो नृपतेः श्रुत्वा साधु साध्विति चाऽब्रुवन् ॥१०९॥
राजा कालेन महता हरभक्त्या ततः परम् ।
ओं नमः श्रोकृष्णनारायणाय स्वामिने नमः ॥११०॥
इति मन्त्रं हराल्लब्ध्वा भक्त्या वैकुण्ठमाययौ ।
सत्यै शंभूदितं वृत्तं लक्ष्मि! ते तु मयोदितम् ॥१११॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरादीनां द्वारिकाचमत्कारपुराऽर्बुदाचलादिगमन, गौतमवृत्तान्तं, सौदासोत्तंकवृत्तान्तं, नागतीर्थमहिमा, वेणुनृपमोक्षः, अर्बुदानयनवृत्तान्तं, चेत्यादि-
निरूपणनामैकपञ्चाशदधिकपञ्चशततमोऽध्यायः ॥५५१॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP