संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५३८

कृतयुगसन्तानः - अध्यायः ५३८

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! ततः शंभुः प्राह सतीं तु पार्वतीम् ।
वराहाख्यो महाविष्णुः सोमतीर्थे प्रतिष्ठति ॥१॥
तथा ब्रह्मा गणेशश्च हेरम्बनामतः स्थितः ।
तथा कपर्दिनामापि क्षेत्ररक्षाकरः स्थितः ॥२॥
अतस्तत्र महातीर्थे कपर्दीश्रीगणाधिपः ।
पूजनीयस्तथा विष्णुर्वराहोऽर्च्यः सदा जनैः ॥३॥
आसीद् राजा पुरा देवि! शशबिन्दुरितिस्मृतः ।
स तु साकं भार्यया वैहायसेन पथैकदा ॥४॥
विमानेन ययौ तीर्थं कर्तुं प्रभासमुत्तमम् ।
फाल्गुने कृष्णपक्षे तु चतुर्दश्यां निशामुखे ॥५॥
अथ सोमेश्वरक्षेत्रे व्रतिनोऽत्र समागतान् ।
अपश्यन्मुनिवर्यांश्च तद्वा जागरणे स्थितान् ॥६॥
सोमनाथं मुनीन् नत्वा कंचित् केदारकं प्रति ।
ययौ तत्र स्थितं लिंगं पुपूज परमादरात् ॥७॥
ऋषयस्ते च पप्रच्छुः कथं मुक्त्वा तु सोमकम् ।
केदारं पूजितं राजन्! वदात्र कारणं तु नः ॥८॥
राजा प्राह पुरा चाहं सौराष्ट्रे शूद्रवर्णजः ।
अभवं भार्यया साकं क्षेत्रे चात्र समागतः ॥९॥
हरिणीसरिति तत्र कमलानि मया तदा ।
दृष्टानि तानि नीतानि विक्रयार्थं मया तदा ॥१०॥
सोमनाथसमीपं च विक्रयार्थं स्थितो दिवा ।
अस्तंगतेऽपि च रवौ क्रीतानि केनचिन्न वै ॥११॥
ततोऽहं क्षुधया व्याप्तो गतो लिंगसमीपतः ।
तत्र काचिदनंगाख्या शिवरात्रिव्रतस्थिता ॥१२॥
स्वतन्त्रा स्त्री जागरणे गीतनृत्योत्सवे रता ।
मया दृष्टा तथा पृष्टा किमेतत् क्रियते त्वया ॥१३॥
सा मामुवाच हि तदा शिवरात्रिव्रतं प्रति ।
व्रतकर्ता दुःखहीनो जायते सम्पदा युतः ॥१४॥
भयरोगारिष्टनाशो जायतेऽस्य पदे पदे ।
अथ श्रुत्वा मम बुद्धिरुत्पन्ना तद्व्रतं प्रति ॥१५॥
उपवासः सहजतो जातः पद्मस्थले मम ।
स्नात्वा तैः कमलैर्देवो रुद्रेशः पूजितस्तदा ॥१६॥
जागरणं कृतं पत्न्या साकं कल्याणवाञ्च्छया ।
तत्पुण्येन च राजाऽस्मि राज्ञी चेयं मम प्रिया ॥१७॥
जातिस्मरः सभार्योऽस्मि ततो रुद्रेश्वरं खलु ।
केदारे संस्थितं त्वत्र पूजयामि पुराऽर्चितम् ॥१८॥
अतो रुद्रेश्वरं तीर्थं राज्यप्रदं प्रपूजनात् ।
धर्मार्थकाममोक्षाणां प्रदं शान्तिप्रदं सुखम् ॥१९॥
स्वतन्त्रा या प्रमदा च पूजयित्री तदाऽभवत् ।
सा तु रंभानामस्वर्गाप्सरा जाता मनोहरा ॥२०॥
एवं केदाररुद्रेशं तीर्थं तत्र प्रवर्तते ।
ततः संपूजयेत् तत्र श्वेतकेत्वीश्वरं हरम् ॥२१॥
श्वेतकेतुनृपेणाऽत्र पुरा कृत्वा तपः परम् ।
मुक्तिर्लब्धा तत्र शंभुः श्वेतकेत्वीश्वरोऽभवत् ॥२२॥
अथाऽऽदित्येश्वरं प्रेयात् पूर्वस्यां संस्थितं हरम् ।
अथ शंभुस्त्रिपुरस्य विनाशाय स्वनेत्रतः ॥२३॥
अश्रु मुमोच क्रोधेन स भौमो मंगलोऽभवत् ।
तेन वै पूजितस्तत्र भौमेश्वरोऽभवद्धरः ॥२४॥
एवं नवग्रहतीर्थं तत्र३वर्तते प्रिये ।
ज्ञानक्रियेच्छाः शक्तयस्तिस्रो नारायणस्य याः ॥२५॥
मंगला च विशाला च चत्वरा ताः स्थिताः सदा ।
तासां तीर्थं परं चात्र प्रभासे शान्तिदायकम् ॥२६॥
विशालाक्षी तथा विष्णोः समुत्पन्ना पुरा युधे ।
दैत्यानां तु विनाशार्थं तत्तीर्थे चं प्रभासके ॥२७॥
लक्ष्मि! साकं त्वया चाहं गतवान् वै पुरा युगे ।
लक्ष्मीतीर्थं तथा कृष्णनारायणस्य तीर्थकम् ॥२८॥
वर्तते सोमसत्क्षेत्रे दर्शनान्मुक्तिदं शुभम् ।
कामतीर्थं रतितीर्थं वर्तते च प्रभासके ॥२९॥
गौरीतीर्थमिषातीर्थं पापहन्तु विभासते ।
नारदस्त्वेकदा चक्रे पुण्डरीकं क्रतुं पुरा ॥३०॥
नारदक्रतुतीर्थं तद् वर्तते तु प्रभासके ।
गौतमोऽपि मुनिस्तत्र पुरा यात्रार्थमागतः ॥३१॥
चातुर्मासं तपश्चक्रे गौतमं तीर्थमुच्यते ।
आदौ कृते युगे दैत्यो महान् वै मेघवाहनः ॥३२॥
अभून्महाशरीरः स योजनायतविस्तृतः ।
पादुके द्वे समारुह्य आदिनारायणः स्वयम् ॥३३॥
जघान तं महादैत्यं पादुकातीर्थमुच्यते ।
पादुकया हतो दैत्यस्ताडितया तु वक्षसि ॥३४॥
पादुकासनसंस्थोऽहं कृष्णनारायणः स्वयम् ।
तिष्ठामि सोमके तीर्थे मोक्षदोऽसुरनाशकः ॥३५॥
इति ते कथितं लक्ष्मि! माहात्म्यं विष्णुदैवतम् ।
अथैकादशरुद्राणां तीर्थानि सन्ति तत्र वै ॥३६॥
अजैकपादहिर्बुध्नो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥३७॥
प्राणोऽपानः समानश्चोदानो व्यानश्च वायवः ।
नागश्च कूर्मः कृकलो देवदत्तो धनंजयः ॥३८॥
आत्मा चेति क्रमाज्जाता रुद्रा ह्येकादशैव ते ।
अमूर्ता मूर्तिमापन्नास्तत्तीर्थं च प्रभासके ॥३९॥
नन्दिनाऽपि तपस्तप्तं मृत्युञ्जयहरोपरि ।
नन्दितीर्थं तु तत्तत्र वर्तते बहुपुण्यदम् ॥४०॥
धेनूर्भूत्वा पुरा पृथ्वी तीर्थार्थं तत्र चागता ।
सोमेशं स्नपयामास सती दुग्धस्य धारया ॥४१॥
ततः स्नात्वा विलीनाऽभूद् यत्र गोतीर्थमेव तत् ।
पापतापहरं जातं पृथिव्या योगतः प्रियम् ॥४२॥
अथ पूर्वं समुद्रेऽभूद् विरावो नाम राक्षसः ।
मनुष्यादो हतस्तत्र सुदर्शनेन विष्णुना ॥४३॥
तदिदं पश्चिमे जातं विरावलयनं स्थलम् ।
विष्णुचक्रप्रपूतं च तीर्थं परमशोभनम् ॥४४॥
चक्रपाणिरहं पूज्यस्तत्र विरावलीनके ।
पूजको मे परंधाम यास्यत्येव न संशयः ॥४५॥
अथ द्वादशसूर्याश्च विष्णोर्दर्शनहेतवे ।
प्रभासं प्रथमं यान्ति ततोऽश्वपट्टसारसम् ॥४६॥
क्षेत्रं यान्ति दर्शनार्थं कृष्णनारायणस्य ते ।
विष्णुर्धाता भगः पूषा मैत्रेन्द्रौ वरुणोऽर्यमा ॥४७॥
विवस्ववानंशुमाँस्त्वष्टा पर्जन्यो द्वादशैव ते ।
स्वस्वमासान्तके काले स्नात्वा यान्ति प्रभासके ॥४८॥
विष्णुः संस्नाति वै चैत्रे वैशाखे त्वर्यमा तथा ।
विवस्वान् ज्येष्ठमासेऽथ चाषाढे त्वंशुमाँस्तथा ॥४९॥
पर्जन्यः श्रावणे मासि भाद्रे तु वरुणस्तथा ।
इन्द्रश्चाश्वयुजि मासि धाता संस्नाति कार्तिके ॥५०॥
मार्गशीर्षे तथा मित्रः पूषा पौषे प्रयाति च ।
माघे भगस्तथा त्वष्टा स्नाति तत्र च फाल्गुने ॥५१॥
एते वै नैजमासान्ते तप्त्वा स्नात्वा प्रयान्ति च ।
इत्यादित्यस्थलं तीर्थं प्रभासे वर्तते शुभम् ॥५२॥
अथाऽष्टवर्षको ब्रह्मा सोमनाथस्य तूत्सवे ।
आगतोऽभूत् प्रतिष्ठायां पूर्वस्यां तस्य चासनम् ॥५३॥
ब्रह्मतीर्थं तु तत्प्रोक्तं स्नानात्पापविनाशकम् ।
ब्रह्माणमष्टवर्षं च रथे संस्थाप्य शोभिते ॥५४॥
सावित्रीसहितं मासे कार्तिके पूर्णिमादिने ।
वाहयेत् कारयेद् यात्रां सोमनाथं प्रति ध्रुवम् ॥५५॥
पूजयेद् भक्तिभावेन षोडशाद्युपचारकैः ।
रथं तु कर्षयेत् तस्य चतुर्मुखस्य सर्वथा ॥५६॥
पुनः संस्थापयेत्तस्य मन्दिरे वाद्यनर्तनैः ।
राष्ट्रस्य श्रेयमन्विच्छन् रथयात्रां प्रकारयेत् ॥५७॥
अहं लक्ष्मि! कथयामि यत्र यत्र पितामहः ।
वर्तते भूतले सृष्टौ कल्पे कल्पान्तरेऽपि वा ॥५८॥
कालेनाऽस्तं स्थलं चापि स्मरणीयं सुखप्रदम् ।
पुष्करे स सुरश्रेष्ठो गयायां प्रपितामहः ॥५९॥
वेदगर्भः कान्यकुब्जे भृगुकच्छे चतुर्मुखः ।
सृष्टिकर्ता च कौबेर्यां नन्दिग्रामे बृहस्पतिः ॥६०॥
अष्टवर्षः प्रभासे च काश्यां सुरप्रियो हि सः ।
चतुर्वेदो द्वारिकायां वैदिशे भुवनाधिपः ॥६१॥
पौण्ड्रके पुण्डरीकाक्षः पीताक्षो हस्तिनापुरे ।
विजयाख्यो जयन्त्यां स जगन्नाथे जयन्तकः ॥६२॥
वाद्यदेशे पद्महस्तस्तमोलौ च तमोपहाः ।
अहिच्छत्रे जनानन्दः काञ्च्यां जनप्रियो ह्यजः ॥६३॥
कर्णाटके च वै ब्रह्मा ऋष्यशृंगे मुनीश्वरः ।
श्रीकण्ठे श्रीनिवासाख्यः कामरूपे शुभाकरः ॥६४॥
उड्डीसायां देवकतां स्रष्टा जालन्धरे तथा ।
मल्लिकायां च स विष्णुर्महेन्द्रादौ तु भार्गवः ॥६५॥
गोहस्ते स्थविरो ब्रह्मा उज्जयिन्यां पितामहः ।
कौशाम्ब्यां च महादेवः साकेतेऽर्कपितामहः ॥६६॥
चित्रकूटे विरञ्चिश्च वन्ध्ये वाराहविश्वसृट् ।
हरिद्वारे सुरेशश्च हिमाद्रौ हंसवाहनः ॥६७॥
हैहिकायां वेदहस्तोऽर्बुदाद्रौ पद्महस्तकः ।
वृन्दावने पद्मनेत्रो नैमिषे कुशहस्तकः ॥६८॥
गोपक्षेत्रे गोचरोऽयं सुचन्द्रो यमुनातटे ।
गंगातीरे पद्मभूश्च जनस्थाने जलोद्भवः ॥६९॥
दक्षिणे सेतुपालश्च उत्तरे हंसवाहनः ।
अर्बुदे वासकृद्ब्रह्मा उत्कले नारदाधिपः ॥७०॥
अश्वपट्टसरस्तीरे परमेष्ठी पितामहः ।
प्रयागे च यजुर्नाथः स्वयंभूः रैवताचले ॥७१॥
कच्छे नारायणमधुर्ब्रह्मवाहे असुप्रियः ।
अंकुलके ब्रह्मगर्भो विदर्भायां द्विजप्रियः ॥७२॥
नारायणर्षिर्गोमन्ते इन्द्रप्रस्थे दुरासदः ।
सुदर्शनश्च पम्पायां सुरूपे राष्ट्रवर्धनः ॥७३॥
विरजायां महारूपो देवाध्यक्षः समस्थले ।
कदम्बे केलनाध्यक्षः सुपीठे जलदेश्वरः ॥७४॥
कैलासे देवगंगाध्रः श्रीशैले च त्रिनेत्रधृक् ।
त्र्यम्बके त्रिपुरारिश्च नैमिषे चक्रधृक् तथा ॥७५॥
शृंगवेरधुरे शूरो नन्दिपुर्यां विरूपकः ।
गोतमेशः स्वच्छपादे मालवान् हास्तिने पुरे ॥७६॥
वाचिक्षेत्रे द्विजेशोऽयं स्वर्गे दिवेश्वरस्तथा ।
भूतिकायां पुरेशश्च चन्द्रायां हंसवाहनः ॥७७॥
चम्पायां गारुडो ब्रह्मा महायक्षो महोदये ।
सुयज्ञः पूजकारण्ये धर्मारण्ये वृषात्मकः ॥७८॥
पूर्वदेशे शुक्लवर्णो विभावर्यां सुपद्मजः ।
देवदारुवने केशी मातृभूमौ विनायकः ॥७९॥
अलकायां धनेशेशस्त्रिकुटे योगिराडजः ।
पाताले नागभूर्ब्रह्मा कोविदारे युगादिकृत् ॥८०॥
स्त्रीराज्ये सुरताध्यक्षः सः पौर्णाद्रौ प्रभोगधृक् ।
शाल्मलौ तक्षकेशश्च अम्बिष्ठायां सुदर्शकः ॥८१॥
नरवीथ्यां महावीरः कान्तारे दुर्गनाशकः ।
पद्मावत्यां पद्मग्रहो गगने मृगरूपधृक् ॥८२॥
समुद्रे मेघवाहश्च रणेषु क्षारभूः सदा ।
चक्रेषु मूलबीजश्च ललाटे च गुरुस्तथा ॥८३॥
सत्यलोके प्रपितादिर्दर्भस्तृणेषु वै तथा ।
यज्ञेषु मुख्यविप्रश्च वैराजे कमलोद्भवः ।
मेरो चाजस्वरूपश्च पितृलोके च पितृकः ॥८४॥
चमत्कारपुरे छिन्नशिराः कुरौ च वाजपः ।
भाग्यदेवेषु वेधाश्च विधाता सृष्टिकूटके ॥८५१॥
शास्त्रेषु वैधरूपश्चाष्टोत्तरशतरूपकः ।
ब्रह्म वै वर्तते सृष्टौ जनकः परमेश्वरः ॥८६॥
प्रभासे बालरूपं तं पूजयेत् परमेष्ठिनम् ।
अष्टोत्तरशतविश्वसृजां पूजाफलं भवेत् ॥८७॥
आग्नेयं तु यदा ऋक्षे कार्तिक्यां चेद् भवेत् क्वचित् ।
प्राजापत्यं भवेच्चेद्वा सा तिथिस्तत्र पुण्यदा ॥८८॥
विशाखासु यदा सूर्यः कृत्तिकासु च चन्द्रमाः ।
स योगः पद्मको नाम प्रभासे कार्य एव सः ॥८९॥
अथ लक्ष्मि! शृणु चान्यद् दक्षो धर्माय कन्यकाः ।
पुरा दश ददौ तासामेका विश्वा तु नामतः ॥९०॥
सा धर्मात्तु महाविश्वा चाष्टावजनयत् सुतान् ।
आयो भवश्च सामश्च धरश्चैव नलोऽनिलः ॥९१॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ वृषात्मजाः ।
तेषां मध्ये सप्तमश्च पुत्रेच्छया प्रभासकम् ॥९२॥
समाययौ प्रत्यूषः स तपे वर्षशतं परम् ।
सोमनाथः प्रसन्नः सन् सुतं तस्मै हि देवलम् ॥९३॥
ददौ प्रत्यूषकस्तत्र यल्लिंगं समपूजयत् ।
प्रत्यूषेश्वर इत्युक्तो महादेवः सुतप्रदः ॥९४॥
अथाऽनिलोऽपि तत्रैवाऽऽराधयामास शंकरम् ।
मनोजवेति विख्यातं तस्मै चापि सुतं ददौ ॥९५॥
अनिलेश्वर इत्येवं ख्यातिं जगाम शंकरः ।
प्रभासेन तथा लिंगं प्रभासेश्वरमाहितम् ॥९६॥
बृहस्पतेस्तु भगिनी भुवना तस्य कामिनी ।
विश्वकर्माऽभवत्तस्यां सुतः प्रभासतो बली ॥९७॥
प्रभासेश्वरसंज्ञः स महादेवोऽभवत् खलु ।
प्रभासेन स्थापितो वै फाल्गुने तामसे दले॥०१८॥
त्रयोदश्यां शिवरात्रौ तीर्थं तत्परमं ह्यभूत् ।
अथ तत्र महातीर्थं वामनस्वामिनामकम् ॥९९॥
बलिं बध्वा सर्वराज्यं याचित्वा बलिखातकै ।
यत्र पादं प्रथमं च न्यस्तं तत्तीर्थमुत्तमम् ॥१००॥
विष्णुतीर्थमितिख्यातं वर्तते सागरान्तिके ।
विष्णुना विहतो यत्र पुरा शंखासुरस्तटे ॥१०१॥
शंखतीर्थं हरेर्योगाद्वर्तते ध्वानकारकम् ।
वीरभद्रेश्वरं चापि तीर्थं तत्रास्ति शांकरम् ॥१०२॥
अथैकदा त्वनादिश्रीकृष्णनारायणः स्वयम् ।
बहुगोपीसमायुक्तोऽश्वपट्टसरसो ययौ ॥१०३॥
प्रभासं परमं क्षेत्रं रन्तुं रैवतके तदा ।
कृष्णनारायणेशं च गोपीश्वरं द्वितीयकम् ॥१०४॥
बाणं संस्थापितं तेन शुभ्रं तत्तीर्थमुत्तमम् ।
अथैकदा चन्द्रकला आययुः षोडशैव ताः ॥१५॥
कलेश्वरं परं तीर्थं चक्रुः स्नात्वा प्रभासके ।
लम्बिनी चन्द्रिका कान्ता कूटा शान्ता महोदया ॥१०६॥
भीषणी नन्दिनी चैव सुपर्णा विमलाऽक्षया ।
शुभदा शोभना पुण्या हंसा सीता कलाः क्रमात् ॥१०७॥
कलादित्यः स्थापितश्च सूर्योऽपि तीर्थमाचरत् ।
अथैकदा चतुष्षष्टियोगिन्यस्तत्र संययुः ॥१०८॥
रैवताचलपश्चिमयोगिन्यद्रित एव ताः ।
योगिनीश्वरमेवैताः स्थापयामासुरीश्वरम् ॥१०९॥
तासां नामानि वै लक्ष्मि! शृणु याः शंकरप्रियाः ।
आदौ मुख्या महालक्ष्मीर्नन्दा क्षेमकरी तथा ॥११०॥
शिवदूती महाभद्रा भ्रामरी चन्द्रमण्डला ।
रेवती हरसिद्धिश्च दुर्गा विषमलोचना ॥१११॥
सहजा कुलजा कुब्जा मायावी शांभवी क्रिया ।
आद्या सर्वगता शुद्धा भावमान्या मनोतिगा ॥११२॥
विद्याऽविद्या महामाया सुषुम्णा सर्वमंगला ।
ओकारात्मा महादेवी वेदार्थजननी शिवा ॥११३॥
पुराणाऽऽन्वीक्षिकी दीक्षा चामुण्डा शंकरप्रिया ।
ब्राह्मी शान्तिकरी गौरी ब्रह्मण्या ब्राह्मणप्रिया ॥११४॥
भद्रा भगवती कृष्णा ग्रहनक्षत्रमालिनी ।
त्रिपुरा त्वरिता नित्या सांख्या कुण्डलिनी ध्रुवा ॥११५॥
कल्याणी शोभना नित्या निष्कला परमा कला ।
योगिनी योगसद्भावा योगगम्या गुहाशया ॥११६॥
कात्यायनी उमा शर्वा अपर्णा ता हरस्त्रियः ।
युगान्तरे तथाऽन्याश्चोपासनाबलतः प्रिया ॥११७॥
योगिन्योऽपि प्रजायन्ते कोटिशः शंकरप्रियाः ।
एतासां सोमनाथस्य सन्निधौ तीर्थमुत्तमम् ॥११८॥
वर्तते पापनाशार्थं पावनं सुखदं सदा ।
एतासां पूजनं कार्यमष्टकासु सदा जनैः ॥११९॥
देवत्वं सात्त्विका यान्ति सात्त्विकीं भक्तिमास्थिताः ।
पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदं शुभम् ॥१२०॥
माहात्म्यं सोमतीर्थस्य प्रभासस्य च ते पुरः ।
कथितं यच्छंकरोक्तं पार्वत्यै तु प्रभासके ॥१२१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽनेकप्रसिद्धतीर्थानि, ब्रह्मा भिन्नस्थलेषु भिन्नो भिन्नो वर्णितः, वसवोऽष्टौ, सूर्या रुद्राः चतुःषष्टियोगिन्यश्च कथिता इति निरूपणनामाऽष्टात्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३८॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP