संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३७ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! तथाऽन्यानि तीर्थानि कथितानि च ।शंभुना हिमवत्पुत्र्यै तान्यपि कथयामि ते ॥१॥वाडवाग्निक्षेपतीर्थं समुद्रे वर्तते सदा ।तत्र स्नानं प्रकुर्वीत वह्निवत् पावनो भवेत् ॥२॥पद्मकं च ततो गच्छेद् वपनं तत्र कारयेत् ।हृदि स्मरन् सोमनाथं केशाँस्तत्र विनिःक्षिपेत् ॥३॥पापानि केशसंस्थानि विलीयन्ते तथाकृते ।सभर्तृकाऽङ्गुलमात्रं पृष्ठकेशान् हि छेदयेत् ॥४॥आचमनं ततः कृत्वा स्नायात् सामुद्रके जले ।'तेऽग्निर्योनिरिडा देहो रेतोधाऽमृतस्य नाभिः ॥५॥तस्मै ते रत्नगर्भाय नमोऽवग्रहे ते जले' ।इति स्नात्वा तिलमिश्रजलैः पितॄँश्च तर्पयेत् ॥६॥पुरा देवैर्दीर्घसत्रं प्रारब्धं च प्रभासके ।सर्वस्वं ब्राह्मणेन्द्राणां प्रभासवासिनां ददुः ॥७॥दानं देवास्तदा चायन् द्विजा दूरतरा अपि ।दक्षिणादानवाञ्च्छाश्च तावद् देवाः सवासवाः ॥८॥सर्वस्वदानतो रिक्ताः प्रार्थनाभंगभीतितः ।प्रणष्टा ब्राह्मणान् दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ॥९॥सुराः समुद्रमाविश्योदरे तत्र व्यवस्थिताः ।समुद्रो मूर्तिमान् भूत्वा सत्कारार्थं तटस्थितः ॥१०॥कृत्रिमं भोजनं रम्यं विप्रेभ्यो मत्स्यमिश्रितम् ।ददौ च ब्राह्मणाः सर्वे बुभुजुः स्वर्णभाजने ॥११॥न व्यजानन् गुप्तमांसं भक्षितं चेति वै ततः ।पूर्वमाकाशगन्तारो ह्यासँस्ते ब्राह्मणाः खलु ॥१२॥भोजनोत्तरमेवैते पतिताः सहसा भुवि ।सविस्मयाः समूचुस्ते किमत्र कारणं भवेत् ॥१३॥तत्रैको योगवृत्त्या च ज्ञातवान् वारिधेः क्रियाम् ।वञ्चिता इति वै ज्ञात्वा शेपुर्विप्रास्तु वारिधिम् ॥१४॥त्वयोपगुप्तमस्माकं मांसमन्नेन संयुतम् ।दत्तं वै भोजने तस्मादस्पृश्यो भव सर्वदा ॥१५॥ततो वर्षसहस्रं तु अस्पृश्योऽभूत्तु वारिधिः ।ततो दुःखेन चात्मानं शोषयामास वै जलम् ॥१६॥स्थलाकारोऽभवद् यावद् देवा ययुः पितामहम् ।सामुद्रजलयोगेन वृष्ट्या सस्यानि भूतले ॥१७॥जायन्ते च प्रजाः सर्वाः पुष्यन्ति तेन सर्वथा ।समुद्रस्य जलं रक्ष यथा शोषं न गच्छति ॥१८॥इति ते प्रार्थयांचक्रुर्ब्रह्मा श्रुत्वा तटं ययौ ।अस्पृश्यतावारणार्थं प्रार्थयामास भूसुरान् ॥१९॥ब्राह्मणाः प्रतिगृह्णन्तु रत्नानि वारिधेस्तथा ।वारिधिं शापमुक्तं च प्रकुर्वन्तु क्षमायुताः ॥२०॥ब्राह्मणाः प्रार्थयामासुर्ब्रह्माणं त्वं तथा कुरु ।ब्रह्मा प्राह तदाऽब्धिं च त्रिधा मेध्यो भविष्यसि ॥२१॥पर्वकालेषु च नदीसंगमेषु तथा सदा ।तटतीर्थेषु मेध्यस्त्वं स्पर्शस्नानप्रदो भव ॥२२॥पूज्यश्च सर्वदा तत्राऽन्यत्रापि देवपूजने ।अभिषेके तव वारि सदा मेध्यं भवेदिति ॥२३॥एवमस्पृश्यतानाशं चक्रिरे ब्राह्मणादयः ।रत्नानि जगृहुः सर्वे प्रययुर्निजकेतनम् ॥२४॥ततः स्नास्यति यः सम्यक् सागरे लवणाम्भसि ।अश्वमेधसहस्रस्य फलं प्राप्स्यति चात्र सः ॥२५॥श्रीसोमेशसमुद्रस्याऽऽन्तरे ये तु मृता जनाः ।पापिनोऽपि गमिष्यन्ति स्वर्गं निर्धूतकल्मषाः ॥२६॥एवं वै सजलस्त्वब्धिः पवित्रत्वं पुरा गतः ।सोमेशादाकृतस्मरं क्षेत्रं सागरसन्निधौ ॥२७॥कोटितीर्थमयं सर्वं स्वर्गमोक्षप्रदं परम् ।एवं स्नात्वा सोमनाथं गच्छेद् द्रष्टुं व्रती ततः ॥२८॥स्नापयित्वा विधानेन जपेत्तु शतरुद्रिकाम् ।स्नापयेत्पयसा दध्ना घृतेन मधुनाऽपि च ॥२९॥इक्षुरसेन च ततः कुंकुमेन विलेपयेत् ।कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ॥३०॥चन्दनेन सुगन्धेन धूपैर्दीपैस्तथाऽम्बरैः ।नैवेद्यैस्तर्पयित्वा तं नीराजयेन्नमेत्तथा ॥३१॥स्तुतिमष्टांगनत्यादि गीतं वाद्यं च नर्तनम् ।प्रदक्षिणं कथां कुर्याच्छृणुयात्पारमेश्वरीम् ॥३२॥विप्रतपस्विदीनान्धकृपणेभ्यो ददेत् धनम् ।भोजनं स्वम्बरं चापि दापयेत् भावयेत् व्रती ॥३३॥एवं सोमेश्वरतीर्थॆ यः करोति विधानतः ।धनाढ्यः सप्तजन्मानि ततः कैलासमाव्रजेत् ॥३४॥सान्ध्यमारार्त्रिकं कुर्यात्तस्य मोक्षो भवेद् ध्रुवम् ।अथ लक्ष्मि! पञ्चनद्यस्तीर्थं तत्र तु मोक्षदम् ॥३५॥हरिणी ब्रह्मिणी न्यंकुः कपिला च सरस्वती ।प्रभासे संवर्तते वै पञ्चस्रोता सरस्वती ॥३६॥शृणु लक्ष्मि! पुरा साऽत्र यथाऽऽगता सरस्वती ।पुरा चेन्द्रादयो जित्वा दैत्यान् पृथ्वीं समागताः ॥३७॥दधीचेराश्रमं दृष्ट्वा ददृशुर्दधीचिमृषिम् ।आयुधानि विमुच्याऽग्रे रक्षेमानीति वै ददुः ॥३८॥देयानि स्युः पुनस्तानि शत्रुभिर्यदि नो रणः ।मुक्त्वाऽस्त्राणि ययुः स्वर्गं शतवर्षोत्तरम् ऋषिः ॥३९॥जलेन च सहाऽस्त्राणि पीत्वा ययौ हिमालयम् ।पिप्पलद्रुममध्ये सः चचार परमं तपः ॥४०॥ततो देवैः समागत्याऽस्त्राण्यर्थितानि सर्वशः ।दधीचिः प्राह देहे मेऽस्थिरूपाणि वसन्ति वै ॥४१॥गोलोकाद् गाः समानीय कर्कशजिह्विकादिभिः ।नन्दां सुभद्रां सुरभिं सुशीलां सुमनां तथा ॥४२॥आज्ञापयन्तु मेऽस्थ्नां संप्राप्त्यर्थं लेहने तु ताः ।देवा एवंप्रकारेण प्रापुरस्थीनि वै ततः ॥४३॥देवस्पृष्टास्तु ता गावः शुद्धाः पूज्या यथास्थिताः ।मुखमेकं परं तासां न स्पृष्टं रक्तलेपितम् ॥४४॥अस्थ्नामस्त्राणि कृत्वैव देवा निर्ययुरम्बरम् ।दधीचेस्तु सुभद्रायां जातो बालः सुप्लक्षकः ॥४५॥उवाच मातरं क्वास्ति पिता मे जननि! ततः ।सा प्राह निधनं प्राप्तो देवानां कार्यसिद्धये ॥४६॥बालश्चचार च तपो हिमाचले ततः खलु ।तस्य ऊरोः समुत्पन्ना ऊरुर्या वडवाभिधा ॥४७॥सापि तेजोमयी जाता तेजोऽपि निःसृतं बहिः ।और्वोऽयं वाडवोऽग्निस्तद्वनं ददाह दारुणः ॥४८॥देवाः सरस्वतीं प्राहुर्देवि! ह्येनं प्रशामय ।सरस्वती तु तं नीत्वा बालरूपं प्रभासके ॥४९॥समागत्य प्रचिक्षेप समुद्रे वडवानलम् ।कुमारिकाकरबालो बुभुजे लवणोदकम् ॥५०॥पुपोष तत्र वै तिष्ठन्नाद्याप्यब्धिं प्रमुञ्चति ।यत्र तापोऽभवत्तस्याः क्षणं साऽदृश्यतां गता ॥५१॥पुनः शीता समागृह्य नयति समेति भूतले ।नैकस्थलेषु गुप्ता सा नैकस्थानेषु गोचरा ॥५२॥एवं कृत्वा ययौ चाब्धिं निक्षिप्योवास वै चिरम् ।प्राची सरस्वती सा तु प्रभासे वर्तते सदा ॥५३॥तत्र वै ऋषयश्चासँश्चत्वारो विष्णुसदृशाः ।हिरण्यश्चाथ वज्रश्च न्यंकुः कपिल इत्यपि ॥५४॥पृथक्पृथक्समाहूताः स्नानार्थं तैः सरस्वती ।सागरोऽपि तदा तस्याः सम्मुखः सहसा स्थितः ॥५५॥ऋषीणां सेवनार्थं सा पञ्चरूपा बभूव ह ।हरिणी वज्रिणी न्यंक्वी कापिली सागरी तथा ॥५६॥पञ्चापि पापहन्त्र्यस्ताः पावन्यः पापिनां सदा ।मांसमद्यस्तैन्यनारीभोगदोषादिनाशिनी ॥५७॥कृतस्मरो रोधकर्ता दग्धोऽद्रिस्तेन वह्निना ।श्वेतोपलास्तु ता जाता रासन्यः सौधकारिकाः ॥५८॥चाक्षुषस्याऽन्तरे वह्निर्दाधीचो वाडवानलः ।वैवस्वतान्तरे और्वो भार्गवो वडवानलः ॥५९॥शंकरस्य ललाटाग्निर्यः स एवाऽयमुच्यते ।तीर्थे चात्र सरस्वत्या गूहेश्वरं सुतीर्थकम् ॥६०॥आमर्दकीनदीयोगे संगमेश्वरतीर्थकम् ।गोवत्सकं तथा तीर्थं झिल्लीतीर्थं परं शुभम् ॥६१॥कूष्माण्डस्य मुनेः स्थानं कूष्माण्डेश्वरसंज्ञितम् ।कृष्णनारायणस्तत्र समागत्य सरस्वतीम् ॥६२॥स्वागतं कारयामास कूष्माण्डमुनिना तदा ।श्रमं च नाशयामास वाडवानलभारजम् ॥६३॥तापं च शमयामास स्वकरस्पर्शमात्रतः ।कुमारी साऽर्थयामासैकाकिन्या च मया प्रभो ॥६४॥कन्यया चात्र वै कथं वस्तव्यं रक्षकं विना ।पाता रक्षयिता नास्ति मम चात्र वने हरे! ॥६५॥तस्मात् पाता मम त्वत्र भव त्वं पुरुषोत्तम ।यद्वा कुंकुमवाप्यां वा चाश्वपट्टसरोवरे ॥६६॥तव गृहे समागत्य तत्र तिष्ठामि पादयोः ।इत्युक्त्वाऽश्राविलनेत्रा कृष्णनारायणं प्रति ॥६७॥दीनेव चाऽप्यनाथेव क्षणं जाता कुमारिका ।ततः श्रीमत्कृष्णनारायणस्तां गृह्य पाणिना ॥६८॥शोकं वै दूरयामास साऽपि कृष्णनरायणम् ।कण्ठलग्नाऽभवत् साध्वी वव्रे नारायणं पतिम् ॥६९॥सुमनोमालिकां कृष्णकण्ठे ददौ सरस्वती ।अनादिश्रीकृष्णनारायणो जग्राह भावतः ॥७०॥सनाथां तां तथा कृत्वोवाचाऽत्र त्वं स्थिरा भव ।नदीरूपेण देवेशि! लोकोद्धारस्य हेतवे ॥७१॥सरस्वती तदा प्राह नाथाऽहं स्वामिनं विना ।स्थातुं शक्या कथं तस्मात्त्वमत्र मोक्षदो वस ॥७२॥इत्युक्तः श्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।सरस्वतीपतिः साक्षात् पिप्पलस्य द्रुमोऽभवत् ॥७३॥अक्षयः पिप्पलवृक्षो वर्तते यत्र सा प्रिया ।मूले संगं समासाद्य नित्यं त्वास्ते सरस्वती ॥७४॥यत्राऽहं कृष्णरूपेण लक्ष्मि लयं गतः सदा ।वर्ताम्येव न जानन्ति जना मां नेत्रगोचरम् ॥७५॥पितॄणां सर्वदा मोक्षं तत्र करोमि पिण्डतः ।लक्ष्मीः सदा च मूले मे त्वास्तेऽपवादमन्तरा ॥७६॥अथ कालान्तरे चाह नैकसाहस्रयोषिताम् ।परिणीतानां च पतिर्लयं यास्यामि तत्स्थले ॥७७॥एवमुक्त्वा सतीं पत्नीं जलरूपां विधाय च ।द्वितीयं युवतीरूपं सह नीत्वा मम प्रियम् ॥७८॥नवोढासहितश्चाहं त्वश्वपट्टसरोवरम् ।ममाऽऽलयं ह्यगमं च वसामि तु तया सह ॥७९॥तत्र सरस्वती देवी सदाऽऽस्ते चरणे मम ।लोकानां वचने चापि जयदा हि विराजते ॥८०॥एवमेषा ब्रह्मणस्तु पुत्री सत्यनिवासिनी ।कुमारी हैमशैलस्था कुरुक्षेत्रे समागता ॥८१॥भद्रावर्ते पुष्करे च श्रीस्थले सिद्धभूतले ।पाञ्चालेऽश्वपट्टसरोवरे स्वर्णपुरे तथा ॥८२।रैवते च प्रभासे च तथा बहुस्थले पुनः ।कालभेदेन भक्तानामुपासनबलेन च ॥८३॥प्रयागादौ तथा तीर्थोत्तमादौ दैवकार्यतः ।प्रसंगेन गता सेयं प्रभासे च मम प्रिया ॥८४॥स्वर्गनिःश्रेणिसंभूता प्राची सरस्वती सती ।वर्तते जीवकल्याणकरी मम वचःस्थिता ॥८५॥देवास्ते न मनुष्यास्ते नदी तिस्रः पिबन्ति ये ।चन्द्रभागां च गंगां च तथा देवीं सरस्वतीम् ॥८६॥यमुनां च गण्डकीं च स्वर्णरेखां च वा नदीम् ।यथा कामदुघा गावः सर्वकालफलप्रदाः ॥८७॥चिन्तामणिसमास्तिस्रो नद्यस्ताः कामपूरिकाः ।अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥८८॥यत्र स्थितानि तीर्थे वै तस्मात् किमधिकं भवेत् ।नारायणेन सहितो नरो लोके युगान्तरे ॥८९॥कल्यवताररूपस्य तथा तत्सहयायिनाम् ।संहर्ता दोषनाशार्थं स्नास्यत्यत्र पुनः पुनः ॥९०॥प्राची सरस्वती दोषान् हत्याजान् क्षालयत्यपि ।त्रिरात्रोपोषणं कृत्वा स्नातव्यं दोषशान्तये ॥९१॥सरस्वत्युत्तरे तीरे तनुं त्यक्त्वा प्रयाति वै ।ब्रह्मलोकं शाश्वतं स ह्यपुनर्भवमारकम् ॥९२॥श्राद्धकर्तुश्चैकविंशतिकुलोद्धरणं भवेत् ।यं यं काममभिध्याय प्राणप्रयाणमाप्यते ॥९३॥स तद्भावसमायुक्तो याता भवति मानवः ।पुरा नाम्नाऽभवद् राजा बृहद्रथ इति श्रुतः ॥९४॥तस्य भार्याऽभवत्साध्वी नाम्ना त्विन्दुमती सती ।एकदा तद्गृहं प्राप्तः ऋषिः कण्व इति श्रुतः ॥९५॥राजा तत्स्वागतं चक्रे पप्रच्छ कुशलादिकम् ।ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ ॥९६॥इन्दुमती ऋषिं नत्वा पप्रच्छ प्राग्भवं स्वकम् ।राज्यं सौख्यं च सौभाग्यं देवोपमः पतिर्मम ॥९७॥सुखं मान्यं च सम्पत्तिः कस्य प्राप्तं फलं मया ।कण्वः प्राह शृणुः राज्ञि! मा रोषं कुरु मां प्रति ॥९८॥त्वमासीरन्यदेहे तु ह्याभीरी शीलवर्जिता ।सौराष्ट्रविषये याता स्नातुं प्रभासके तदा ॥९९॥त्वया हस्तात् कंकणं च हेम्नस्तत्रार्पितं शुभम् ।तीर्थे महात्म्यमाज्ञाय ब्राह्मणानां मुखात्ततः ॥१००॥तेन पुण्येन दाशार्णनृपतेः कन्यका भुवि ।बृहद्रथेन वोढाऽसि राज्ञी जाताऽसि चोत्तमा ॥१०१॥इति प्रभासमाहात्म्यं श्रुत्वा सा पुनरेव च ।तीर्थं कृत्वा समुद्रे च कंकणं प्राक्षिपत् पुनः ॥१०२॥ततो देवी स्वर्गवासा कल्पायुष्काऽभवच्छुभा ।इत्येवं लक्ष्मि! माहात्म्यं प्रभासाब्धिजलस्य वै ॥१०३॥भुक्तिमुक्तिप्रदं कृष्णनारायणेन योजितम् ।शंकरः पार्वती सर्वाः कथाः प्राह पुनः पुनः ॥१०४॥पार्वती कंकणं तत्र ददौ चाब्धौ तु कानकम् ।शंकरोऽभूत् प्रसन्नश्च देव्योऽपि तानि संददुः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वह्नितीर्थं समुद्रपावित्र्यं, दधीचप्लक्षकवडवानलसरस्वतीवृत्तान्तम्, पञ्चस्रोतोमयीसरस्वती, पिप्पलद्रुमकूष्माण्डतीर्थं, समुद्रे कंकणदानेनाऽऽभीर्या राज्ञीत्वं, दानमहिमा, चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३७॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP