संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५३४

कृतयुगसन्तानः - अध्यायः ५३४

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्म्येकदा शंभुरासीनोऽभूद् वरान्तिकम् ।
कैलासे ध्यानमग्नस्तु कृष्णनारायणं स्मरन् ॥१॥
कुंकुमवापिकाक्षेत्रं प्रभासं तीर्थमुत्तमम् ।
व्याघ्रारण्यं महारम्यं सिंहारण्यं च रैवतम् ॥२॥
अश्वपट्टसरस्तीर्थं भद्रां शत्रुंजितां नदीम् ।
लोमशं वैष्णवं भक्तं विष्णुं गोपालकृष्णकम् ॥३॥
देवीं च कम्भरालक्ष्मीं स्मरन् ध्याने ह्यभूत् स्थिरः ।
तस्योत्संगे समागत्य तप्तकांचनसप्रभा ॥४॥
श्रीदेवी पार्वती योगसिद्धिदा मोक्षदायिनी ।
निषसाद मुखं शंभोर्विलोक्य सस्मिताऽभवत् ॥५'॥
उवाच देवी मधुरं प्रेमपूरितलोचना ।
कं ध्यायसेऽहर्निशं त्वं नाऽतो विरमसे क्वचित् ॥६॥
एवमुक्त्वाऽतिभावेन संजाताऽस्राऽऽविलेक्षणा ।
शंभुर्ध्यान परित्यज्य प्राह भक्तां महेश्वरीम् ॥७॥
कथं ह्यस्राविलनेत्रा प्रेम्णा शुचाऽथवा प्रिये ।
वद सर्वमभीष्टं ते करवाणि सदा प्रिये ॥८॥
त्वं मे हृदयं देवेशि तथाऽहं हृदयं च ते ।
अहं तवास्मि सर्वस्वं त्वं च सर्वस्वमेव मे ॥९॥
श्रुत्वा वै पार्वती देवी बभूव स्वस्थमानसा ।
पुनः पप्रच्छ कान्तं तद्ध्यानमग्नस्य कारणम् ॥१०॥
किमिदं ध्यायसि नाथ वद मे शाश्वतं यदि ।
सनातनं स्वरूपं चेल्लोकमोक्षप्रदं तथा ॥११॥
शंभुः प्राह सति! नास्य ध्यानस्थस्य हरेर्मया ।
कृष्णनारायणस्यात्र पारं गन्तुं हि शक्यते ॥१२॥
स सदाऽऽलोक्यते ध्याने चिन्त्यते स रमेश्वरः ।
पूज्यते कमलाकान्तोऽर्च्यते श्रीमाणिकीपतिः ॥१३॥
सेव्यते स प्रभाकान्तो लक्ष्मीपतिर्नरायणः ।
पार्वतीश्वर एवाऽयं यो मया ध्यायते सति ॥१४॥
अहमस्मात्समुत्पन्नो नाऽत्म्यहं तु पृथक् ततः ।
तं ध्यायामि त्वनादिश्रीकृष्णनारायणं सति ॥१५॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि यत्र वै हरौ ।
सदा तिष्ठन्ति सर्वेशि तं स्मरामि श्रियः पतिम् ॥१६॥
त्वां स्मरामि हरेः पार्श्वस्थितां लक्ष्मीस्वरूपिणीम् ।
आत्मानं श्रीकृष्णनारायणात्मकं स्मराम्यहम् ॥१७॥
लोमशस्याश्रमो यत्र यद्भूमौ रैवताचलः ।
प्रभासं मम तीर्थं च यत्र देशे सुराष्ट्रके ॥१८॥
यत्र शत्रुंजिता, भद्रा, यत्र कुंकुमवापिका ।
अश्वपट्टसरो यत्र तत्र गोपालनन्दनम् ॥१९॥
अनादिश्रीकृष्णनारायणं स्थितं स्मराम्यहम् ।
असद्भावान्विताः क्षेत्रं नैव जानन्ति शाश्वतम् ॥२०॥
सद्भावभाविता देवि जानन्त्येतत् सनातनम् ।
कृष्णनारायणस्यैतत् प्राकट्यस्य स्थलं शुभम् ॥२१॥
क्षेत्रस्याऽस्याऽभिधानानि कल्पे कल्पे पृथक्पृथक् ।
जायन्ते युगभेदेन जना जानन्ति नैव तत् ॥२२॥
पूर्वं नाम्ना मणिक्षेत्रमभूत् सुराष्ट्रमण्डलम् ।
पाद्मक्षेत्रं ततश्चाऽभून्नाम्ना ख्यातं तदेव तु ॥२३॥
वैष्णवं क्षेत्रमेवैतन्नाम्ना जातं ततः परम् ।
ततो वै लोमशक्षेत्रं नाम्नाऽभूत् ख्यातमेव तत् ॥२४॥
ततः पत्नीव्रतक्षेत्रं नाम्ना जातं प्रसिद्धिमत् ।
तत इन्द्रद्युम्ननामक्षेत्रं तत्समजायत ॥२५॥
ततो वै नारसिंहाख्यं क्षेत्रं तत्समजायत ।
ततो व्याघ्रारण्यनामक्षेत्रं वै समजायत ॥२६॥
ततो रुक्मांगदक्षेत्रं नाम्ना ख्यातमजायत ।
कुंकुमवापिकाक्षेत्रं ततः ख्यातमजायत ॥२७॥
अश्वपट्टसरस्तीर्थं ततो नाम्ना ह्यजायत ।
ततः प्राभासिकं क्षेत्रं नाम्ना प्रोक्तं भविष्यति ॥२८॥
ततः सोमेश्वरं क्षेत्रं ततः कंकाभिधं पुनः ।
ततः सोमपदं क्षेत्रं नाम्ना ख्यातं भविष्यति ॥२९॥
ततः क्षेत्रं गिरिनारं कालान्तरे भविष्यति ।
कल्पे मध्ये सुराष्ट्रं च मम योगानुसारतः ॥३०॥
ऋषेर्योगात्तथा कृष्णनारायणस्य योगतः ।
तव योगात्तथा काले पृथङ्नामानि सर्वथा ॥३१॥
भविष्यन्ति सति तानि जानाम्यहं हि योगतः ।
तादृशं पुण्यकृत्क्षेत्रं मोक्षदं सर्वदेहिनाम् ॥३२॥
अनादिश्रीकृष्णनारायणवासात्मकं सदा ।
यत्र वै वामतो विष्णुर्यत्र कृष्णनरायणः ॥३३॥
तलस्वामी तथा यत्र गोपीनाथोऽपि यत्र च ।
यत्र सिद्धेश्वरश्चाहं यत्र भद्रेश्वरस्तथा ॥३४॥
सोमेश्वरस्तथा चास्मि यत्र त्वं भद्रिका सति ।
यत्र मध्यभुवि त्वस्ति लक्ष्मीनारायणः प्रभुः ॥३५॥
राजधान्यां यत्र साध्व्यो बह्व्यो वै कृष्णयोषितः ।
यत्राऽऽनर्तोद्भवं राज्यं यत्र गोपालकृष्णजः ॥३६॥
अनादिश्रीकृष्णनारायणः साक्षाद् वसत्यपि ।
तादृशं तद्विशालं च क्षेत्रं वै शतयोजनम् ॥३७॥
प्रायः समुद्रतो व्याप्तं त्रिपार्श्वे प्राग्भुवाऽन्वितम् ।
दर्शनादपि लोकानां पापतापनिवारकम् ॥३८॥
यत्र सतां च साध्वीनां योगिनीनां कुलानि च ।
महतां सात्त्वतानां च भुवां रक्षणकारिणाम् ॥३९॥
ज्ञानिनां च तपस्यायां रतानां ब्रह्मचारिणाम् ।
कुलानि लोककल्याणकारिणां प्रवसन्त्यपि ॥४०॥
नारीणां साधुभक्तानां साधुनाथार्थदेहिनाम् ।
सर्वस्वार्पणभक्तानां स्वामिनारायणसेविनाम् ॥४१॥
यत्र विष्णोः कलांशाश्च प्रजायन्ते विभूतयः ।
तत्क्षेत्रं चासनं देवि पुरातनं हि मेऽस्ति यत् ॥४२॥
तत् स्मरामि महत्क्षेत्रं शान्तिं यामि पुरातनीम् ।
त्वां स्मरामि यदा देवि बहिश्चायामि वै क्षणात् ॥४३॥
एवं मे वल्लभं क्षेत्रं कल्पान्ते कार्ष्णवाल्लभम् ।
नाम्ना ख्यातं पार्वतं च तव योगाद्भविष्यति ॥४४॥
तस्मिन् क्षेत्रे महादेवि ह्येकान्तेऽब्धितटे सदा ।
निवसामि मया गुप्तं कृतं स्थानं ममार्थवत् ॥४५॥
युगे युगे तु तीर्थानि जायन्ते च वियन्ति च ।
अशास्त्रवाचकानां तु क्षेत्रसंगोपनं वरम् ॥४६॥
पापा निन्दन्ति माहात्म्यमज्ञात्वा भूतले हरिम् ।
अनादिश्रीकृष्णनारायणं सुराष्ट्रजं प्रभुम् ॥४७॥
इदं तीर्थमिदं तीर्थं भ्रमन्ति ज्ञानहीनकाः ।
गृहतीर्थं न जानन्ति मीनशूलधनुर्ध्वजैः ॥४८॥
वज्रस्वस्तिकचक्रैश्च नारायणं हि गोचरम् ।
राधिकापार्वतीलक्ष्मीमाणिकीसुप्रभापतिम् ॥४९॥
सर्वेषां खलु तत्त्वानां स्वामिनं वल्लभं पतिम् ।
अहं देवि भजाम्येनं श्रीकृष्णं पुरुषोत्तमम् ॥५०॥
परे धाम्नि स्थितं चाश्वपट्टसरस्तटस्थितम् ।
लोमशस्याश्रमे कान्तं कोटिगोपीपतिं प्रभुम् ॥५१॥
यस्य वासः सदा तत्र कल्पे कल्पान्तरेऽपि च ।
ततोऽहं नित्यदा देवि तं स्मरामि पुरातनम् ॥५२॥
अन्येषु तीर्थवर्येषु मे मनो न स्थिरायते ।
कुंकुमवापिकातीर्थे सर्वात्मना स्थिरायते ॥५३॥
ततो नित्यं सहजेन स्मर्यते मनसा हि तत् ।
यावत्स्मरामि तत्क्षेत्रं तावत् कृष्णनारायणः ॥५४॥
प्रहसन् मां प्रति त्वेति यथा मित्रं पुरातनम् ।
अनेकैर्दिव्यभावैश्च लीलाभिः स मनोहरः ॥५५॥
कल्पान्तरानुरूपाभिः रमयत्येव मां प्रिये! ।
यथा मे मानसं तस्मिन् ग्रथितं न वियुज्यते ॥५६॥
तथाऽनादिकृष्णनारायणो मां स्वे प्रकर्षति ।
नैव मुञ्चति भियं मां निरोधयति मां निजे ॥५७॥
एतादृशं परं क्षेत्रं स्मर कान्ते महेश्वरि ।
अनादिश्रीकृष्णनारायणं स्मर मम प्रिये ॥५८॥
इत्युक्ता पार्वती देवी ब्रह्मानन्दपरिप्लुता ।
क्षेत्रस्य श्रवणादेव बभूव ब्रह्मतन्मयी ॥५९॥
तावत्तस्याः कृष्णनारायणः स्वहृदयेऽस्फुरत् ।
दिव्यरूपधरो बालः कोटिकन्दर्पसुन्दरः ॥६०॥
प्राह मातर्मम क्षेत्रं कथं नायासि वै क्वचित् ।
इत्युक्त्वा पार्वतीं नत्वा तेजोमण्डलमध्यगः ॥६१॥
कोटिकान्ताकान्तसेवितः साक्षाद् दर्शनं ददौ ।
युवाऽक्षराख्यलोकस्य मुक्तैर्जुष्टस्ततः परम् ॥६२॥
गोलोकस्थो द्विभुजश्च गोपीगोपगणार्चितः ।
वैकुण्ठस्थश्चतुर्बाहुः रमाश्रीकमलार्चितः ॥६३॥
कैलासस्थो नागसूत्रो हिमोज्ज्वलो दृढो युवा ।
जटाजूटशिराश्चोरौ सती यस्यास्ति सोऽभवत् ॥६४॥
एवं दत्वा दर्शनं स्वं पुनश्चान्तरधीयत ।
सती तु पार्वती देवी महदाश्चर्यमास्थिता ॥६५॥
जजागार समाधेः सा प्राह श्रीशंकरं पतिम् ।
दृष्टं क्षेत्रं मया कान्त दृष्टः कृष्णनरायणः ॥६६॥
इदानीं कृतकृत्याऽहं जाता दृष्ट्वाऽच्युतं पतिम् ।
यश्च संवर्तते धाम्नि परेऽक्षरात् पुमुत्तमः ॥६७॥
स एव श्रीकृष्णनारायणोऽश्वपट्टतीर्थके ।
गोलोके चापि वैकुण्ठे कैलासेऽपि स एव सः ॥६८॥
पतिर्मे वर्तसे चैवं मया हृदि विलोकितम् ।
वद क्षेत्रं विशालं मे श्रवानन्दः प्रजायते ॥६९॥
कुंकुमवापिकाक्षेत्रं सर्वतीर्थोत्तमोत्तमम् ।
अद्य ज्ञातं मया शंभो! माहात्म्यं कथयस्व मे ॥७०॥
जपं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
कुंकुमवापिकाक्षेत्रे क्व कस्मिंश्चाऽक्षयं भवेत् ॥७१॥
क्षेत्रस्य वर्तुलं सीम क्षेत्रसारं च मे वद ।
तव हस्ताऽऽमलकवद् दृश्यं भवति सर्वथा ॥७२॥
शंकरः प्राह देवेशि सौराष्ट्रं तु प्रियं मम ।
कुंकुमवापिकाक्षेत्रं कृष्णस्य मम च प्रियम् ॥७३॥
प्रभासाद् रैवताद्रेश्च शत्रुंजितानदीमतः ।
चमत्कारपुराच्चापि तत्क्षेत्रं सुप्रियं मम ॥७४॥
यत्र सन्निहितो नित्यमच्युतो भगवान् स्वयम् ।
यत्र वै लोमशो ब्रह्मा यत्राऽहं निवसामि च ॥७५॥
शतयोजनविस्तीर्णं क्षेत्रं सौराष्ट्रमण्डलम् ।
मणिजन्यं तु तद्दिव्यं मोक्षदं प्राणिनां सदा ॥७६॥
पश्चिमे रैवतं पीठं पूर्वे शनुंजिदाह्वयम् ।
उत्तरे च चमत्कारं दक्षिणे सोमनाथकम् ॥७७॥
अन्तःपीठं त्वश्वपट्टसरः कुंकुमवापिका ।
यत्र भद्रा हिरण्या च स्वर्णरेखा ह्युजस्वती ॥७८॥
हरिण्युन्मत्तगंगा च शत्रुंजिता सरस्वती ।
नागनदी गोमती च कृष्णा दिव्या हरेःप्रियाः ॥७९॥
आपगा भवतारिण्यः सौराष्ट्रे सन्ति सर्वदा ।
न्यंकुमती वज्रिणी च माहेश्वरी महासती ॥८०।
सिंहारण्यस्थितान्येव सन्ति तीर्थानि तान्यपि ।
सौराष्ट्रे यानि तीर्थानि कृष्णनारायणेच्छया ॥८१।८
वापी कूपतडागानि पल्लवानि ह्रदादयः ।
सरांसि चापगाश्चापि देवानामालयास्तथा ॥८२।
सतां निवासा ग्रामाश्च मेध्याः पापहरा हि ते ।
सौराष्ट्रे मध्यदेशे श्रीकृष्णनारायणो हरिः ॥८३।
उत्तरे श्रीवासुदेवो गोलोकाधिपतिः प्रभुः ।
पश्चिमे वामनो देवो दक्षिणे सोमनाथकः ॥८४।
पूर्वे श्रीगोपिकानाथो वर्तन्ते भवतारकाः ।
मध्यभागे वसेद् यस्तु यदि नैष्कृतिको नरः ॥८५॥
यदि पापो यदि शठो मुच्यते सर्वपातकात् ।
मध्यभागे सदा देवि! त्वया सह वसाम्यहम् ॥८६॥
तत्र ब्रह्मादयः सन्ति नारायणपुरोगमाः ।
योगिनः साधवस्तत्रोपासते लोमशं मुनिम् ॥८७॥
यत्किंचिदशुभं कर्म कृतं मानवबुद्धिना ।
तत्सर्वं विलयं यायात्कृष्णनारायणाश्रयात् ॥८८॥
गोपालेश्वरनामाऽहं मध्ये तिष्ठामि तत्र वै ।
असंख्यत्वात्तु कल्पानां जना जानन्ति नैव माम् ॥८९॥
स्नेहाच्च तव भक्त्या च मया तेऽत्र निवेदितम् ।
अहं वै वैष्णवो भूत्वा मध्ये वसामि सर्वदा ॥९०॥
यज्ञदानजपैर्होमैः स्वाध्यायैः पितृतर्पणैः ।
चान्द्रायणैश्चोपवासैस्तीर्थादिगमनैस्तथा ॥९१॥
यत्पदं लभ्यते देवि ततः श्रेष्ठं पदं हरेः ।
अक्षराख्यं महद्धाम प्राप्यते मध्यसंश्रयात् ॥९२॥
तिर्यग्योनिगता ये च पशुपक्षिमृगादयः ।
कृमिकीटपतंगाद्या जलस्थलनिवासिनः ॥९३॥
स्थावरा जंगमाश्चान्ये बाला वृद्धा नराः स्त्रियः ।
चाण्डालाः पुष्कसाश्चापि कुत्सिता विमतास्तथा ॥९४॥
वियोनिजा देहिनश्च मुच्यन्ते मध्यवासतः ।
लोमशो नारसिंहश्च सनकाद्याश्चिरायुषः ॥९५॥
मार्कण्डेयः पञ्चशिखो वोढुरासुरिरित्यपि ।
दत्तात्रेयो हनुमाँश्च गणेशो व्यास इत्यपि ॥९६॥
जाम्बवान् कपिलश्चान्ये यत्र क्षेत्रे वसन्ति च ।
तेषां प्रतापतो जीवा मुच्यन्ते मध्यवासतः ॥९७॥
दशार्बुदसहस्राणि कोटित्रितयमित्यपि ।
सौराष्ट्रे ऋषयो नित्यं तिष्ठन्त्यदृश्यरूपिणः ॥९८॥
मेरोः शक्या गुणा वक्तुं समुद्राणां च बिन्दवः ।
कृष्णनारायणस्यात्र दिव्यक्षेत्रस्य वै सति! ॥९९॥
शक्या नैव गुणा वक्तुं वर्षकोटिशतैरपि ।
इत्याह शंकरो देवीं ततश्च विरराम ह ॥१००॥
एवं लक्ष्मि! तव पत्युः कृष्णनारायणस्य मे ।
क्षेत्रं पुण्यं परं श्रुत्वा सस्मार पार्वती हरिम् ॥१०१॥
ध्याने स्थिता च सा नित्यं प्राप्तः स्मरति भावतः ।
अनादिश्रीकृष्णनारायणक्षेत्रं सुमुक्तिदम् ॥१०२॥
श्रवणात्पठनाच्चाऽस्य स्मरणाद्वन्दनादपि ।
भुक्तिमुक्तिप्रदं क्षेत्रं जीवानां सम्पदां प्रदम् ॥१०३॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रे कुंकुमवापीतीर्थक्षेत्रमहिम्नः पार्वतीं प्रति शंकरकृतं वर्णनमितिनिरूपणनामा चतुस्त्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३४॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP