संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५२८

कृतयुगसन्तानः - अध्यायः ५२८

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि ऋषिश्रेष्ठ आवट्यस्त्वेकदा गिरिम् ।
रैवतं कार्तिके मासि प्रदक्षिणं विधाय च ॥१॥
मासत्रयं समुवास लोमशस्याऽऽश्रमे तदा ।
अश्वपट्टसरस्तीरे कृष्णनारायणालये ॥२॥
शिवरात्रौ निशायां च पुपूज लोमशेश्वरम् ।
प्रातर्ब्राह्ममुहूर्तं च क्षणं निद्राऽभवद् यदा ॥३॥
स्वप्नं तत्र ददर्शाऽसावृषिरावट्यनामकः ।
दिव्ययानेन स ययौ सत्यलोकं ततः परम् ॥४॥
विष्णुलोकं महाविष्णोर्लोकं कैलासमाययौ ।
वैहायसेन यानेन वैकुॆठं स ययौ ततः ॥५॥
गोलोकं स ययौ पश्चाद् ययावक्षरधाम सः ।
ययौ च परमं धामाऽनन्तं परात्परात्परम् ॥६॥
सर्वश्रेष्ठं ब्रह्मलोकं गत्वा ददर्श पूरुषम् ।
दिव्यं श्रीमत्कृष्णनारायणं मुक्ताऽक्षरेश्वरम् ॥७॥
अनादिश्रीकृष्णनारायणं मुक्ताभिवन्दितम् ।
स्थितः स श्रीहरिस्तस्मायावट्याय जगाद ह ॥८॥
वद लोकेषु सर्वत्र किं त्वया चाऽवलोकितम् ।
आवट्यः प्राह भगवन् अत्र यद्वै विलोक्यते ॥९॥
तादृशं सुखसाम्राज्यं कुत्रापि नावलोकितम् ।
नाऽक्षरे न च गोलोके न वैकुण्ठेऽमृतेऽपि च ॥१०॥
न च सत्ये तथा भूमौ ते सुखांशो न विद्यते ।
विलक्षणं सुखं तेऽस्ति नित्यानन्दसुतृप्तिदम् ॥११॥
अक्षरे मुक्तबाहुल्यं गोलोके राधिकादयः ।
वैकुण्ठे श्रीरमाद्याश्च सत्ये देवादयः स्थिताः ॥१२॥
तदन्यत्र तु का वार्ता सर्वा वै भोगभूमयः ।
गोलोकं चापि वैकुण्ठं कैलासं चाक्षरं पदम् ॥१३॥
चत्वार्येतानि ते कृष्णनारायणस्य भूमिकाः ।
भक्तानां रमणार्थं च त्वया वै शाश्वतीकृताः ॥१४॥
ये तु भक्ता यथेच्छन्ति सेवार्थं ताँस्तथा तथा ।
तृप्तिं ददासि दास्यत्वे प्रेम्णा स्नेहेन कामतः ॥१५॥
आत्मानन्दस्तव मूर्तेः परधाम्नि विशिष्यते ।
सेवाऽऽनन्दोऽक्षरे धाम्नि तदन्येभ्यो विशिष्यते ॥१६॥
दास्यानन्दश्च गोलोके सख्यानन्दो विकुण्ठके ।
पूजाऽऽनन्दः सत्यलोके यथायोग्यं विशिष्यते ॥१७॥
अन्यत्र विषयानन्दः क्लेशमिश्रो विशिष्यते ।
मया दृष्टोऽत्र भगवन् स एवाऽक्षरधामनि ॥१८॥
मया चाऽऽलोकितः कृष्णनारायणोऽक्षराऽधिपः ।
गोलोके त्वं राधिकेशः कृष्णन्रायण ईक्षितः ॥१९॥
वैकुण्ठे त्वं लक्ष्मीशश्च दृष्टः कृष्णनरायणः ।
कैलासे त्वं लोकितश्च वैराग्यानन्दसंभृतः ॥२०॥
योगी ज्ञानी यतिश्चापि शिवापतिः स्वयं हरिः ।
सत्यलोके त्वमेवाऽसि सावित्रीश्वर एव ह ॥२१॥
सोऽयं सूर्ये मया दृष्टो हिरण्मयः पुमान् भवान् ।
पृथ्व्यां कुंकुमवाप्यां च गोपालकृष्णबालकः ॥२२॥
वर्तसे कम्भरालक्ष्मीपुत्रः कृष्णनरायणः ।
लोमशस्याश्रमे तत्र मन्दिरे वर्तसे प्रभो ॥२३॥
राधां क्वचित् क्वचिल्लक्ष्मीं क्वचिच्च पार्वतीं सतीम् ।
क्वचिच्च माणिकीं देवीं क्वचित् प्रभां रमां क्वचित् ॥२४॥
पद्मां जयां च ललितां हंसां च मञ्जुलां क्वचित् ।
पद्मावतीं सतीं वृन्दां तुलसीं च सरस्वतीम् ॥२५॥
शिवां पार्श्वे प्रपश्यामि मूलप्रकृतिकां क्वचित् ।
क्वचिन्मुक्तां देविकां च चम्पां हैमीं च शान्तिकाम् ॥२६॥
क्वचित्तु योगिनं साधुं विद्वांसं च सनातनम् ।
वीक्षे रूपाणि ते कृष्ण दृष्ट्वा पारं न याम्यहम् ॥२७॥
अद्य मे सफलं जन्म मोक्षपारं गतो यतः ।
अनेककल्पपुण्येन न ते दर्शनमाप्यते ॥२८॥
कृपयाऽद्य मया लब्धं दर्शनं ते श्रियः पते ।
इत्युच्यमाने निद्रा सा नष्टाऽऽवटयस्य तत्क्षणम् ॥२९॥
पुरतः श्रीकृष्णनारायणं ददर्श सस्मितम् ।
प्रणिपत्य ऋषिः प्राह स्वप्नं दृष्टं मया प्रभो ॥३०॥
वद मे तत्फलं त्वद्य किं मे स्याच्छाश्वतं फलम् ।
कृष्णनारायणः प्राह शृणु त्वावट्य तत्फलम् ॥३१॥
शीघ्रं ते भाविनी मुक्तिर्लोमशस्य तु सन्निधौ ।
अश्वपट्टसरसश्च क्षेत्रस्याऽस्य प्रभावतः ॥३२॥
शिवरात्रेर्व्रतपुण्यात्तथाऽत्रागमनान्मुने ।
गृहाण मन्त्रं ये त्वत्र सन्नद्धौ मोक्षणे भव ॥३३॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
गृहाण तुलसीमालां कण्ठे कण्ठीं गृहाण च ॥३४॥
वद् चान्यत्तु तेऽभीष्टं ददाम्यत्र न संशयः ।
आवट्यस्तु तदा प्राह मुक्तिं देहि परेऽक्षरात् ॥३५॥
सर्वलोकहितार्थं च स्वप्नज्ञानं वदात्र मे ।
तथास्त्विति हरिः प्राह कृष्णनारायणः प्रभुः ॥३६॥
प्राह ज्ञानं तदाऽऽवट्यां य स्वप्नानां शृणु प्रिये ।
सुस्वप्नदर्शनं पुण्यं यदि नीचं न वक्ति च ॥३७॥
काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रियम् ।
त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं सुपण्डितम् ॥३८॥
देवालये च देवं चाप्यश्वत्थतुलसीवटम् ।
उक्त्वा तद् द्विगुणं पुण्यमप्रकाश्यं चतुर्गुणम् ॥३९॥
सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् ।
अर्थं वित्तं च भार्यां च भूमिं पुत्रं लभेत सः ॥४०॥
मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् ।
स्वप्नस्तु प्रथमे यामे संवत्सरे फलप्रदः ॥४१॥
द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयके ।
चतुर्थेत्वर्धमासेन स्वप्नः स्वात्मफलप्रदः ॥४२॥
दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्शने ।
प्रातः स्वप्नस्तुफलदस्तत्क्षणं यदि बोधितः ॥४३॥
चिन्ताव्याधिसमायुक्तो नरः स्वप्नं तु पश्यति ।
तत्सर्वं निष्फलं दृष्टं दिवा स्वप्नं च निष्फलम् ॥४४॥
जडो मूत्रपुरीषेण पीडितश्च भयाकुलः ।
दिगम्बरो मुक्तकेशो न लभेत् स्वप्नजं फलम् ॥४५॥
स्वप्नोत्तरं पुनर्निद्रां प्रयातो न लभेत् फलम् ।
स्वप्नं रात्रौ यश्च वक्ति न तस्य जायते फलम् ॥४६॥
उक्त्वा काश्यपगोत्रं तु विपत्तिं लभते जनः ।
दुर्गते दुर्गतिं याति नीचे व्याधिं प्रयाति च ॥४७॥
रात्रौ भयं च लभते मूर्खे च कलहं लभेत् ।
कामिन्यां धनहानिः स्याद् रात्रौ चौरभयं भवेत् ॥४८॥
निद्रायां लभते शोकं पण्डिते वाञ्छितं फलम् ।
न प्रकाश्यश्च स स्वप्नो बुधेन काश्यपे क्वचित् ॥४९॥
गवां हयानां शैलानां प्रासादानां च हस्तिनाम् ।
द्रूणामारोहणं स्वप्ने धनदं परिकीर्तितम् ॥५०॥
भोजनं रोदनं वीणावादनं दृश्यते यदि ।
प्रतिगृह्णाति वा स्वप्ने सस्याढ्यां भूमिमालभेत् ॥५१॥
शस्त्रास्त्रेण यदि विद्धो व्रणेन क्रमिणा तथा ।
विष्ठया रुधिरेणापि स्वप्ने लिप्तो धनी भवेत्। ॥५२॥
स्वप्नेऽप्यगम्यागमनो भार्यालाभं करोति हि ।
मूत्रसिक्तः पिबेच्छुक्रं नरकं च विशत्यपि ॥५३॥
नगरं प्रविशेद् रक्तं समुद्रं वा सुधां पिबेत् ।
स चाप्नोति शुभां वार्तां विपुलं च धनं लभेत् ॥५४॥
गजं नृपं सुवर्णं च वृषभं धेनुमित्यपि ।
दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम् ॥५५॥
दृष्ट्वा कुटुम्बं लभते कीर्तिं च विपुलां श्रियम् ।
पूर्णकुंभं द्विजं वह्निं पुष्पताम्बूलमन्दिरम् ॥५६॥
शुक्लधान्यं नटं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् ।
गवां क्षीरं घृतं दृष्ट्वा चार्थं पुण्यधनं लभेत् ॥५७॥
पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु ।
मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भवेदिति ॥५८॥
पक्षिणां वा मनुष्याणां भुंक्ते मांसं नरो यदि ।
बह्वर्थं शुभवार्तां च लभते वाञ्छितं फलम् ॥५९॥
छत्रं खड्गं पादुकां च लब्ध्वा धान्यं च गच्छति ।
जले तरेत्तु यः स्वप्ने प्रधानो जायते ध्रुवम् ॥६०॥
फलितं भूरुहं दृष्ट्वा धनं प्राप्स्यति निश्चितम् ।
सर्पेण दष्टो मनुजो धनस्य लाभवान् भवेत् ॥६१॥
सूर्यं चन्द्रं च संवीक्ष्य स्वप्ने व्याधिर्विनश्यति ।
वडवां कुक्कुटीं क्रौंचीं दृष्ट्वा पत्नीं लभेज्जनः ॥६२॥
स्वप्ने यो निगडैर्बद्धः प्रतिष्ठां च सुतं लभेत् ।
पद्मपत्रे नदीतीरे भुंक्ते पद्मपुटे तथा ॥६३॥
दध्यन्नं पायसं स्वप्ने स स्याद् राजा न संशयः ।
जलौकसं वृश्चिकं च सर्पं स्वप्ने पप्रश्यति ॥६४॥
धनं पुत्रं च विजयं प्रतिष्ठां च प्रपद्यते ।
शृंगिभिर्दंष्ट्रिभिः कोलैर्वानरैः पीडितो यदि ॥६५॥
स्वप्ने शिरसि मुकुटं धारयेद् भूपतिर्भवेत् ।
धनं वा विपुलं यद्वा प्रधानं च पदं लभेत् ॥६६॥
मत्स्यं मांसं मौक्तिकं च शंखं चन्दनहीरकम् ।
स्फटिकं रजतं दृष्ट्वा विपुलं धनमाप्नुयात् ॥६७॥
सुतं च रुधिरं स्वर्णं भुक्त्वा विष्ठां धनं लभेत् ।
प्रतिमां शिवलिंगं च दृष्ट्वा धनं जयं लभेत् ॥६८॥
फलितं पुष्पितं बिल्वमाम्रं दृष्ट्वा धनं लभेत् ।
ज्वलद्वह्निं प्रसमीक्ष्य धनं बुद्धिं श्रियं लभेत् ॥६९॥
आमलकं च कमलं दृष्ट्वा च धनवान् भवेत् ।
देवताश्च द्विजा गावः पितरः साधवो गुरुः ॥७०॥
पत्नी पतिश्च नृपतिः सती कन्याः पतिव्रताः ।
यद् ददाति निजं स्वप्ने तद्वस्तु प्राप्स्यते ध्रुवम् ॥७१॥
शुक्लाम्बरधरा नार्यः शुक्लमाल्यानुलेपनाः ।
समाश्लिष्यन्ति यं स्वप्ने तस्य श्रीः सर्वतः सुखम् ॥७२॥
पीताम्बरधरां नारीं पीतमाल्यानुलेपनाम् ।
अवगूहति यः स्वप्ने कल्याणं तस्य जायते ॥७३॥
शुक्लं सर्वं प्रशस्तं भस्माऽस्थिकार्पासमन्तरा ।
कृष्णं दुष्टं हस्तिवाजिगोद्विजदेवमन्तरा ॥७४॥
दिव्या स्त्री सस्मिता विप्रा रत्नभूषणभूषिता ।
यस्य गृहं समायाति स प्रियं लभते ध्रुवम् ॥७५॥
स्वप्ने तु ब्राह्मणो देवो ब्राह्मणी देवकन्यका ।
ब्रह्मचारिणी सन्तुष्टा सस्मिता च पतिव्रता ॥७६॥
फलं ददाति यस्मै च तस्य पुत्रो भविष्यति ।
यं स्वप्ने ब्राह्मणाः सन्तः प्रकुर्वन्ति शुभाशिषम् ॥७७॥
यद्वदन्ति च तद्वस्तु तस्यैश्वर्यं च तद्भवेत् ।
परितुष्टो द्विजो यस्य गृहमायाति तस्य वै ॥७८॥
सम्पत्तिस्तस्य चायाति यशश्च विपुलं सुखम् ।
पदे पदे सुखं तस्य स मानं गौरवं लभेत् ॥७९॥
अकस्मादपि तु स्वप्ने लभते सुरभिं यदि ।
भूमिलाभो भवेत्तस्य पत्नी चापि पतिव्रता ॥८०॥
करेण कृत्वा हस्ती यं मस्तके स्थापयेद् यदि ।
राज्यलाभो भवेत्तस्याऽऽचार्यपदं गुरोः पदम् ॥८१॥
स्वप्ने विप्रः प्रतुष्टः सन् समाश्लिष्यति यं जनम् ।
तीर्थस्नायी श्रिया युक्तः सुसम्पन्नो भवेत्तु सः ॥८२॥
द्विजः स्वप्ने तु कुसुमं यस्मै ददाति संहसन् ।
जययुक्तो धनयुक्तो यशस्वी च सुखी भवेत् ॥८३॥
स्वप्ने विलोक्य तीर्थानि सौधरत्नगृहाणि च ।
तीर्थस्नायी धनवांश्च जययुक्तो भवेद्धि सः ॥८४॥
स्वप्ने यं पूर्णकलशं कश्चित् कस्मै ददाति चेत् ।
पुत्रलाभो ग्रहीतुः स्यात् सम्पदश्चाक्षयास्तथा ॥८५॥
हस्ते धृत्वा कुडवं चाढकं वा वारसुन्दरी ।
यस्य गृहं समायाति स लक्ष्मीं विपुलां लभेत् ॥८६॥
दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद् यदि ।
अर्थलाभो भवेत्तस्य दारिद्र्यं तु प्रयात्यपि ॥८७॥
यस्य गृहं समायाति ब्राह्मणो भार्यया सह ।
पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा ॥८८॥
साधुः साध्वी गुरुर्गुर्वी स्वप्ने यस्मै ददाति वै ।
धान्यं पुष्पांजलिं स्वर्णं तस्य श्रीः सर्वतोमुखी ॥८९॥
मुक्ताहारं पुष्पमाल्यं चन्दनं ब्राह्मणोऽर्पयते ।
यस्मै तस्य गृहे लक्ष्मीस्तथा श्रीः सर्वतोमुखी ॥९०॥
गोरोचनं पताकां च हरिद्रामिक्षुदण्डकम् ।
सिद्धान्नं च लभेत् स्वप्ने तस्य श्रीः सर्वतोमुखी ॥९१॥
ब्राह्मणो ब्राह्मणी वापि ददाति यस्य मस्तके ।
छत्रं पुष्पं शुक्लधान्यं स च राजा भवेद् ध्रुवम् ॥९२॥
स्वप्ने रथस्थितः शुक्लमाल्यलेपनशोभितः ।
भुंक्ते दधि दुग्धपाकं स वै राजा भवेदिति ॥९३॥
स्वप्ने विप्रोऽथवा विप्रा यस्मै सुधां घृतं दधि ।
ददाति स्वर्णपात्रादि सोऽपि राजा भवेद् ध्रुवम् ॥९४॥
कुमारो चाष्टवर्षीया रत्नभूषणभूषिता ।
यस्य तुष्टा भवेत् स्वप्ने स भवेत् कविपण्डितः ॥९५॥
ददाति चेत् पुस्तकं सा स स्याद्वै पण्डितेश्वरः ।
मातेव चेत्पाठयति स्यात्सार्वभौमपण्डितः ॥९६॥
पितेव पाठयेद् विप्रो यं सोऽपि स्याद् बृहस्पतिः ।
प्राप्नोति पुस्तकं स्वप्ने स ख्यातः पण्डितो भवेत् ॥९७॥
स्वप्ने विप्रो यं सुमन्त्रं ददाति प्रतिमां तथा ।
यस्मै स मन्त्रसिद्धिमान् गुणवान् धनवान् भवेत् ॥९८॥
विप्रो विप्राशिषं लब्ध्वा कविर्नृपो धनी भवेत् ।
विप्रस्तुष्टः सस्ययुक्तां सधान्यां पृथ्वीं जने ॥९९॥
स्वप्ने ददाति स वै स्यादवश्यं पृथिवीपतिः ।
स्वप्ने विप्रो रथे कृत्वा स्वर्गादिकं प्रदर्शयेत् ॥१००॥
यं स भवेतु दीर्घायुश्चिरंजीवी धनाधिपः ।
विप्राय विप्रः सन्तुष्टो यस्मै कन्यां ददाति च ॥१०१॥
स्वप्ने स तु भवेन्नित्यं धनाढ्य_ पृथिवीपतिः ।
स्वप्ने सरोवरं चाब्धिं नदीं नदं प्रवीक्ष्य च ॥१०२॥
श्वेतसर्पं श्वेतशैलं दृष्ट्वा श्रियमवाप्नुयात् ।
यं पश्यति मृतं स्वप्ने स भवेच्चिरजीवनः ॥१०३॥
अरोगी रोगिणं दुःखी सुखिनं वीक्ष्य स्यात्तथा ।
दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति ॥१०४॥
स्वप्ने दृष्ट्वा च जागर्ति स च राजा भवेद् ध्रुवम् ।
स्वप्ने तु कालिकां दृष्ट्वा लब्ध्वा स्फटिकमालिकाम् ॥१०५॥
इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद् ध्रुवाम् ।
स्वप्ने विप्रस्तु यं वक्ति मम दासो भवेति च ॥१०६॥
हरिदास्यं स भक्तिं च लब्ध्वा सुवैष्णवो भवेत् ।
स्वप्ने विप्रो हरिः शंभुर्ब्रह्माणी कमला शिवाः ॥१०७॥
शुक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती ।
गोपालिका सती साध्वी कन्यका च पतिव्रता ॥१०८॥
दृश्यते सुप्रसन्ना च तथाशीर्वाददायिनी ।
द्रष्टा भवेद् देवतुल्यो नृपो वाऽऽचार्यसत्तमः ॥१०९॥
इत्येवं कथितं तेऽत्राऽऽवट्य! सुस्वप्नजं फलम् ।
दृष्ट्वा नारायणं मां च स्वप्ने मोक्षमवाप्नुयात् ॥११०॥
आवट्यः प्राह भगवन्! दश कल्पा गता मम ।
लोमशस्य प्रतापेन तव योगकृतं फलम् ॥१११॥
समासाद्य प्रयाम्यद्य तव धाम सनातनम् ।
इत्युक्त्वा दिव्यदेहेन कृष्णनारायणाश्रयम् ॥११२॥
दिव्ययानं समारुह्य ययावक्षरधाम सः ।
श्रवणात्पठनाल्लक्ष्मि जीवन्मुक्तो भवेज्जनः ॥११३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आवट्याख्यऋषेः स्वप्नेऽनेकधामदर्शनोत्तरं श्रीकृष्णनारायणेन सुस्वप्नानां फलान्यभिहितानि श्रुत्वाऽऽवट्यो मुक्तिं जगामेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२८॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP