संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५२७

कृतयुगसन्तानः - अध्यायः ५२७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु रैभ्यस्य चरितं लक्ष्मि! देहप्रमोक्षदम् ।
रैभ्यः स्वयं जगामाथ गयां पुण्यां तपोधनः ॥१॥
तत्र पितॄन् परभक्त्या पिण्डदानेन तर्पयन् ।
तताप सुमहत् तीव्रं तपः परमदुश्चरम् ॥२॥
चरतस्तस्य तत्तीव्रं तपो रैभ्यस्य धीमतः ।
आजगाम महायोगी विमानस्थोऽतिदीप्तिमान् ॥३॥
त्रसरेणुसमे शुद्धे विमाने सूर्यसन्निभे ।
परमाणुप्रमाणेन पुरुषस्तत्र दीप्तिमान् ॥४॥
सोऽब्रवीद् रैभ्य! किं कार्यं तपश्चरसि सुव्रत! ।
एवमुक्त्वा दिवो भूमेरन्तराऽऽस च वै पुमान् ॥५॥
तावद् वै रोदसीव्याप्तं विमानं समजायत ।
यत्राऽनन्ताश्च ऋषयो दृष्टा ऐन्द्रेण धीमता ॥६॥
विष्णुलोकमभिव्याप्तं विमानं स ददर्श ह ।
ततः स विस्मयाऽऽविष्टो रैभ्यः प्रणयपूर्वकम् ॥७॥
पप्रच्छ तं महायोगिन्! को भवान् प्रब्रवीतु मे ।
पुरुषः पञ्चवर्षायुर्बालो रैभ्यमुवाच ह ॥८॥
अहं रुद्रादवरजो ब्रह्मणो मानसः सुतः ।
नाम्ना सनत्कुमारोऽस्मि जनलोके वसाम्यहम् ॥९॥
भवतः पितृतृप्त्यादिकर्मभिस्तृप्त एव ते ।
धन्यवादप्रदानार्थमागतोऽस्मि तवाऽन्तिकम् ॥१०॥
धन्योऽसि सर्वदा वत्स ब्रह्मणः कुलवर्धनः ।
वेदानाश्रित्य च पितॄन् प्रीणासि सर्वदाऽनघ ॥११॥
मन्त्रव्रतजप्यहोमैर्गयायां पिण्डदानकैः ।
पितॄणां तृप्तिदाः पुत्रास्तदन्ये सूतका यतः ॥१२॥
शृणु रैभ्य! विशालाख्यो नृपो बभूव वै पुरा ।
पुत्रार्थं च द्विजान् श्रेष्ठान् पप्रच्छ मतिमान् हि सः ॥१३॥
विप्राः प्राहुर्गयां गत्वा पितॄन् तर्पय भावतः ।
अन्नदानैर्जलैः पिण्डैर्गोदानैश्चान्यदानकैः ॥१४॥
ध्रुवं सुतस्ते भविता सुखदाता क्षितीश्वरः ।
विशालनगरेशः स विशालः प्रययौ ततः ॥१५॥
गयां मघासु पितॄणां कृतवान् पिण्डदानकम् ।
तावद् वियति पुरुषास्त्रयस्तत्र समागताः ॥१६॥
दृष्ट्वा सितं च रक्तं च कृष्णवर्णं तृतीयकम् ।
ननाम तान् समुवाच गृह्णन्त्विमान् सुपिण्डकान् ॥१७॥
उपेक्ष्यते भवद्भिः किं शंशन्तु मे कुतूहलम् ।
ततस्तेषु सितः प्राह पुत्र ते जनकोऽस्म्यहम् ॥१८॥
नाम्ना वृत्तेन च श्वेतः कर्मणाऽपि कुलेन च ।
अयं तु मे पिता रक्तो नृशंसकृच्च विप्रहा ॥१९॥
तस्य पिता कृष्णवर्णो नाम्ना वृत्त्या च कर्मभिः ।
कृष्णवर्णेन ऋषयो बहवस्तु पुरा हताः ॥२०॥
एतौ मृताववीच्याख्यं प्रपन्नौ नरकं चिरम् ।
अहं पुण्यैः समापन्नः शक्रासनं सुदुर्लभम् ॥२१॥
त्वया मन्त्रैर्गयायां संदत्ताः पिण्डा विधानतः ।
तेनैतौ नरकात् समाकृष्यानीतौ सुयोजितौ ॥२२॥
पितॄन् पितामहाँश्चैव तथैव प्रपितामहान् ।
प्रीणयामीति तत्तोयं त्वया दत्तं सुपुत्रक ॥२३॥
तेनाऽस्मद्युगपद्योगो जातोऽत्र तव सन्निधौ ।
गृह्णीमः पिण्डदानं च जलं तृप्ताः स्म सर्वथा ॥२४॥
तीर्थप्रभावाद् गच्छामि पितृलोकं न संशयः ।
अत्र पिण्डप्रदानेन ह्येतौ तव पितामहौ ॥२५॥
दुर्गतावपि संशुद्धौ पुण्यवन्तौ बभूवतुः ।
तीर्थप्रभाव एषोऽस्ति ब्रह्मघ्नस्याऽपि तत्सुतः ॥२६॥
पितुः पिण्डप्रदानेन कुर्यादुद्धरणं पुनः ।
एतस्मात् कारणाद् राजन् सितोऽहं जनकस्तव ॥२७॥
किञ्चिदधिकं ते वच्मि येन मोक्षो भवेद्धि नः ।
शृणु सांसारिकं ज्ञानं येन यास्यसि मोक्षणम् ॥२८॥
नित्यं च प्रातरुत्थाय रात्रिवस्त्रं विहाय च ।
अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गुरुं तथा ॥२९॥
विचिन्त्य मनसा प्रातःकृत्यं सर्वं समाचर ।
स्नाने शौचे क्रियायां च हरिं स्मर मुहुर्मुहुः ॥३०॥
धौतवस्त्रे निधायैव परमेशं प्रपूजय ।
शालग्रामे मणौ यन्त्रे प्रतिमायां जलेऽपि च ॥३१॥
संपूजय गवि विप्रे गुरुष्वेव विशेषतः ।
घटेऽष्टदलपद्मे च पात्रे चन्दनचर्चिते ॥३२॥
शालग्रामे च मनसि पूजय श्रीपतिं सति ।
देहि षोडशद्रव्याणि भजनं च मुहुः कुरु ॥३३॥
लक्ष्मीं सरस्वतीं दुर्गां राधां गंगां च तुलसीम् ।
नारायणं ह्यजं शंभुं कृष्णं विनायकं गुरुम् ॥३४॥
प्रपूजय सदा प्रीत्याऽतिथिं सूर्यं हुताशनम् ।
पितरौ ब्राह्मणं साधुं सूर्यं पूजय भावतः ॥३५॥
अदृश्याँस्ते कथयामि दर्शनीया न ते क्वचित् ।
विष्ठां न पश्येत् सत्प्राज्ञो व्याधिबीजस्वरूपिणीम् ॥३६॥
मूत्रं च व्याधिबीजं च तथा नरककारणम् ।
लिङ्गं योनिं पापदुःखव्याधिदारिद्र्यदायिनीम् ॥३७॥
नार्यंगं यद् विनाशस्य कारणं नावलोकयेत् ।
अतिभोगान् वर्जयेच्च रोगाणां कारणानि यत् ॥३८॥
अस्तकाले रविं चन्द्रं न पश्येद् व्याधिकारणम् ।
खण्डं समुदितं चन्द्रं न वीक्षेताऽऽधिकारणम् ॥३९॥
जलस्थं च रविं चन्द्रं दृष्ट्वा शोकं व्रजेन्नरः ।
एकस्य शयनस्थानं भोजनं च गतिं तथा ॥४०॥
न कुर्यात् पापिना सार्धं सर्वं नाशस्य कारणम् ।
आलापाद् गात्रसंस्पर्शाच्छयनाश्रयभोजनात् ॥४१॥
सञ्चरन्ति ध्रुवं व्यक्तौ पापान्यन्यकृतान्यपि ।
हिंस्रजन्तुसमीपं च न गच्छेद् दुःखकारणम् ॥४२॥
खलेन सार्धं मिलनं न कुर्याच्छोककारणम् ।
ब्राह्मणानां गवां चापि वैष्णवानां सतां तथा ॥४३॥
न कुर्याद्धिंसनं हानिं सर्वनाशस्य कारणम् ।
देवदेवलविप्राणां सतीनां च सतामपि ॥४४॥
वित्तं वस्तु धनं नैव हरेन्नाशस्य कारणम् ।
दक्षिणां तु द्रुतं दद्यादन्यथा नाशकारणी ॥४५॥
जीवानां हिंसनं कृत्वा वंशहानिर्भवेद्ध्रुवम् ।
देवं गुरुं न नमेद् यः पापभाङ् नरकं व्रजेत् ॥४६॥
या स्त्री मूढा दुराचारा स्वपतिं हरिरूपिणम् ।
न पश्येत्तर्जनं कृत्वा कुंभीपाके पतेत्तु सा ॥४७॥
वाक्तर्जनाद् भवेत् काको हिंसनात् सूकरो भवेत् ।
सर्पो भवति कोपेन दर्पेण गर्दभो भवेत् ॥४८॥
कुक्कुरी च कुवाक्येनाऽप्यन्धा च विषदर्शनात् ।
पतिव्रता तु वैकुण्ठे पत्या सह व्रजेद् ध्रुवम् ॥४९॥
शिवं दुर्गां गणपतिं सूर्यं विप्रं च वैष्णवम् ।
पितरं मातरं पुत्रं सतीं भार्यां गुरुं पतिम् ॥५०॥
अनाथां भगिनीं कन्यां विनिन्द्य नरकं व्रजेत् ।
शालग्रामजलं कृष्णप्रसादं ये तु भुंजते ॥५१॥
तीर्थं पुनन्ति ते सन्तः शतं पुंसां वसुन्धराम् ।
विष्णुप्रसादभोजी तु लभतेऽश्वक्रतोः फलम् ॥५२॥
प्रदीप्तं शिवलिंगं च शालग्रामं मणिं तथा ।
प्रतिमां यज्ञसूत्रं च सुवर्णं शंखमित्यपि ॥५३॥
हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम् ।
शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः ॥५४॥
दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः ।
भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः ॥५५॥
अन्धः पंगुर्वा खर्वश्च खञ्जश्चाप्यंगहीनकः ।
भवेत् क्रमेण पापात्मा ह्येतान् भूमौ त्यजेत्तु यः ॥५६॥
मृद्भस्मगोशकृत्पिण्डैस्तथा वै वालुकादिभिः ।
कृत्वा लिंगं सकृत्पूज्य वसेत् कल्पशतं दिवि ॥५७॥
येषां च दर्शने पुण्यं कथयामि निशामय ।
सुब्राह्मणानां तीर्थानां वैष्णवानां सतां तथा ॥५८॥
देवतानां तथा पित्रोः पत्युर्दर्शनमुत्तमम् ।
सूर्यस्य च सतीनां च यतीनां ब्रह्मचारिणाम् ॥५९॥
सन्यासिनां गवां वह्नेर्गुरोर्गजस्य वाजिनः ।
सिंहस्य कोकिलस्यापि खञ्जनस्य शुकस्य च ॥६०॥
हंसानां च मयूराणां चाषाणां शंखपक्षिणाम् ।
वत्सप्रयुक्तधेनूनामश्वत्थानां मणेस्तथा ॥६१॥
पतिपुत्रवतीनां च जनानां तीर्थयायिनाम् ।
प्रदीपानां सुवर्णस्य मुक्तानां - हीरकस्य च ॥६२॥
माणिक्यानां तुलस्याश्च श्वेतपुष्पस्य दर्शनम् ।
पापनाशकरं पुण्यं मंगलस्य प्रदं मतम् ॥६३॥
फलानि शुक्लधान्यानि घृतं दधि मधूनि च ।
पूर्णकुंभं च लाजाँश्च शर्करां दर्पणं जलम् ॥६४॥
मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं व्रजेज्जनः ।
गोरोचनं च कर्पूरं रजतं च सरोवरम् ॥६५॥
पुष्पोद्यानं पुष्पितां च शुक्ले चन्द्रमसं नवम् ।
पीयूषं चन्दनं देवोत्थानं देवालयं ध्वजम् ॥६६॥
कस्तूरीं कुंकुमं देवखातं वटं च दुन्दुभिम् ।
पताकां च देवघटं सुगन्धिपवनं तथा ॥६७॥
शंखं शुक्तिं प्रवालं च रजतं स्फटिकं कुशम् ।
ताम्रं गंगामृदं विष्णुं पुस्तकं रत्नमक्षतान् ॥६८॥
तपस्विनं च विद्वांसं समुद्रं कृष्णसारकम् ।
यज्ञं महोत्सवं दुग्धं गोमूत्रं गोमयं तथा ॥६९॥
गोधूलिं गोष्पदं गोष्ठं पक्वसस्यां च भूमिकाम् ।
रुचिरां पद्मिनीं श्यामां सुवेषां कन्यकां सतीम् ॥७०॥
करं गन्धं च सिद्धान्नं दृष्ट्वा पुण्यं लभेज्जयम् ।
दत्वा विष्णुपदे पिण्डान् विष्णुं यस्तु प्रपूजयेत् ॥७१॥
पितॄणां स्वात्मनश्चापि करोति जन्ममोक्षणम् ।
एतत्ते कथितं राजन् सानन्दं पुण्यवर्धकम् ॥७२॥
एवं पुण्यप्रभावेण सुशुद्धा जायते मतिः ।
पितॄणां च तथा भक्तिर्हृदि तस्य प्रवर्धते ॥७३॥
सितो विशालं सन्दिश्य प्राह कृष्णं सदा भज ।
देहि त्वेकादशीपुण्यं कार्तिकस्य व्रतानि च ॥७४॥
कृष्णनारायणपूजाफलं देहि विमुक्तये ।
अखण्डमात्रिकापुण्यं देहि चास्मद्विमुक्तये ॥७५॥
इत्युक्तः स विशालाख्यो नृपः पुण्यं तथा ददौ ।
करे जलं गृहीत्वैव मुमोच पृथिवीतले ॥७६॥
तावद्विष्णोः पार्षदाश्च विमानस्थाः समाययुः ।
मन्त्रम् ओं श्रीकृष्णनारायणाय स्वामिने नमः ॥७७॥
ददुः प्राहुर्विमानेऽत्र चत्वारोऽपि च वैष्णवाः ।
आरोहन्तु च वैकुण्ठं समायान्तु च पार्षदाः ॥७८॥
इत्युक्तास्ते ययुर्धाम पार्षदैः सह तत्क्षणम् ।
एतस्मात् कारणाद् रैभ्य! भवान् धन्यो मयोच्यते ॥७९॥
सकृत् गयाभिगमनं सकृत् पिण्डप्रदानकम् ।
दुर्लभं त्वं पुनर्नित्यमत्रैवाऽसि व्यवस्थितः ॥८०॥
किमनु प्रोच्यते रैभ्य तव पुण्यमिदं प्रभो ।
येन साक्षाद् गदापाणिर्दृष्टो नारायणः स्वयम् ॥८१॥
सनातनर्षिश्चोक्त्वैव तत्रैवान्तरधीयत ।
रैभ्यः स्तुतिं हरेश्चक्रे प्रेमगद्गदया गिरा ॥८२॥
सितं कृते त्रीतयुगेऽरुणं नीलं तु द्वापरे ।
कलौ युगेऽलिप्रतिमं कृष्णनारायणं श्रये ॥८३॥
अक्षरे परमे धाम्नि गोलोकेऽथ विकुण्ठके ।
योऽस्ति स श्रीकृष्णनारायणो मे हृदयेऽपि च ॥८४॥
तं त्वां लोमशवासस्थं सर्वगं परमेश्वरम् ।
नमामि चाश्रयाम्यद्य संसारतरणाय वै ॥८५॥
मत्स्यादीनि मखाद्याश्च सन्तस्ते चाऽङ्गवैभवाः ।
तथा मां कुरु चाद्यैव सिद्धमण्डलमण्डितः ॥८६॥
एवं स्तुतस्तदा विष्णुः प्रादुर्बभूव सुन्दरः ।
शंखचक्रगदापाणिर्गरुडस्थो वियद्गतः ॥८७॥
उवाच रैभ्य! तुष्टोऽस्मि समागच्छ मया सह ।
रैभ्यो गरुडमारुह्य यत्र ते सनकादयः ॥८८॥
तत्र गत्वा च तान्नत्वा वैकुण्ठं हरिणा सह ।
जगाम दिव्यदेहेन लक्ष्मि! त्वत्कान्तसन्निधौ ॥८९॥
एतद् रैभ्यस्य चरितं तथा विष्णोर्गदाभृतः ।
यः पठेच्छृणुयाच्चापि भुक्तिं मुक्तिं लभेत सः ॥९०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विशालराज्ञो हरिभजनान्मुक्तिः, रैभ्यस्यापि तत्त्वज्ञानेन भक्त्या च मुक्तिः, गयायां रैभ्यस्य सनत्कुमारदर्शनमुपदेशादि चेत्यादिनिरूपणनामा सप्तविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२७॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP