संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५२५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
एकदा चागमन्नाम्ना ख्यातस्त्वश्वशिरानृपः ।
लोमशस्याश्रमे क्षेत्रे चाश्वपट्टसरोवरे ॥१॥
कपिलस्तु महातेजा दर्शनार्थं समाययौ ।
अश्वशिराः कपिलं तमृषिं पप्रच्छ संशयम् ॥२॥
मोक्षः स्यात् कर्मणा किं वा ज्ञानेन निर्णयं वद ।
शृणु लक्ष्मि! कपिलर्षिर्यमाह निर्णयं शुभम् ॥३॥
प्रवदामि गृहस्थानां कर्मिणां हितकाम्यया ।
यत्किंचित् कर्म वै देही करोति साध्वसाधु वा ॥४॥
सर्वं नारायणे न्यस्य कुर्वन्नपि न लिप्यते ।
शृणु संयमनो विप्र आत्रेयवंशजोऽभवत् ॥५॥
तपस्यभिरतः प्रातः स्नातुं भागीरथीं नदीम् ।
धर्मारण्ये गतस्तत्र हरिणानां गणं स्थितम् ॥६॥
लुब्धो निष्ठुरको नाम व्याधो धनुःसमन्वितः ।
जिघांसुराययौ तीरे सज्यं कृत्वा ससायकम् ॥७॥
धनुर्दृष्ट्वा तु विप्रः स व्याधं तं मृगयारतम् ।
वारयामास मा भद्र! जीवघातमिमं कुरु ॥८॥
श्रुत्वा प्रहस्य व्याधस्तं प्रोवाच मुनिसत्तमम् ।
नाऽहं हिंसामि वै जीवान् नाऽहं करोमि सर्वथा ॥९॥
परमात्मा त्वयं भूतैः क्रीडति स्वीयमायया ।
माया तस्य जनिः पुष्टिर्निधनं चेति वै क्रमात् ॥१०॥
भवन्त्येव हि जीवानां तत्र नैमित्तिका वयम् ।
अहंभावः सदा ब्रह्मन्न विधेयो मुमुक्षुभिः ॥११॥
प्राणयात्रामात्ररतं करोति चेन्न लिप्यते ।
अहंकारस्तत्र यस्य स साधुत्वं न गच्छति ॥१२॥
अहंकारं परित्यज्य गृह्णाम्येकं मृगं द्विज ।
इत्याकर्ण्य स विप्रेन्द्रो निषिषेध च लुब्धकम् ॥१३॥
हिंसनं सर्वथा पापं मा कुर्वेवं कदाचन ।
सन्ति फलानि मूलानि पत्राणि च जलानि च ॥१४॥
सस्यानि शाकपत्राणि निर्वाहं तैः समाचर ।
अहिंसने सुयात्रा चेन्निर्वहेत् हिंसि मा वृथा ॥१५॥
अहंकारो न कर्तव्य इति ते वाचि वर्तते ।
नात्मनि किन्तु वै स्वार्थे भवान् मृगादनो यतः ॥१६॥
उपदेशं प्रकुर्वन्ति सर्वेऽभिमानवर्जने ।
न त्यजन्ति चाभिमानं वाङ्मनसोः पृथक्-पृथक् ॥१७॥
वदन्ति चान्यत् प्रकुर्वन्ति चान्यत्
प्रमूष्य चान्यान् विहरन्ति चान्यत् ।
स्वार्थप्रवीणाश्च निजार्थमाप्य
दूरी भवन्त्येव परान् विनाश्य ॥१८॥
व्याधः प्राह ऋषे नाहं कपटी स्वार्थसाधकः ।
परीक्षां मे कुरु त्वत्र प्रत्यक्षं ते भवेन्ननु ॥१९॥
कुरु लोष्ठमयं जालं तस्याऽधो वह्निमावह ।
अतीव तत्र शुष्को ज्वालयतां काष्ठसञ्चयः ॥२०॥
तथाकृते तु विप्रेण प्रध्मातश्चानलो ह्यति ।
गवाक्षैर्निर्गता ज्वालाः सहस्राणि च जालके ॥२१॥
लोहजालं तदा रक्तं यदा वह्निरिवाऽऽबभौ ।
तदा व्याधो योगसिद्धिं समालम्ब्य निजां तनुम् ॥२२॥
वह्निरूपां तु कृतवान् सूर्यवद्दाहसंचयाम् ।
वह्निर्यस्य पुरस्तत्र निस्तेजस्को बभूव ह ॥२३॥
निषसाद समुत्थाय जाले तत्र स लुब्धकः ।
वह्निर्वै वह्निना नैव दह्यते च यथा तथा ॥२४॥
लुब्धको नैव दग्धो हि काष्ठजन्येन वह्निना ।
संयमनो ब्राह्मणश्च तथाऽन्ये विस्मयं गताः ॥२५॥
प्राहुः कस्त्वं वद चास्मान् सः प्राहाऽहं हुताशनः ।
स्वयं चास्मि न मे हिंसा पच्यन्ते मयि देहिनः ॥२६॥
अहं बुद्धिं विहायैव करोमि स्वस्वभाववत् ।
अहंकारो मम नष्टस्तपसा ज्ञानयोजिना ॥२७॥
अहंकारे विनष्टे च कर्मभिर्नहि लिप्यते ।
अहंकारो मूलमस्ति स्तम्बो ममत्वमुच्यते ॥२८॥
शाखा रागस्तथा द्वेषो ग्रघ्रो लोभश्च मोहनम् ।
पत्राणि तत्र कर्माणि रसश्चास्वादनं सदा ॥२९॥
पुष्पं प्रवर्तनाख्यं च फलं मिष्टं सुखं तथा ।
अमिष्टं तु भवेद् दुःखं भुञ्जते देहिनः सदा ॥३०॥
वह्नेर्मूले क्षिप वारि ज्वाला निर्यान्ति यत्स्थलात् ।
इत्युक्तो ब्राह्मणस्तत्र तोयपूर्णं घटं द्रुतम् ॥३१॥
चिक्षेप सहसा वह्निः प्रशशाम यदा तले ।
ज्वालाः सर्वा विनष्टाश्च मूलनाशात् समन्ततः ॥३२॥
लुब्धकस्त्वाह तं विप्रं प्रत्यक्षं वै निदर्शनम् ।
मूलनाशे समस्तस्य वृक्षस्य नाशनं भवेत् ॥३३॥
अभिमानं प्रमूलं चेन्नष्टं कर्मकृतां यदि ।
पापेनापि च पुण्येन लिप्यते न कदाचन ॥३४॥
एतस्मिन् ज्वलितो वह्निर्बहुशाखश्च सत्तम ।
मूलनाशेऽभवन्नष्टस्तथाऽहं कर्मवान् सदा ॥३५॥
आत्मा देहं समाश्रित्य पिण्डधर्मं समाश्रितः ।
क्षुधया तृषया व्याप्तः खादन् पिबन् प्रवृत्तिमान् ॥३६॥
कुर्वन् सर्वं वर्जयित्वाऽभिमानं लेपकारणम् ।
अन्तरात्मनि संयुक्तः कुर्वाणो नाऽवसीदति ॥३७॥
अथाऽऽह लुब्धको विप्रं स्पृश लोष्ठं द्विजोत्तम ।
लोष्ठं चोष्णं दाहकारि ज्ञातं त्यक्तं द्विजेन तु ॥३८॥
ततः पस्पर्श स व्याधस्तस्य दाहो न चाऽभवत् ।
लुब्धकस्तं तदा प्राह संस्काराश्चाभिमानजाः ॥३९॥
यथा लोष्ठे वह्निजन्याः संस्कारा दाहका इव ।
यावद्भवन्ति पुरुषास्तावद् दह्यन्ति सर्वथा ॥४०॥
तथाऽभिमानसंस्कारा यावद्भवन्ति देहिषु ।
तावत् पुण्येन पापेन लिप्यन्ते नात्र संशयः ॥४१॥
अभिमानं च संस्कारास्त्याज्यास्तपस्यया तथा ।
कृष्णनारायणभक्त्या योगेन ध्यानवृत्तिभिः ॥४२॥
सर्वसमर्पणभक्त्या लिप्यते नहि कर्मभिः ।
एवमुक्ते तु वै विप्रे व्याधस्योपरि चाम्बरात् ॥४३॥
पपात पुष्पवृष्टिश्च विप्रस्योपरि वै मनाक् ।
ततो व्याधो हरिणं तं जघानैकं तदापि च ॥४४॥
विप्रः प्राह मृगात्मा च कुत्र याति प्रदर्शय ।
व्याधः संकल्पयामास विमानं स्वर्गलोकजम् ॥४५॥
तावद् दिव्यविमानानि कामगानि महान्ति च ।
बहुरत्नानि मुख्यानि ददर्श ब्राह्मणोत्तमः ॥४६॥
तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् ।
ददर्श ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ॥४७॥
अद्वैतभावनासिद्धं योगाद्बहुशरीरकम् ।
मृगं दिव्यस्वरूपं च देवात्मकं विलोक्य च ॥४८॥
दृष्ट्वा विप्रो मुदा युक्तः संयमनो बभूव ह ।
अन्ये चाप्यभवँस्तत्र देहाऽहंकारवर्जिताः ॥४९॥
एवं ज्ञातं भवेत् कर्म कुर्वतोऽपि स्वजातिकम् ।
निर्बन्धं तत् पापपुण्यविलेपेन विवर्जितम् ॥५०॥
तादृशं नैव चात्मानं करोति बन्धनं क्वचित् ।
यथा नारायणो देवो निर्लेपो वस्तुमात्रकम् ॥५१॥
कुर्वन् गृह्णन् कारयँश्च ग्राहयन् लेपवर्जितः ।
प्रत्युत स्वपदं प्राप्तं निर्गुणं प्रकरोति तत् ॥५२॥
तथाऽऽत्मा मायया हीनो न करोति न लिप्यते ।
प्राप्तं भुक्तं जडं वस्तु करोति दिव्यमेव तत् ॥५३॥
निर्लिप्तं बन्धनहीनं मुक्तिस्थं तत् करोति वै ।
ज्ञात्वा संयमनो विप्रः प्रययौ निजमाश्रमम् ॥५४॥
कपिलश्चाऽश्वशिरसं नृपं प्राह तथा पुनः ।
तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् ॥५५॥
आत्मन्येव स्वदेहे तु पश्य त्वाराधयन्प्रभुम् ।
निर्लिप्तो भविता शीघ्रं यथा व्याधोऽभवत्पुरा ॥५६॥
कपिलस्य वचः श्रुत्वा स राजाऽश्वशिराः शुभः ।
मेने च कर्मिणां मुक्तिं कृष्णार्पितेन कर्मणा ॥५७॥
अथ तत्राऽगमत् तावज्जैगीषव्यो महामुनिः ।
पञ्चाशत्कल्पकायुश्च लोमशस्याऽऽश्रमे शुभे ॥५८॥
ऋषयस्ते तदा चक्रुः स्वागतं च परस्परम् ।
चक्रुः स्वर्गादिलोकानां संभाषां क्षेमकारिणीम् ॥५९॥
अश्वशिरा प्रणम्यैव कपिलं संस्थितेषु च ।
सर्वेषु ऋषिषु मध्ये संपप्रच्छ प्रणम्य तम् ॥६०॥
कथमाराधये देवं हरिं नारायणं परम् ।
कपिलः प्राह वै राजन् नारायणा ह्यनन्तकाः ॥६१॥
भवन्ति श्रीकृष्णनारायणोपासनयाऽत्र वै ।
क एषः प्रोच्यते राजंस्त्वया नारायणो गुरुः ॥६२॥
आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षगतौ नृप ।
अश्वशिरास्तदाकर्ण्य समुवाच द्विजौ च तौ ॥६३॥
जैगीषव्यः कपिलश्च श्रुतौ मया पुरा शुभौ ।
भवन्तौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्बिषौ ॥६४॥
कथं नारायणावावामिति मे वदथो वचः ।
शंखचक्रगदापद्मधनुःस्वस्तिककेतुभिः ॥६५॥
युक्तः पीताम्बरो लक्ष्मीपतिर्गरुडवाहनः ।
नारायणः परब्रह्म कस्तस्य सदृशो भुवि ॥६६॥
इतिराज्ञो वचः श्रुत्वा तौ विप्रौ सिद्धयोगिनौ ।
जहसतुः पश्य नारायणं चेति जजल्पतुः ॥६७॥
एवमुक्त्वा स कपिलः स्वयं विष्णुर्बभूव ह ।
जैगीषव्यश्च गरुडस्तत्क्षणं समजायत ॥६८॥
राजा त्वाश्चर्यमापन्नो दृष्ट्वा सगरुडं हरिम् ।
नत्वाऽऽह शाम्यतां विप्रौ नेमं पृच्छामि न्रायणम् ॥६९॥
किन्तु ब्रह्मा यतो जातो नाभिपंकजमध्यगः ।
तमेनं ब्रह्मपितरं न्रायणं संवदाम्यहम् ॥७०॥
श्रुत्वा च कपिलस्तत्र पद्मनाभो बभूव ह ।
जैगीषव्योऽभवद् ब्रह्मा नाभिपद्मोपरि स्थितः ॥७१॥
ब्रह्मणस्तु ललाटाद्वै रुद्रोऽभूद् रक्तनेत्रकः ।
राजा तवा विचार्यैव पुनः प्राह च तौ द्विजौ ॥७२॥
नेक्ष्यो भवति सर्वात्मा सर्वव्यापी नरायणः ।
भवद्भ्यां दर्शिता माया योगिभ्यां योगसिद्धिजा ॥७३॥
नारायणस्तु भगवान् नेक्ष्यः सर्वात्मकः प्रभुः ।
ततस्तत्र कपिलेन जैगीषव्येन वै तदा ॥७४॥
सर्वात्मकानि रूपाणि दर्शितानि निजात्मनोः ।
मत्कुणा मशका यूका भ्रमरा भोगिनः खगाः ॥७५॥
अश्वा गावो द्विपाः सिंहा व्याघ्रा गोमायवो मृगाः ।
अन्येऽपि पशवः कीटा ग्राम्या आरण्यकास्तथा ॥७६॥
पशवो मानवा वृक्षा वल्लिकाद्याश्च सर्वशः ।
तद्दृष्ट्वा भूतसंघातं स राजा विस्मयं गतः ॥७७॥
विवेद जैगीषव्यस्य माहात्म्यं कपिलस्य च ।
पप्रच्छ तावृषी भक्त्या किमिदं द्विजसत्तमौ ॥७८॥
तौ द्विजाबूचतुर्भूप त्वया पृष्ठं च किं स्मर ।
कथमाराधये देवं हरिं नारायणं परम् ॥७९॥
आराधनाय प्रत्यक्षो हरिर्वै ते प्रदर्शितः ।
कपिलोऽहं च प्रत्यक्षो भवाम्यत्र नरायणः ॥८०॥
भज मां यदि ते श्रद्धा प्रत्यक्षं प्राप्तमेव ह ।
सर्वज्ञस्य गुणाः सर्वे मयि सन्ति तदंशतः ॥८१॥
तस्माल्लब्धा मया सर्वे भक्त्या तव प्रदर्शितः ।
स तु नारायणो देवः सर्वज्ञः कामरूपवान् ॥८२॥
पद्मनाभादपि दूरं महाविष्णोः परेऽस्ति च ।
गोलोकाच्चापि वैकुण्ठात्परे चाक्षरधामनि ॥८३॥
अनादिश्रीकृष्णनारायणो मुक्तेषु राजते ।
सौम्यः क्वापि स्वेच्छयाऽत्र प्राप्यते मानवैः किल ॥८४॥
लोमशोऽयं प्राप्तवाँस्तं कृष्णनरायणं परम् ।
अत्राऽश्वपट्टसरसः क्षेत्रे श्रीकृष्णवल्लभम् ॥८५॥
सर्वेषामवताराणामवतारिणमच्युतम् ।
आवां तस्य दर्शनार्थमागतौ स्वः शुभाश्रमे ॥८६॥
स वै सर्वशरीरस्थः परमात्मा जगत्पतिः ।
स्वदेहे वर्तते चापि दृश्यते निजभक्तितः ॥८७॥
अतोऽर्थं दर्शितं रूपं श्रीकृष्णन्नारायणस्य च ।
आवयोस्तव राजेन्द्र प्रतीतिः स्याद्यथा तव ॥८८॥
एवं सर्वगतो देवस्तव देहेऽपि वर्तते ।
सर्वप्रजासु भृत्येषु मन्त्रिष्वपि स्थितः स हि ॥८९॥
पशवः कीटसंघाद्याः सर्वे विष्णुमया नृप ।
भावनां तु दृढां कुर्याद् यद्वै सर्वमयो हरिः ॥९०॥
नान्यत् तत्सदृशं भूतं सर्वभूतेष्ववस्थितः ।
तमान्तरस्थं वै देवमितिभावेन सेवताम् ॥९१॥
एष ते दर्शितश्चाराधनामार्गोऽतिमोक्षदः ।
परिपूर्णेन भावेनाऽर्चय कृष्णनरायणम् ॥९२॥
पूजोपहारैर्धूपाद्यैर्नैवेद्यारार्त्रिकादिभिः ।
ध्यानेन दासभक्त्या च सुप्राप्यः स परेश्वरः ॥९३॥
योऽसौ नारायणो देवः परमात्मा सनातनः ।
तत्तद्रूपेण बहुधा वर्तते कार्यकृत् प्रभुः ॥९४॥
मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्की तथाऽपरे ॥९५॥
इत्येताः कथितास्तस्य मूर्तयः कपिलादयः ।
साधवश्चापि सिद्धाश्च साध्व्यः सत्यश्च योगिनः ॥९६॥
दर्शनं प्राप्तुमिच्छूनां सोपानानि भवन्ति वै ।
यत्तस्य परम रूपं तन्न पश्यन्ति देवताः ॥९७॥
अस्मदादिस्वरूपेण पूरयत्येव भावनाम् ।
तस्माद् व्याप्तमिदं सर्वं जगन्नारायणेन हि ॥९८॥
भज तं च प्रिये यथाभिमते स्थितमच्युतम् ।
बृहस्पतिः पुरा रैभ्यं ब्रह्मपुत्रं जगाद ह ॥९९॥
वसुसंज्ञं तु राजानं चाक्षुषे त्वान्तरे मनोः ।
रैभ्य शृणु वसो राजन् समाकर्णय चादरात् ॥१००॥
यत्किञ्चित् कुरुते कर्म पुरुषः साध्वसाधु वा ।
सर्वं नारायणे न्यस्य कुर्वन्नपि न लिप्यते ॥१०१॥
स च नारायणः श्रीमान् सर्वप्राणिष्ववस्थितः ।
भज तं श्रीकृष्णनारायणं चान्तरगं प्रभुम् ॥१०२॥
ततस्तौ श्रीकृष्णनारायणं संभेजतुः सदा ।
मुक्तिं यातौ परे धाम्नि दास्यात्मिकां च शाश्वतीम् ॥१०३॥
इत्येतत् कथितं सर्वं कपिलस्य वचोऽर्थदम् ।
राजा चाश्वशिराः पुत्रं ज्येष्ठं स्थूलशिराह्वयम् ॥१०४॥
अभिषिच्य निजे राज्ये नत्वा गुरून् पुनः पुनः ।
नैमिषाख्यं वनं दूरं ययौ तत्र हरिं प्रभुम् ॥१०५॥
तपसाऽऽराधयामास प्रत्यक्षोऽभूद्धरिः स्वयम् ।
विमानेन निजं भक्तं निनायाऽक्षरधाम सः ॥१०६॥
इत्येतत् कथितं सर्वमश्वशिरःप्रमोक्षणम् ।
कर्मणा चार्पितेनेशेश्वरे ज्ञानान्वितेन वै ॥१०७॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कपिलेन अश्वशिरसे राज्ञे ज्ञानदाने संयमनद्विजनिष्ठुरकव्याधनिदर्शनेन कर्मणा सर्वसमर्पणात्मकेन मोक्षः प्रदर्शितः, कपिलस्य जैगीषव्यस्य चाऽनेकविभूतिरूपत्वं चेत्यादिनिरूपणनामा पञ्चविंशत्यधिकपञ्चशततमोऽध्यायः ॥५२५॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP