संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५२४

कृतयुगसन्तानः - अध्यायः ५२४

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
आकर्णय महालक्ष्मि! लोमशस्य कथां शुभाम् ।
प्रातः समुत्थितो राजा कृताह्निको गुरुं प्रति ॥१॥
जगाम दर्शनार्थं च दृष्ट्वा कृष्णनरायणम् ।
गुरुणाऽऽशीर्योजितः स पप्रच्छ लोमशम् ऋषिम् ॥२॥
भगवन् मोक्षदातस्त्वं मायातीतो जितेन्द्रियः ।
वर्तसे च यथा धाम्नि तथैवात्र कराग्रदृक् ॥३॥
वद मे भगवद्धाम्नि कालो नास्ति ततः प्रभो ।
नित्यः सेवाप्रकारादेर्नियामकः क्षणात्मकः ॥४॥
दिनात्मको व्यवहारः कथं भक्तैर्विधीयते ।
इति पृष्टो लोमशस्तु राजानं प्राह भूपते ॥५॥
कृष्णनारायणमूर्तेः किरणैः सुप्रभान्वितैः ।
प्रसरद्भिर्भिन्नरूपैः क्षणाद्याः सन्ति सर्वदा ॥६॥
तज्ज्ञास्तत्किरणैः प्रातर्मध्यं सायं विदन्ति च ।
कृष्णनारायणस्तेषां सेवां गृह्णाति तत्र च ॥७॥
मूर्तौ लीनस्थितिर्निद्रा दास्यसेवा तु जाग्रती ।
श्वेतप्रकाशनं चाहः सन्ध्या रक्तप्रकाशनम् ॥८॥
मेघश्यामावलोके च मूर्तौ स्थैर्यं निशेति च ।
गोलोकेऽपि तथा कृष्णकिरणैर्व्यवहृतयः ॥९॥
वैकुण्ठेऽपि तथा नारायणतेजःप्ररीतयः ।
अक्षरे तु परे धाम्नि परब्रह्मप्रभादिभिः ॥१०॥
इत्येवं तद्गतेभ्यश्च श्रुतं मुक्तेभ्य एव यत् ।
कथितं ते चेन्द्रद्युम्न! किमन्यत् प्रष्टुमिच्छसि ॥११॥
इन्द्रद्युम्नस्ततो लक्ष्मि! पप्रच्छ लोमशम् ऋषिम् ।
कृष्णनारायणश्चात्र क्षेत्रे प्राकट्यमिच्छति ॥१२॥
यदा तदा स किं मातृगर्भे तिष्ठति वा न वा ।
भौतिकं किं तस्य वर्ष्म उताऽन्यादृशमेव किम् ॥१३॥
छिन्धि मे संशयं जातं लौकिकं च कृपां कुरु ।
लोमशः प्राह राजर्षे कृष्णस्य परमात्मनः ॥१४॥
नारायणस्य सर्वस्याऽवतारादेर्यदा यदा ।
सृष्टौ भवति प्राकट्ये तदा गर्भानुसारतः ॥१५॥
वायुं गर्भस्थितं त्वाज्ञापयत्येव हरिः सदा ।
गर्भकुक्षो त्वया स्थेयं जलेन सह तावता ॥१६॥
यथा गर्भवती माता बहिर्दृश्येत वै तथा ।
कुक्षिं प्रोच्छ्रयतां प्राप्तां कुरु कालेन यावता ॥१७॥
यत्र यत्र यादृशश्च समयः समपेक्ष्यते ।
तावत्तत्र दर्शयित्वा गर्भस्याऽप्यभिवर्धनम् ॥१८॥
प्रसवस्य समये च वायोर्जलस्य कुक्षितः ।
बहिर्निःसारणं तत्र दर्शनीयं च लौकिकम् ॥१९॥
मया तत्र तदा तत्रस्थितैरनभिलक्षितम् ।
बालरूपं यथा गर्भजन्यं दृश्येत वै तथा ॥२०॥
भासमात्रं करणीयं गर्भजलाभियोजितम् ।
मायया छन्ननेत्राणामत्र नास्ति गतिर्मयि ॥२१॥
दिव्यदृशः प्रपश्यन्ति दिव्यां सूक्ष्मां मम कृतिम् ।
स्थूलदृशः प्रपश्यन्ति गर्भाज्जातो हि बालकः ॥२२॥
एवमेव हि मुक्ताश्च भवन्त्ययोनिसंभवाः ।
मातापित्रोर्न तज्ज्ञानं यतो रतिप्रियौ हि तौ ॥२३॥
कामदेवस्य रीत्यैव तयोर्भानं ममोद्भवे ।
अकामयोस्तु दिव्यं वै तत्क्षणान्मम दर्शनम् ॥२४॥
ततो वायो! न मे गर्भागमो न धातुसंश्रयः ।
न च गर्भगृहे वासो योनेर्निष्कासनं न हि ॥२५॥
बाल्यभावो न मे त्वस्ति न जन्ममरणे ह्युभे ।
न हि देहो भौतिको मे किन्तु दर्शय तत्तथा ॥२६॥
एवमाज्ञापयति श्रीकृष्णनारायणः प्रभुः ।
राजँस्तदनुसारेण वायुदर्शयति कृतिम् ॥२७॥
भोजनादि तथा तस्य नित्यतृप्तस्य वै हरेः ।
लौकिकं नैव भवति भक्ताः कुर्वन्ति भावतः ॥२८॥
यद्यदात्मन एवाऽस्ति प्रियं भोग्यं मनोहरम् ।
तस्मै समर्प्य भोक्तव्यं धर्मश्चायं सनातनः ॥२९॥
एवं भक्तकृता सेवा नित्यतृप्तस्य तृप्तिदा ।
लक्ष्म्यै पुरा प्रदत्तं च वरदानं तु शार्ङ्गिणा३०॥
निवेदितं न वै न्यूनं कथं भवति तत्र वै ।
हरिः प्राह मया भुक्तं वर्धेत न क्षयं व्रजेत् ॥३१॥
यथा यथाहं भुञ्जे तत् वर्धते च तथा तथा ।
जडं चेतनतां याति दिव्यभावं प्रपद्यते ॥३२॥
प्रसन्नतां समासाद्य याति प्रफुल्लता तदा ।
नवं नवं भवत्येव रसान्वितं शुभप्रदम् ॥३३॥
दिव्यदृशः प्रपश्यन्ति पश्यन्ति न बहिर्दृशः ।
इत्येतत् कथितं राजन् नैवेद्यस्य प्रवर्धनम् ॥३४॥
एवं कृष्णे प्रदत्तानां ह्रासो नास्ति क्वचिन्नृप ।
प्रत्युत वर्धते सर्वं किमन्यच्छ्रोतुमिच्छसि ॥३५॥
इन्द्रद्युम्नस्ततोऽपृच्छल्लोमशं सद्गुरुं हरिम् ।
कस्मात् त्वं ग्रोष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥३६॥
निवासार्थं गृहं रम्यं किमर्थं न करोषि वै ।
लोमशस्तं नृपं प्राह स्वल्पायुश्चास्मि सर्वथा ॥३७॥
कस्यार्थं कार्य आवासस्त्वनित्यं जीवितं यतः ।
यदि स्याच्छाश्वतं दीर्घं जीवितं गृहमाभजेत् ॥३८॥
राजा प्राह च सर्वेषां चिरायुः श्रूयते भवान् ।
तेनाऽहमपि संप्राप्तो भवद्दर्शनकाम्यया ॥३९॥
लोमशस्तु तदा प्राह शृणु राजन् वदामि तत् ।
कल्पे कल्पे प्रसंप्राप्ते रोमैक्यं मम नश्यति ॥४०॥
अभावे वक्षसो रोम्णां मम नाशो भविष्यति ।
त्रिलक्षं च पञ्चषष्टिसहस्राणि गतानि मे ॥४१॥
कल्पानि तत्र वै नष्टा वेधसो दृश मे पुरः ।
नाभेरुपरिचाऽऽकण्ठं रोमाणि सन्ति मे नृप ॥४२॥
षट्त्रिंशल्लक्षपञ्चाशत्सहस्राणि च तानि वै ।
त्रिलक्षं च पञ्चषष्टिसहस्राण्यधिकानि च ॥४३॥
तावत्कल्पानुषित्वैव ब्रह्माण्डेषु ततः परम् ।
यास्यामि परमं लोकं किं करोमि गृहेण वै ॥४४॥
पश्य त्वं मच्छरीरेऽत्र जानोरधोऽङ्गुलायतम् ।
यावत्कल्पं प्रतिस्पर्धि संजातं रोमवर्जितम् ॥४५॥
जीवितव्यं ध्रुवं नास्ति ज्ञायते रोमनाशनात् ।
न करोमि गृहं तेन कारणेन महीपते ॥४६॥
राजा प्राह ऋषे! पूर्वं किं कर्म विहितं त्वया ।
तपो दानं कृतं कीदृग् येनेदृग्जीवितं चिरम् ॥४७॥
लोमशस्तु तदा प्राह शृणु राजन् चिरं मम ।
अहमासं पुरा सृष्टौ शूद्रो दारिद्र्यपीडितः ॥४८॥
दास्यं कुर्वन् तदाऽऽसं संगतोऽहं बदरीवनम् ।
क्षुत्क्षामः सुपिपासार्तो दृष्ट्वा नारायणं नरम् ॥४९॥
जलं कमलपुष्पाणि समर्प्यार्चनमाचरम् ।
अथ पूजां विनिर्वर्त्य गिरेर्मार्गं समाश्रितः ॥५०॥
हिमेन क्षुधया मृत्युं गतो विप्रगृहे ततः ।
जातिस्मरोऽभवं तेन मौनं रक्षामि सर्वथा ॥५१॥
ईशान इति मे नाम पिता चक्रे प्रहर्षितः ।
अन्यैः सम्प्रेर्यमाणोऽपि नैव जल्पामि किञ्चन ॥५२॥
वैराग्यं परमं प्राप्तो दृष्ट्वा संसारसंस्थितिम् ।
पिता मेऽयोजयद् वाचः प्रकाशार्थं तु भेषजम् ॥५३॥
तेन मे जायते हास्यं कृतमन्त्रजनान्प्रति ।
अश्वपट्टसरःक्षेत्रे निवसन् भक्तिभावतः ॥५४॥
कृष्णनारायणं देवं पूजयामि समाहितः ।
शिलोञ्च्छवृत्तिमासाद्य प्राणवृत्तिं समाचरन् ॥५५॥
नारंगैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः ।
ततो मे श्रीकृष्णनारायणः प्रत्यक्षतां गतः ॥५६॥
उवाच परितुष्टोऽस्मि वरं वरय सुव्रत ।
ततोऽर्थितं मया कुरु जरामरणवर्जितम् ॥५७॥
कृष्णः प्राह न वै मर्त्येऽमरत्वं कस्यचिद्भवेत् ।
मर्यादां कुरु तस्मात्ते जीवितस्य ददामि तत् ॥५८॥
ततश्चोक्तो हरिः कल्पे कल्पे रौमैकपातनम् ।
भवेन्मे नाभितः कण्ठावधिं रोम्णां प्रपातनम् ॥५९॥
तावदायुर्ममैवाऽस्तु वेधोऽब्दानां दशाधिकम् ।
शतं यत्र विलीयेत ततो यास्यामि धाम ते ॥६०॥
तथाऽस्त्विति हरिः प्राह ययौ चाऽदर्शनं ततः ।
तत आरभ्य चैवात्र कुंकुमवापिकाऽन्तिके ॥६१॥
अश्वपट्टसरःक्षेत्रे निवसामि तथाऽवधिम् ।
कृष्णनारायणसेवाफलं मे चिरजीवनम् ॥६२॥
पृथ्वीनां प्रलया दृष्टा जीवनेऽत्र सहस्रशः ।
प्रलये यामि वैकुण्ठं जलस्योपरि संस्थितम् ॥६३॥
तेजआवरणप्रान्ते पुनःसृष्टौ भुवं प्रति ।
आगच्छामि निवसामि कृष्णनारायणाश्रमे ॥६४॥
पत्नीव्रतस्तथा विप्रः पतिव्रता च तत्प्रिया ।
भवतस्तौ चिरजीवौ प्रतिकेशाऽजपातनौ ॥६५॥
तथा श्रीकम्भरालक्ष्मीगोपालकृष्णभूसुरौ ।
भवतस्तौ चिरजीवौ प्रतिकेशाऽजपातनौ ॥६६॥
कृष्णनारायणस्तस्य बालोऽक्षरपतिः स्वयम् ।
प्रतिसृष्टि प्रतिकल्पं जायते च तयोर्गृहे ॥६७॥
तमेव श्रीकृष्णनारायणं भजामि सर्वदा ।
तेषामायुर्विलोक्यैव मम गर्वो न वर्तते ॥६८॥
भजामि श्रीकृष्णनारायणं त्वं भज तं हरिम् ।
लोकस्य हरिभक्तस्य वाञ्च्छितं नास्ति दुर्लभम् ॥६९॥
इत्येवं मम वृत्तान्तः कथितश्चेन्द्रद्युम्नक ।
त्वं जातः कीर्तिमान् लोके गच्छाऽक्षरपदं हरेः ॥७०॥
इन्द्रद्युम्नस्ततः प्राह सर्वेषां शापमोक्षणम् ।
कच्छपोलूकगृध्रर्षिबकमार्कण्डमोक्षणम् ॥७१॥
कदा भावि वद विद्वन् सर्वज्ञस्त्वं हरिर्यथा ।
लोमशस्तु तदा प्राह यदा कृष्णनरायणम् ॥७२॥
भजिष्यन्ति च ते सर्वे मन्त्रग्रहणपूर्वकम् ।
तदा मोक्षोऽत्र वै क्षेत्रे भविष्यति न संशयः ॥७३॥
इन्द्रद्युम्नस्तु तान् सर्वान् सस्मारोपकृतो मुहुः ।
जातिस्मराश्च ते कामरूपधराः समाययुः ॥७४॥
नतास्ते लोमशं कृष्णनारायणं समार्चयन् ।
पुपूजुः कम्भरालक्ष्मीं गोपालकृष्णमार्चयन् ॥७५॥
चकार स्वागतं त्वश्वपट्टसरस्तटे ऋषिः ।
लोमशः प्रददौ मन्त्रं कृष्णनारायणस्य वै ॥७६॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
जेपुस्ते संस्थितास्तत्र लोमशस्याऽऽश्रमेऽनघे ॥७७॥
अश्वपट्टसरस्येते स्नात्वा कुंकुमवापिकाम् ।
गत्वा चक्रुर्जलपानं जेपुर्मन्त्रं दिवानिशम् ॥७८॥
तेषां लोमशकृपया वासना विलयं गता ।
मुक्तास्ते श्रीकृष्णनारायणाऽनुग्रहतोऽभवन् ॥७९॥
कच्छपर्षिः कच्छदेशे नारायणसरोवरे ।
घूकर्षिः श्रीहाटकेशक्षेत्रे नागनदीतटे ॥८०॥
गृध्रर्षिः श्रीरैवताद्रौ दत्तात्रेयतपःस्थले ।
बकर्षिः श्रीसोमनाथक्षेत्रे समुद्रसन्निधौ ॥८१॥
मार्कण्डेयस्तलश्यामस्थलेऽरण्ये वसन्ति च ।
दिव्यास्ते चिरजीवाश्च कामरूपधराः सदा ॥८२॥
वर्तिष्यन्ते प्रतिकल्पं लोककल्याणहेतवे ।
रैवते कार्तिके सर्वे त्वायान्ति प्रतिवत्सरम् ॥८३॥
प्रदक्षिणार्थं देवानां कृष्णनारायणस्य च ।
लोमशोऽहं प्रगच्छामि दिवसान् पञ्च तत्र वै ॥८४॥
श्रीकृष्णनारायणइत्युदारं
गृणन्त एवाऽद्रिमनुक्रमन्ते ।
तेषां पृथिव्याक्रमणस्य पुण्यं
जायेत संवच्मि तु लोमशोऽहम् ॥८५॥
अथेन्द्रद्युम्ननृपतेर्भजनेन हरिः स्वयम् ।
तुतोष परया भक्त्या लोमशानुग्रहेण च ॥८६॥
ददौ दिव्यां परां दृष्टिं निरावरणिकां हृदि ।
कृष्णनारायणं विलोकयामास हृदि प्रभुम् ॥८७॥
लोमशे दक्षिणां न्यस्य कृत्वाऽऽत्मानं परात्मनि ।
ब्रह्मरन्ध्रेण तु पथा निर्यातुं यावदिच्छति ॥८८॥
तावद्दिव्याक्षरान्मुक्तैर्जुष्टं विमानमागतम् ।
कोटिकोट्यर्कसंकाशं समारुरोह तत् नृपः ॥८९॥
कृष्णनारायणं नत्वा ययौ ब्रह्माक्षरं पदम् ।
लोमशो विधिवच्चक्रे जलदानादि तत्कृते ॥९०॥
एवं ते कथितं लक्ष्मि! लोमशातनतोद्भवम् ।
लोमशेतिऋषेर्नामाख्यानं चिरप्रजीविनः ॥९१॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवद्धाम्नि समयज्ञानपरिचयः, जन्मग्रहणे दिव्यता, नैवेद्येऽभिपूरकता, लोमशस्य प्राग्वृत्तान्तः,
मार्कण्डेयादिचिरंजीवानां ततः सौराष्ट्रादौचिरवासश्चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकपञ्चशततमोऽध्यायः ॥५२४॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP