संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५१९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१९ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि च राजानो देवा दैत्यस्तथाऽपरे ।मायामोहं समालभ्य रमन्ते प्राणदेवने ॥१॥गन्तव्यं त्वस्ति सर्वेषां पञ्चत्वे पञ्चवर्जितः ।स्वयं त्वन्यत्र पञ्चत्वे पञ्चैकत्वं प्रयाति च ॥२॥नहि माया गता कैश्चिदात्मभिः सह नश्वरी ।अर्बुदाऽर्बुदवर्षायुर्जीविभिरपि कर्हिचित् ॥३॥शृणु राजा पुरा त्वासीदिन्द्रद्युम्न इति श्रुतः ।ब्रह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः ॥४॥यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः ।न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥५॥न न्यूनता प्रजायां वै भोग्यद्रव्यस्य कस्यचित् ।असंख्याताः क्रतवश्च कृताः सम्पूर्णदक्षिणाः ॥६॥अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकस्तथा ।सौत्रामण्यथ पशुजश्चातुर्मास्यं व्रतक्रतुः ॥७॥वाजपेयोऽश्वमेधश्च राजसूयश्च सोमपः ।पुण्डरीकश्च पुत्रेष्टिः सस्येष्टिः रुद्रवैष्णवौ ॥८॥कारीरिर्वैश्वदेवश्चेत्याद्यान् यज्ञांश्चकार सः ।न तदस्ति धरापृष्ठे नगरं पत्तनं च वा ॥९॥तीर्थं शाला वनं वापी यत्र सत्रं न तस्य वै ।सर्वत्रैवेन्द्रद्युम्नस्यान्नानि भुज्यन्त ईश्वरैः ॥१०॥देवाः ऋषयो भृत्याश्च विद्यार्थिनश्च भूसुराः ।यतयः साधवः साध्व्यः सांख्ययोगिन्य इत्यपि ॥११॥ब्रह्मचारी वानप्रस्थः सन्न्यासी त्यागवानपि ।अनाथो दीन इत्याद्या भुंजते तस्य सत्रके ॥१२॥तीर्थं न विद्यते तादृग् यत्र तस्य न देवलम् ।तेन कन्याऽर्बुदाऽयुतानां दानमुत्तमम् ॥१३॥कृतं प्रकारितं चापि सदा सन्तः सुपूजिताः ।दशमीदिवसे तस्य राज्ये वै गजपृष्ठगः ॥१४॥दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम् ।उज्जयिन्यां च वै प्रातर्भावी श्रीहरिवासरः ॥१५॥तेनैव स्वशरीरेण ब्रह्मलोकं स्वयं गतः ।ततः कल्पसहस्रान्ते स प्रोक्तो ब्रह्मणा स्वयम् ॥१६॥इन्द्रद्युम्न! धरां याहि न स्थातव्यं त्वयाऽत्र वै ।तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले ॥१७॥यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः ।एतस्मात्कारणाल्लोकाः कुर्वन्ति नामलेखनम् ॥१८॥वापीकूपतडागादौ देवतायतनादिषु ।गच्छ शीघ्रं धरापृष्ठं स्वां कीर्तिं नूतनीकुरु ॥१९॥कीर्तौ सत्यां मम सत्ये द्रष्टा त्वं भविताऽसि वै ।ततः सः प्रययौ पृथ्वीं काम्पिल्यनगरं प्रति ॥२०॥अथ पप्रच्छ देशः को नगरं किं जनान् तदा ।ऊचुस्तेऽयं प्रदेशोऽस्ति त्वानर्तो नगरं तु वै ॥२१॥काम्पिल्यं को भवानत्राऽपरिज्ञाता प्रवर्तते ।राजा प्राह पुरा चाऽहमिन्द्रद्युम्नो महीपतिः ॥२२॥देशे वेजहके रोचकाख्ये वै नगरेऽधिपः ।स देशः क्व पुरं क्वाऽऽस्ते मया स्थेयं च तत्र वै ॥२३॥जनाः प्राहुर्न विद्मस्तं नृपं देशं च पत्तनम् ।राजा प्राह चिरायुष्कं प्रदर्शयत मां जनाः ॥२४॥यदि कश्चिद्भवेदत्र यस्तं वेत्ति महीपतिम् ।जनाः प्राहुर्दशकल्पजीवी संश्रयूते मुनिः ॥२५॥नैमिषारण्यके पृच्छ मार्कंडेयो वदिष्यति ।राजा गत्वा व्योमपथा पप्रच्छ तं मुनीश्वरम् ॥२६॥इन्द्रद्युम्नेति भूपोऽत्र त्वया दृष्टः श्रुतोऽथवा ।मुनिः प्राह मया नैव दृष्टो वापि श्रुतोऽपि वा ॥२७॥तस्य तद्वचनं श्रुत्वा राजा नैराश्यमाप्तवान् ।मुनिः प्राह मया साकं समागच्छ हिमाचलम् ॥२८॥तत्रास्ते च बको नाम ऋषिर्मत्तः पुरातनः ।इति तौ व्योममार्गेण गत्वा पप्रच्छतुर्नतौ ॥२९॥इन्द्रद्युम्नमहीपालस्त्वया दृष्टः श्रुतोऽपि किम् ।बकः प्राह मम कालो विंशतिकल्पको गतः ॥३०॥समये तत्र तत्पूर्वं नैव वेद्मि हि तं नृपम् ।इन्द्रद्युम्नो बकं प्राह चिरायुष्ट्वं कथं तव ॥३१॥बकः प्राह पुरा विश्वरूपोऽहमभवं द्विजः ।कस्यचित्त्वथ कालस्य संक्रान्तौ मकरस्य वै ॥३२॥कृष्णनारायणः पञ्चामृतेन स्नापितो मया ।शंकरः स्नापितस्तत्र हरेः प्रसादवारिणा ॥३३॥ततोऽहं राजपुत्रत्वं प्राप्तः पश्चिमभूतले ।जातिस्मरः सदा पञ्चामृतैः कृष्णनरायणम् ॥३४॥शिवं च पूजयाम्येवं प्रातर्वर्षसहस्रकम् ।तेन पुण्यप्रभावेण जातोऽहं वै चिरस्थिरः ॥३५॥कैलासे शंभुदास्यं चाऽकरवं वै ततः परम् ।गालवस्याऽऽश्रमे गत्वा विद्याध्ययनमाचरम् ॥३६॥तस्य पत्नी ऋतुस्नाता मया स्पृष्टा विकारतः ।सा तु शशाप मां धूर्त बकोऽरण्यगतो भव ॥३७॥तेनाऽहं बकरूपोऽस्मि ऋषिः कामस्वरूपधृक् ।वर्ताम्यत्र महारण्ये बकाकारः सदा शुचिः ॥३८॥जातिस्मरः सदा त्वत्र भजामि श्रीहरिं बकः ।मार्कंडेयस्तु तं प्राह वेत्सि त्वत्तोऽपि पूर्वजम् ॥३९॥यदि कंचिद् दर्शयस्व येन पृच्छामि तं च तत् ।बकः प्राह समायाहि मत्तश्चापि पुरातनः ॥४०॥यत्रास्ति दयितो मेऽति ह्युलूकर्षिश्चिरस्थिरः ।त्रयस्ते च गतास्तत्र कैलासे शिखरे हि मे ॥४१॥सोपि दृष्ट्वा बकं मित्रं स्वागतेनाऽभ्यनन्दयत् ।बकः पप्रच्छ चोलूकम् इन्द्रद्युम्ननृपं प्रति ॥४२॥वद जानासि चेन्मित्र! कदा जातः स भूपतिः ।उलूकः प्राह मे कल्पाश्चत्वारिंशत्प्रसंख्यकाः ॥४३॥व्यतीता न श्रुतो दृष्टस्त्विन्द्रद्युम्नो महीपतिः ।इन्द्रद्युम्नस्तु तं प्राहोलूकता वै कथं तव ॥४४॥उलूकः स्वकथामाह पुराऽऽसं ब्राह्मणो भुवि ।ब्रह्मचारी हरभक्तो बिल्वपत्रैः प्रपूजकः ॥४५॥ततो वर्षसहस्रान्ते ददौ स्वदर्शनं हरः ।ददौ मे वैष्णवं मन्त्रं कृष्णनारायणेति च ॥४६॥शंभुरदृश्यतां प्राप्तश्चाऽहं भार्गवसन्निधौ ।आश्रमं तस्य संप्राप्तो विरूपोऽपि शुभाश्रयम् ॥४७॥भार्गवस्याऽभवत्पत्नी नाम्ना सुदर्शना सती ।गालवकन्यका सा च पातिव्रत्यपरायणा ॥४८॥तस्यां त्वासीद् भार्गवस्य कन्यैका युवती शुभा ।सा मया याचिता चाथ विवाहितापि वै ततः ॥४९॥विरूपं मां सदा मत्वा कन्यका प्राह मातरम् ।विरूपाय प्रदत्ताऽस्मि नाऽहं जीवितुमुत्सहे ॥५०॥विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम् ।अथ तां भार्गवः प्राह यस्मै दत्ता स्थिरा भव ॥५१॥वेदधर्मः स एवाऽस्ति पतिं नारायणं स्मरेत् ।संसेव्य स्वपतिं त्वं वै भविष्यसि दिवंगता ॥५२॥अतः सेवस्व तं नाथं कुरु जन्म फलान्वितम् ।इत्येवं शिक्षिता साऽपि नैव मेने हितं ततः ॥५३॥न मां वै सेवते रात्रौ ततो मया प्रसह्य सा ।अर्धरात्रे हृता तस्याः पितुर्गृहान्ममाश्रमम् ॥५४॥प्रातर्विप्रो जजागार पिता तस्यास्तथा प्रसूः ।क्वाऽसौ सा दुहितेत्येवं बभ्रमतुर्ममाश्रमम् ॥५५॥आगत्यैनां ददृशतुः सापि रुरोद वीक्ष्य तौ ।ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः ॥५६॥निशायां तु त्वया पत्नी मम पुत्री हृता यतः ।निशाचरो भवानस्तु उलूकश्चेति शापतः ॥५७॥उलूकोऽस्मि हि सञ्जातो जातिस्मरश्च सर्वदा ।कामरूपधरश्चास्मि वर्तामि चाऽत्र पर्वते ॥५८॥पत्नी मे स्वपितुर्हर्म्ये स्थिता नारायणाश्रिता ।ययौ श्रीमत्कृष्णनारायणदास्यप्रदं पदम् ॥५९॥एवं मे कौशिकत्वं वै सञ्जातं चात्र पर्वते ।अखण्डबिल्वपत्रैस्तु पूजनस्य फलं परम् ॥६०॥चिरायुष्ट्वं तु मे दिव्यरूपधारित्वमित्यपि ।बकः प्राहेतरं कंचिच् चेज्जानासि चिरायुषम् ॥६१॥वद तत्र प्रगच्छामः पृच्छामस्तं नृपं प्रति ।उलूकः प्राह तु मया सार्धमागच्छताऽत्र वै ॥६२॥गन्धमादनशिखरे गृध्रर्षिर्वर्तते महान् ।चिरन्तनो यदि तं च नृपं ज्ञास्यति पूर्वजम् ॥६३॥इत्युक्त्वा तान् समादायोलूको गृध्रं समाययौ ।गृध्रर्षिस्ताँस्तथा दृष्ट्वा प्रहृष्टः सम्मुखं ययौ ॥६४॥स्वागतं कृतवाँश्चापि पृष्ठवाँश्चाश्रमे ऋतम् ।उलूकः प्राह मे मित्रं नाडीजंघो बको ह्ययम् ॥६५॥यस्य मित्रं तु मार्कण्डस्तस्याऽयं नृपतिः सुहृत् ।अयं चात्राऽऽगतः प्रष्टुं पुरेन्द्रद्युम्नभूपतिः ॥६६॥आसीत्कश्चिन्नवेत्येवं वेत्तुं चास्ति समागतः ।गृध्रः प्राह तु मे कल्पा अशीतिः प्रययुः खलु ॥६७॥न दृष्टो न श्रुतः कोऽपि क्वाऽपीन्द्रद्युम्नभूपतिः ।तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः ॥६८॥मनसा चिन्तयामास मरणे कृतनिश्चयः ।पप्रच्छ गृध्रं जातोऽसि चिरायुस्त्वं कथं वद ॥६९॥गृध्रः प्राह पुरा चैत्यवृक्षेऽहं न्यवसं सुखम् ।वसन्ते च जनास्तं चाऽपूजयन् फलितं द्रुमम् ॥७०॥कामिन्यस्तत्र वृक्षे च दोलां बबन्धुरुत्तमाम् ।तत्र संस्थाप्य च कृष्णनारायणं मुहुर्मुहुः ॥७१॥सर्वा आन्दोलयामासुः कुमार्यः सधवास्तथा ।अहं तु कौतुकाविष्टो रात्रौ तत्र स्वयं स्थितः ॥७२॥करोम्यान्दोलनं ताभिः रमामि विरमामि च ।जनैर्दृष्टस्ताडितश्च पञ्चत्वं प्राप्तवाँस्ततः ॥७३॥जातिस्मरोऽभवं राजा नाम्ना ख्यातः कुशध्वजः ।कृष्णनारायणं नित्यं चान्दोलयामि पूर्ववत् ॥७४॥शंभुं चान्दोलयाम्येव शिवरात्रौ पुनः पुनः ।जन्माष्टम्यां तथानादिश्रीकृष्णं न्यस्य तत्र च ॥७५॥आन्दोलयामि सततं नरनारायणं तथा ।एवं प्रकुर्वतो मे श्रीशंभुः प्रत्यक्षतां गतः ॥७६॥भवते वरदश्चास्मि वैष्णवाय वरं वृणु ।इत्युवाच हरो मह्यं मयाऽपि च तदाऽर्थिनम् ॥७७॥कैलासे मे देहि वासं वैष्णवानां समागमे ।वैष्णवस्य च ते नित्यं करिष्यामि सुसेवनम् ॥७८॥एवमुक्तो महादेवो मां कैलासं निनाय सः ।कदाचित्त्वथ कालस्य विमानेन निजेच्छया ॥७९॥मया च भ्रममाणेन दृष्टाऽग्निवेश्यपुत्रिका ।जले प्रविष्टा स्नानार्थं त्वालिभिर्बह्वीभिर्युता ॥८०॥मयाऽवतीर्य सा बाला पत्न्यर्थं याचिता तदा ।कामभावेन सा नैव व्यलोकयत्तु मां प्रति ॥८१॥मयोद्धृत्य जलात् सा च बलान्नीता विमानके ।तदा तद्रोदनं श्रुत्वा तत्पिता मां शशाप ह ॥८२॥गृध्रवद् बालिकां वं चाऽस्पृशः सद्व्रतशालिनीम् ।तस्माद्गृध्रो भव चात्र विमानं ते प्रणश्यतु ॥८३॥अहं गृध्रस्तदा जातो विमानं नष्टमेव मे ।बाला चाऽकृतभोगा सा ययौ स्वं पितरं प्रति ॥८४॥एतद्वै सर्वमाख्यातं सखे! गृध्रत्वकारणम् ।कृष्णनारायणप्रीत्या चिरायुश्चास्मि भूतले ॥८५॥इन्द्रद्युम्नं न जानामि वद किं करवाणि ते ।इतिश्रुत्वा नृपतिः स निराशश्च हुताशने ॥८३॥प्रवेशं चेच्छति तत्र मरणं कर्तुमिच्छति ।तावद् गृध्रस्तु तं प्राह वह्निं मा विश भूपते ॥८७॥अहं ते कीर्तयिष्यामि ममाऽप्यस्ति चिरन्तनः ।स ज्ञास्यति मम मित्रं हीन्द्रद्युम्नं पुरातनम् ॥८८॥यामस्तत्र तु कमठो मान्थरकोऽस्ति यत्र च ।मानसे सरसि ख्यातस्तत्रैव कृतकेतनः ॥८९॥सर्वे ययुस्तत्कमठं सेवमानं शुभातपम् ।तीरस्थं सरसस्तत्र तेऽवतीर्णास्ततोऽम्बरात् ॥९०॥तावत् स कच्छपः शीघ्रं सलिलेऽन्तर्जगाम ह ।गृध्रस्तं निजमित्रं च प्राह कस्मात् प्रयासि भोः ॥९१॥मित्रं दृष्ट्वा कथं यासि भीत इव विलोक्यसे ।सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्यतमः सताम् ॥९२॥अथ कूर्मो जलमध्ये शिरोमात्रबहिर्मुखः ।प्रत्युवाच परं मित्रं करोमि स्वागतं तव ॥९३॥तव मित्रस्य च तथा मित्रमित्रादिमाननम् ।परं त्वयं नृपः कश्चित् पञ्चमो यः प्रदृश्यते ॥९४॥तस्येन्द्रद्युम्नसंज्ञस्य भयाद् यामि जलान्तरम् ।अनेन तु पुरा दग्धा पृष्ठिर्मे तु मखाग्निभिः ॥९५॥नाऽद्याऽपि सा क्षतिः संपूर्यते पृष्ठगता मम ।एनं दृष्ट्वा यज्ञकीर्तिं स्मृत्वा पृष्ठक्षतिं तथा ॥९६॥विद्रवामि जले मित्र! करोमि स्वागतं तु वः ।इन्द्रद्युम्नस्य राजर्षेः कीर्तिसंश्रवणं महत् ॥९७॥सहस्रसंख्यया राज्ञा सर्वे वै क्रतवः कृताः ।नाऽद्यापि कीर्तिपुण्ये च नश्येतेऽस्य तु भूपतेः ॥९८॥पञ्चाशच्च शतं कल्पा मम त्वत्र जले गताः ।तत्पूर्वं रोचके नाम्ना पत्तने चाऽभवं तदा ॥९९॥अस्य भयेन तत् त्यक्त्वा वसाम्यत्र सरोवरे ।इत्युक्त्वा स बहिर्गत्वाऽकरोत् सन्माननं बहु ॥१००॥संभाषां विविधां कल्पान्तरीयां चक्रिरे मिथः ।कूर्मो जातिस्मरः कामरूपधृग् देवरूपवान् ॥१०१॥सत्कारं भोजनाद्यं च कल्पयायास तत्क्षणम् ।इन्द्रद्युम्नः प्रहृष्टोऽभूत् पप्रच्छत कच्छपं ततः ॥१०२॥चिरायुष्ट्वं कथं तेऽस्ति रोचकात् पूर्वमेव किम् ।कुत्र वासश्च ते त्वासीत् कुत्र जन्म व्रतं तव ॥१०३॥वद मे जायते चात्यानन्दो मित्रस्य दर्शनात् ।श्रुत्वैवं कच्छपः प्राह शृणु राजन् पुराभवम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नराज्ञः पृथिव्यां मार्कण्डेयबकर्षिघूकर्षिगृध्रर्षिकमठर्षिकृतकीर्तिनवीनत्वं, प्रागपराद्धजन्यबकादिजन्मानि, पुण्यकृतचिरजीवित्वादि चेत्यादिनिरूपणनामा एकोनविंशदधिकपञ्चशततमोऽध्यायः ॥५१९॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP