संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५१८

कृतयुगसन्तानः - अध्यायः ५१८

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! तदा युद्धे सेनयोरुभयोरपि ।
दारुणश्चाऽप्रमेयश्च संग्रामो जीवदक्षिणः ॥१॥
भयंकरोऽभवद् व्योम्नि पृथ्व्यां जलेऽपि सर्वशः ।
एतस्मिन्नन्तरे तत्र भद्राख्यस्तु महाबलः ॥२॥
अन्धकस्य महासेनापतिर्बली महारथी ।
निर्भर्त्स्य शंकरं कार्तिकेयं गणाधिपं तथा ॥३॥
चिक्षेप श्रीगणेशे वै बाणं प्रलयवह्निभम् ।
तद्बाणं त्वर्धचन्द्रेण संचिच्छेद गणाधिपः ॥४॥
भद्रश्चिक्षेप सूर्याभां शक्तिं स्कन्दं प्रति क्रुधा ।
कार्तिकेयस्तु तां वैष्णवास्त्रेण व्यहनत् तदा ॥५॥
भद्रश्चिक्षेप तु नारायणास्त्रं रणमूर्धनि ।
प्रणम्य कार्तिकेयस्तु शेते पृथिवीमाश्रितः ॥६॥
ऊर्ध्वमस्त्रं तु बभ्राम शतसूर्यसमप्रभम् ।
प्रलीनमस्त्रमाकाशे विश्वसंहारकारकम् ॥७॥
अस्त्रे गते कार्तिकेयो गृहीत्वा स्वगदां दृढाम् ।
भद्ररथं प्रबभञ्ज जघानाऽश्वाँश्च सारथिम् ॥८॥
अन्धकस्य तु सेनापस्तदा दुद्राव कार्तिकम् ।
भद्रं तं कार्तिकेयस्तु शक्त्या जघान वै क्रुधा ॥९॥
द्वेधा विभिद्य पतितो ममार स रणांगणे ।
हते भद्रेऽन्धकपुत्रो धूम्रो महापराक्रमः ॥१०॥
बाणानां शतकं स्कन्दे चिक्षेप रणमूर्धनि ।
कार्तिकेयोऽग्निबाणेन बाणौघान् प्रददाह च ॥११॥
धूम्रश्चिक्षेप ब्रह्मास्त्रं सृष्टिसंहारकारकम् ।
दृष्ट्वा शंभ्वात्मजः शीघ्रं सबीजं मन्त्रपूर्वकम् ॥१२॥
ब्रह्मास्त्रेणैव सहसा सञ्जहाराऽवलीलया ।
धूम्रः शिलीमुखैर्बाणैर्जघान कार्तिकं मुहुः ॥१३॥
कार्तिकेयस्तु तद् दृष्ट्वा धनुर्बाणौघसंयुतम् ।
मुमोच जृम्भणं युद्धे शीघ्रं तं च महारथम् ॥१४॥
जडो बभूव धूम्रस्तु निश्चेष्टो रणमूर्धनि ।
पुनश्चिक्षेप निद्रास्त्रं धूम्रश्च निद्रितोऽभवत् ॥१५॥
तावद्वै त्वन्धकस्तं च बोधास्त्रेणाऽप्रबोधयत् ।
स्कन्दस्तु शतबाणैस्तं जघानाऽसुरमन्धकम् ॥१६॥
अन्धकोऽपि कार्तिकं च त्रिशूलेन जघान ह ।
गदया कार्तिकरथं बभञ्ज रत्ननिर्मितम् ॥१७॥
गदया कार्तिकः क्रुद्धो बभंजाऽन्धकवाहनम् ।
अन्धकश्चार्धचन्द्रेण क्षुरधारेण लीलया ॥१८॥
चिच्छेद कार्तिकधनुर्भल्लास्त्रेण नियोजितम् ।
कार्तिको गदया गत्वाऽन्धकं पृष्ठे जघान ह ॥१९॥
अन्धकः पतितो मूर्छां जगामाऽथ क्षणान्तरे ।
वीरभद्रो गणेशश्च कार्तिको भैरवास्तथा ॥२०॥
काल्यश्च रणचण्ड्यश्च युयुधुर्दानवैः सह ।
दानवास्तु शंकुकर्णो माहिषाक्षो वृकाननः ॥२१॥
विन्ध्यहनुर्यमस्कन्धो वृषशृंगो गुहाननः ।
क्रूरक्रमो विवराक्षो युयुधुस्ते सुरैः सह ॥२२॥
शंकरस्तु तदा शूलं गृहीत्वा चान्धकासुरम् ।
हन्तुं चकार यत्नं च महाशंखं ह्यवादयत् ॥२३॥
रथमध्ये स्वयं शंभुः स्थितः संहारकारकः ।
महारथानां लक्षैश्च रथानां च त्रिकोटिभिः ॥२४॥
त्रिकोटिभिर्गजेन्द्राणां मल्लानां च त्रिकोटिभिः ।
शतकोटिभिरश्वानां चर्मिणां तच्चतुर्गुणैः ॥२५॥
खड्गिनां तत्सप्तगुणैर्द्विगुणैस्तद्धनुष्मताम् ।
अष्टौ चापि दिशांपाला भैरवा देवकोटयः ॥२६॥
सान्नाहिका युयुधुश्च दानवैः शतकोटिभिः ।
उन्मत्तभैरवश्चापि संहारभैरवस्तथा ॥२७॥
असितांगो भैरवश्च रुरुभैरव इत्यपि ।
महाभैरवसंज्ञश्च कालभैरव इत्यथ ॥२८॥
प्रचण्डभैरवश्चापि क्रोधभैरव उल्बणः ।
शक्तिभिः सहिताः सर्वे युयुधिरे रणांगणे ॥२९॥
उग्रचण्डा प्रचण्डा च चण्डिका चण्डिनायिका ।
चण्डेश्वरी च चामुण्डा चण्डी चण्डकपालिका ॥३०॥
कोटर्याद्यास्तथा चान्या युयुधिरे रणांगणे ।
चन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ॥३१॥
कौमारी नारसिंही च वाराही विकटाकृतिः ।
माहेश्वरी महामाया भैरवी भीमरूपिणी ॥३२॥
रथस्थास्तास्तदा सर्वा युयुधिरेऽसुरैः सह ।
राक्षस्यः पर्वतप्राया युद्धं चक्रुश्च कोटिशः ॥३३॥
अन्धकः शंकरं हन्तुं दिव्यास्त्रेण नियोजितम् ।
धनुर्दधार सगुणं चिक्षेप च शरं हरे ॥३४॥
अंजनं नाम दिव्यास्त्रं ग्रीष्ममार्तण्डसन्निभम् ।
हरिश्चिक्षेप धावल्यं दिव्यास्त्रं चन्द्रसन्निभम् ॥३५॥
वह्निं चिक्षेपाऽन्धकश्च हरस्तं वारुणेन वै ।
प्रज्वलन्तं तालमानं निर्वाणं प्रचकार सः ॥३६॥
वायुं चिक्षेपाऽन्धकश्च चिक्षेप पार्वतं हरः ।
नारायणास्त्रं चिक्षेप ह्यन्धको रणमूर्धनि ॥३७॥
शंभुर्भार्गवसंश्रेष्ठो नारायणं ननाम तम् ।
चिक्षेप चाऽन्धको नागमस्त्रं श्रीशंकरोपरि ॥३८॥
शंकरो गरुडेनैव संजहार क्षणेन वै ।
अन्धकस्त्वर्धचन्द्रं च चिक्षेप शंकरोपरि ॥३९॥
शंभुर्गदां प्रचिक्षेपाऽन्धकं प्रति भयानकाम् ।
अन्धकस्य रथश्चूर्णो बभूव सारथिस्तथा ॥४०॥
इन्द्रो वज्रं प्रचिक्षेपाऽन्धकं भस्मकरं तदा ।
अन्धकेन मुखे ग्रस्तं विद्युद्रूपं जलं यथा ॥४१॥
अन्धकश्च तदा प्रचिक्षेपेन्द्रं हन्तुमेव च ।
ब्रह्मास्त्रं शंकरस्तच्च ब्रह्मास्त्रेण न्यवारयत् ॥५८२॥
अन्धकस्तु तदा शंभुं हन्तुं खड्गेन वेगतः ।
दुद्रावाऽभिमुखः सैन्ये हाहाकारोऽभवत्तदा ॥४३॥
मर्तुकामो महेशस्य सन्निधौ यज्जगाम ह ।
शंकरं स जटायां वै जघानातिबलेन तु ॥४४॥
जटा द्वेधाऽभवत् तूर्णं खड्गो द्वेधाऽभवत्तथा ।
वीरभद्रेण च गदा ताडिता गदया सह ॥४५॥
अन्धको भूतले त्वर्धः प्रविष्टो विवरे तदा ॥४६॥
वीरभद्रधृतां लौहीं गदामाश्लिष्य चान्धकः ।
आकृष्टया तु गदया सहैव निर्ययौ तलात् ॥४७॥
वियुक्तः सन् हरं हन्तुं शक्तिं जग्राह चायसीम् ।
शंभुस्त्रिशूलमादाय चिक्षेपाऽसुरवक्षसि ॥४८॥
स विद्धोऽपि स्वयं तेन त्रिशूलेन महासुरः ।
ब्रह्मणो वरमाहात्म्यान्न च प्राणैर्वियुज्यते ॥४९॥
तस्य तपःफलं श्रेष्ठं रक्षत्येव पुनः पुनः ।
शतवर्षं फलाहारः शतवर्षं दलादनः ॥५०॥
शतवर्षं मूलभक्षी शतवर्षं सुमादनः ।
शतवर्षं कन्दभक्षी शतवर्षमयाचितः ॥५१॥
शतवर्षं जलाहारः शतवर्षं तु बाष्पपः ।
शतवर्षं वायुभक्षी शतवर्षं त्वभोजनः ॥५२॥
ततो वर्षसहस्रं वै जलान्तवर्तिसंस्थितः ।
तस्य वै तपसा जाताऽनलेन वारिशुष्कता ॥५३॥
जाता तत्र तु पृथिवी समदृश्यत लावणी ।
तत्र वर्षसहस्रं तु तृतीयं व्यगमत्तदा ॥५४॥
वल्मीकः सुमहान् जातो वंशस्तम्बाभ्यधिष्ठितः ।
प्रसन्नो विश्वसृट् तस्मै वरं वृणु समाह च ॥५५॥
स च वव्रे तव हस्तान्न मे शंकरहस्ततः ।
न वा विष्णोः कराद्वापि देवीभ्यो देवतादिभिः ॥५६॥
तव सृष्टौ भवेन्मृत्युश्चिरंजीवो भवामि च ।
अनेनैव तु देहेन दिव्यतां प्रव्रजामि च ॥५७॥
इतिश्रुत्वाऽऽह वेधास्तं तथाऽस्त्विति तथा भव ।
इत्येवं वरदानेन दिव्यकायो महासुरः ॥५८॥
नायं नाशमवाप्नोति पुनरुत्थाय वै बली ।
जघान च समाक्रुद्धो विशेषेण बहून् गणान् ॥५९॥
शंकरं ताडयामास गदापातैर्मुहुर्मुहुः ।
एवं युद्धं समभवच्चिरं स्वर्गे पिनाकिना ॥६०॥
त्रिशूलभिन्नो दैत्यः स यदा मृत्युं न गच्छति ।
उत्थायोत्थाय क्रुद्धस्तु प्रहारेणाऽर्दयद्बली ॥६१॥
शंकरस्तं सुविमृश्य मृत्युना परिवर्जितम् ।
ततो निर्भिद्य शूलाग्रे प्रोत्क्षिप्य गगनांगणे ॥६२॥
छत्रवद् धारयामास लम्बमानमधोमुखम् ।
क्षरन्तं रुधिरं भूमौ गात्रेभ्यो वर्ष्मसंभवम् ॥६३॥
चिरं तं स्थापयामास तथैव शूलधारया ।
ततः कालेन युद्धेन चर्मास्थिस्नायुमात्रकः ॥६४॥
धातुत्रययुतश्चायं नष्टधातुचतुष्टयः ।
अतोऽन्धको बलहीनः स्तुतिं चकार दीनवत् ॥६५॥
न त्वं देवो मया ज्ञातो वाग्दुष्टेन दुरात्मना ।
ईदृग्वीर्यसमोपेतस्तस्माद् युक्तं भवत्कृतम् ॥६६॥
अनुरूपं मदान्धस्य विवेकरहितस्य च ।
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमित्यपि ॥६७॥
न तिष्ठति चिरं कालं यथाऽहं मदगर्वितः ।
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥६८॥
त्राहि मां देव ईशान सर्वपापानि क्षालय ।
दुःखितोऽहं वराकोऽहं दीनोऽहं शक्तिवर्जितः ॥६९॥
त्रातुमर्हसि मां देव प्रपन्नं शरणे स्थितम् ।
सर्वपापक्षणे शंभो त्वयि सञ्जायते मतिः ॥७०॥
नाममात्रं तव कृत्वा मुक्तिमाप्नोति पापकृत् ।
तव पूजाविहीनानां दिवसा वन्ध्यताऽन्विताः ॥७१॥
तस्माद् भक्तं तव रूपं जानन्तं मोचयाऽत्र माम् ।
स्वगणं कुरु दिव्यं वै देहेनानेन नाऽन्यथा ॥७२॥
गतो मे दानवो भावस्त्यक्तं राज्यं तथा प्रभो ।
त्यक्ताः पुत्राः प्रपुत्राश्च विभवाश्च मयाऽद्य वै ॥७३॥
तस्य तद्वचनं श्रुत्वा दैत्यं विगतकल्मषम् ।
उत्तार्य शनकैः शूलाच्छंभुर्विनयसंश्रितम् ॥७४॥
तस्य नाम तदा चक्रे भृंगिरीटिरिति प्रभुः ।
अब्रवीच्च सदा मे त्वं वल्लभः संभविष्यसि ॥७५॥
तिष्ठ सौम्यतया सर्वगणेषु मम चाश्रितः ।
इत्येवं जलसंस्कारात् कृत्वा तं नवविग्रहम् ॥७६॥
निनाय शंभुः कैलासं देवाद्याः स्वगृहं ययुः ।
स्वर्गराज्यं यथायोग्यं प्राप्तवन्तः पुनः स्वकम् ॥७७॥
अथ दुष्टः सुतस्तस्याऽन्धकस्य दानवेश्वरः ।
वृको नाम महाक्रूरः प्रविवेशाऽब्धिवारिषु ॥७८॥
इन्द्रो ययौ पुरीं रम्याममरावतीसंज्ञिकाम् ।
यज्ञभागान् पुनर्लेभिरे सुदेवा धरातले ॥७९॥
वृको वर्षसहस्राणि तपस्तेपे पदा स्थितः ।
अंगुष्ठमात्रसंस्थानः पञ्चसाहस्रवत्सरे ॥८०॥
ब्रह्मणो वरदानं च जरामरणवर्जितम् ।
लेभे ततो ययावद्रिं सौराष्ट्रे रेवताचलम् ॥८१॥
ततः स्वर्गं ययाविन्द्रपदं जिगाय वै स्थितः ।
शुक्रात्प्राप्याऽभिषेकं च स्वयमिन्द्रो बभूव ह ॥८२॥
तेन यज्ञादयः सर्वे देवकार्याणि यान्यपि ।
जपहोमादयः पितृकार्याणि विप्रपूजनम् ॥८३॥
सर्वं विनाशितं स्वस्य कृतं करादिकं तथा ।
स्व एव यज्ञभागानां भोक्ता नान्यः कदाचन ॥८४॥
यजनादिविधाता च दण्ड्य एव न संशयः ।
इत्येवं शासनं चक्रे धर्मकर्मविरोधि सः ॥८५॥
सांकृतिं तपसां पूर्णशेवधिं स वृकासुरः ।
गत्वा जघान तं तत्र शस्त्राणि नैव सर्वथा ॥८६॥
पस्पर्शुस्तस्य खड्गश्च शतधा खण्डशोऽभवत् ।
सांकृतिस्तं शशापाऽथ शीघ्रं नाशोऽस्तु तेऽसुर ॥८७॥
शंकरश्च जघानैनं वृकं तत् कथितं च ते ।
लक्ष्मि! कथाप्रसंगेन शृणु चान्यत्कथानकम् ॥८८॥

इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्तानेऽन्धकासुरो युद्धे शंकरेण स्वत्रिशूले रोपितो भृंगिरीटिगणः कृतः, वृकस्तत्पुत्रोऽपि शंकरेण सूदित इत्यादिनिरूपणनामाऽष्टादशाऽधिकपञ्चशततमोऽध्यायः ॥५१८॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP