संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५१० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१० Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि यजतश्च ब्राह्मणो वै क्रतौ तदा ।ऋषीणां कोटिरायाता दक्षिणापथवासिनाम् ॥१॥सिंहारण्यस्थितानां च नैमिषारण्यवासिनाम् ।खण्डान्तरस्थितानां च कोटयः संगतास्तदा ॥२॥श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ।कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः ॥३॥रूपतीर्थे नागनद्यां स्नात्वा दिव्यस्वरूपिणः ।ऋषयस्ते यज्ञभूमिं गत्वा नेमुः पितामहम् ॥४॥उपविष्टाः परिश्रान्ताः स्वागतेन प्रपूजिताः ।चक्रुस्ते वै कथा दिव्या यज्ञकर्मसमुद्भवाः ॥५॥सोमपानस्य सम्बन्धे वादं चक्रुः परस्परम् ।उद्गातुश्च तथाऽध्वर्योः तत्त्ववादो बभूव च ॥६॥भुक्तवन्तस्ततः सर्वे निन्युर्निंशां सुखेन ते ।द्वितीये दिवसे प्राप्ते द्वादश्यां मखकर्मणि ॥७॥ऋत्विग्भिश्च समारब्धे कौतुकं शृणु पद्मजे ।बटुः कश्चिन्नर्मकारी जलसर्पं सदःस्थले ॥८॥चिक्षेप प्रहसन् शीघ्रं विधातुः सन्निधौ ततः ।डुण्डुभः स भ्रममाणो होतुः पार्श्वमुपाययौ ॥९॥होतारं वेष्टयामास भृगुं तथापि वै भृगुः ।न चचाल निजस्थानात् प्रायश्चित्तबिभीषया ॥१०॥तदोद्वेगश्च सर्वेषां क्षोभो मनाक् बभूव ह ।मुनिश्च्यवनः पितरं ददर्श सर्पवेष्टितम् ॥११॥सर्पप्रक्षेपकं बालं शशाप क्षोभकारकम् ।यस्मात् पाप त्वया सर्पः क्षिप्तः सदसि दुर्मते ॥१२॥तस्माद् भव द्रुतं सर्पः श्रुत्वाऽथाऽऽह बटुस्तु तम् ।हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया ॥१३॥न होतारं समुद्दिश्य कस्माच्छापं ददासि मे ।इति प्रवदन् सर्पत्वमापन्नः स क्षणान्तरे ॥१४॥सनातनऋषेः पुत्रो बटुः शुशोच वै मुहुः ।डुण्डुभं स्वं समादाय ययौ भृगुं जगाद च ॥१५॥सनातनसुतश्चास्मि पौत्रस्तु परमेष्ठिनः ।शप्तस्तव सुतेनाऽस्मि च्यवनेन महात्मना ॥१६॥शापाद् रक्ष मुने विप्रं बटुं मां शरणागतम् ।श्रुत्वा भृगुः कृपाविष्टश्च्यवनं प्राह रे सुत! ॥१७॥अयुक्तं विहितं त्वेतद् यच्छप्तोऽयं बटुस्त्वया ।न त्वां धर्षयितुं शक्तो विषाढ्योऽपि भुजंगमः ॥१८॥किम्पुनर्जलसर्पोऽयं निर्विषो रज्जुसन्निभः ।शापमोक्षं कुरुष्वाऽस्य विप्रबटुः सुखीभवेत् ॥१९॥च्यवनः प्राह शापो मे मिथ्या नैव भवेत् पितः ।ब्रह्मा श्रुत्वा तदा प्राह जातं सर्वं मदिच्छया ॥२०॥पुरा संसृष्टुकामोऽहं नागानां नवमं कुलम् ।तद्भविष्यति वै त्वत्तस्तव वंशो धरातले ॥२१॥नागः कर्कोटकः पुत्रीं निजां दास्यति ते प्रियाम् ।तव वंशः सविस्तारो मर्त्यलोके निवासकृत् ॥२२॥श्रावणशुक्लपञ्चम्यां जनास्तद्वंशपूजनम् ।करिष्यन्ति तव वासो नागतीर्थं प्रथिष्यते ॥२३॥एवं प्रवदतोऽजस्य यज्ञे नागाः समाययुः ।निमन्त्रिताश्च वासुकिस्तक्षकश्च कृषीहरः ॥२४॥पुण्डरीकः कम्बलाश्वतरौ कालपरो बलः ।शेषश्चान्ये प्रणम्योचुर्यज्ञे देवं पितामहम् ॥२५॥सेवाकार्यं क्रतौ ब्रह्मन् प्रयच्छ नः सदोचितम् ।ब्रह्मा प्राह भवन्तोऽत्र कामरूपधराः शुभाः ॥२६॥नागतीर्थे निवसन्तु यज्ञे येषां च दुष्टता ।विघ्नेच्छा च भवेत् तेभ्यो रक्षणीयः क्रतुर्मम ॥२७॥एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम् ।भाद्रकृष्णस्य पञ्चम्यां जनैः पूजामवाप्स्यथ ॥२८॥बाढमुक्त्वा च ते सर्वे नागतीर्थमुपाश्रिताः ।सनातनसुतोपेताः सनातनस्य वंशकृत् ॥२९॥परिणेमे सुतां कर्कोटकस्य नवयौवनाम् ।तद्वंशः सर्वथा भूमौ विस्तृतश्चाऽभवत्ततः ॥३०॥यत्फणासु बिन्दुयुक्तं तिलकं चतुरस्रकम् ।उपरि दण्डशून्यं च ते सनातनवंशजाः ॥३१॥वैष्णवा बहुरूपाश्च शुक्लाः पिंगाश्च पाण्डुराः ।रक्ताः कृष्णा हरिताश्च बभूवुः कालभेदतः ॥३२॥कर्बुराश्च ततो जाताः सांकर्यान्निर्विषास्तथा ।जलसर्पाः स्थलसर्पाः कामरूपधरास्तथा ॥३३॥अथ भोज्यादिकं चक्रुः सायं रात्रौ च जागरम् ।तृतीये च दिने त्रयोदश्यां ऋत्विज एव ते ॥३४॥प्रातः सवनमासाद्य संलग्ना यज्ञकर्मसु ।यज्ञे प्रवर्तिते शब्दस्तत्राऽभूद् विरतिं विना ॥३५॥दीयतां दीयतां त्विष्टं भुज्यतां भुज्यतां बहु ।नीयतां नीयतां दानं वाञ्च्छिताद्वै चतुर्गुणम् ॥३६॥पक्वान्नानां पर्वताश्च वित्तानां राशयस्तथा ।घृतक्षीरवहा नद्यो मिष्टपेयसरांसि च ॥३७॥आसन् सहस्रगुणिताः कोटितृप्तिप्रदास्तदा ।एतस्मिन्नन्तरे तत्र कश्चिज्ज्ञानी समागतः ॥३८॥त्रिकालज्ञो नमस्कृत्य ब्रह्माणं निषसाद ह ।कथयामास सर्वान् स नैजं परिचयं ततः ॥३९॥ऋत्विजस्तं पप्रच्छुः स्वभूतकर्माणि कौतुकात् ।स तानि कथयामास तेनाऽऽश्चर्यान्विताश्च ते ॥४०॥पप्रच्छुर्वद कस्मात्ते ज्ञानं लोकोत्तरं ननु ।को गुरुस्ते वद विद्वन् ब्रह्मा हरो हरिश्च वा ॥४१॥ज्ञानी प्राह गुरवो मे षडेते पिंगला तथा ।कुररः सर्पो भ्रमरश्चेषुकारः कुमारिका ॥४२॥एतेषां वर्तनाज्ज्ञानं लब्धं मया शुभोत्तमम् ।सौराष्ट्राधिपतेरासीन्नारीणां शतकं द्विजाः ॥४३॥तस्याऽप्यन्तःपुरे चासीत् पिंगला नाम नायिका ।रात्रौ सुखं स्वपित्येव पतिहीना निरीहिणी ॥४४॥अन्यास्तु शतशो भार्या रजन्यां कामवाञ्च्छया ।आहरन्ति शुभान् धूपान् लेपाँश्च कुसुमानि च ॥४५॥विलेपनानि मुख्यानि सूक्ष्माणि चाम्बराणि च ।मन्मथोत्साहसंयुक्ताः पुलकेन समन्विताः ॥४६॥एका जानाति मां शय्यां नूनमेवाऽऽह्वयिष्यति ।अन्या जानाति मां चैव तृतीया मां च नाऽपराम् ॥४७॥स्पर्धयन्ति प्रपश्यन्ति प्रतीक्षन्ति नृपं तदा ।तासामेकामाह्वयति द्वितीयां वा तृतीयकाम् ॥४८॥चतुर्थीं वा पञ्चमीं वा दश वा तु क्वचिन्निशि ।शेषाः शोकं समासाद्य निःश्वस्य प्रस्वपन्ति च ॥४९॥आशादुःखगता नैव लभन्ति निद्रिकालवम् ।आशा हि परमं दुःखं नैराश्यं परमं सुखम् ॥५०॥आशां निराशां कृत्वा च सुखं स्वपिति पिंगला ।न करोति च शृंगारं न स्पर्धां च कथंचन ॥५१॥न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला ।अन्तःपुरस्य सेवायां नियुक्तेन मया सदा ॥५२॥विलोकितं ततश्चाहं त्यक्त्वाऽऽशां प्रस्वपिम्यपि ।ये स्वपन्ति सुखं रात्रौ तेषां जाठरजोऽनलः ॥५३॥इध्यते भोजनं पूर्णं गृह्णाति याति पुष्टताम् ।तदेतत् कारणं जातं पुष्टता ज्ञानवर्धिनी ॥५४॥श्रूयतां कुरराल्लब्धं ज्ञानं यथा वदामि तत् ।ममाऽऽसीद् द्रविणं भूरि पितृपैतामहं महत् ॥५५॥द्रविणस्य कृते मां च प्रबाधन्ते दिवानिशम् ।पुत्राः पौत्राश्च दायादा बान्धवा ज्ञातयस्तथा ॥५६॥यस्याऽहं न प्रयच्छामि स मां नित्यं प्रबाधते ।एकस्तु यतते प्राणान् हर्तुं नित्यं ममान्तिके ॥५७॥अपरो दण्डयुक्तश्च भयं दत्वा प्रयाचते ।तृतीयो याचते साम्ना परः प्रशंसया तथा ॥५८॥अन्यो भेदेन च तथेतरो जयप्रदानकैः ।याचते द्रविणं चान्ते दीनो भूत्वाऽपि वै मुहुः ॥५९॥एवं नाहं क्वचित् सौख्यं तेषां पार्श्वाल्लभामि वै ।दिवारात्रौ सुखं निद्रां शान्तिं लभामि नैव च ॥६०॥अथैकस्मिन् दिने दृष्टः कुररो मांससंयुतः ।हन्यमानो व्योममार्गे मांसार्थं परितः खगैः ॥६१॥मांसं चञ्च्वा पतितं तदनुपेतुः खगाश्च ते ।कुररश्च सुखी जातः पक्षिभिस्तैः समुज्झितः ॥६२॥आमिषस्य परित्यागात् कुररः सुखमेधते ।मया पुत्रादिकान् द्रव्यं विभज्याऽर्पितमेव ह ॥६३॥ततः प्रभति तैर्मुक्तः सुखं तिष्ठामि पुष्टिमान् ।अर्थसम्पद् विमोहाय विमोहो नरकाय च ॥६४॥तस्मादर्थमनर्थं तु मोक्षार्थी दूरतस्त्यजेत् ।यथाऽऽमिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ॥६५॥आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ।दोषहीनोऽपि धनवान् भूपालैर्दण्ड्यते मुहुः ॥६६॥दरिद्रः कृतदोषोऽपि प्रायः सन्त्यज्यते जनैः ।परैः समावृता नित्यं यान्ति स्खलन्ति वै पदे ॥६७॥असम्बद्धानि जल्पन्ति धनिनो मद्यपा यथा ।भक्ते द्वेषो बहिः प्रीतिः रुचिरं गुरु लघ्वपि ॥६८॥मुखे तु कटुकं नित्यं धनिनां ज्वरिणामिव ।अर्थार्थं जीवलोकोऽयं श्मशानमपि सेवते ॥६९॥जनितारमपि त्यक्त्वा निःस्वं यान्ति सुता अपि ।तावत् निष्ठति मैत्री वै यावन्नार्थप्रयोगिता ॥७०॥सम्बन्धेऽर्थस्य संजाते वैरं सम्पद्यते स्वयम् ।ततो वित्तं विहायाऽहं सुखं कुररवत् स्थितः ॥७१॥सर्पाज् ज्ञानं यथा लब्धं कथयामि यथा पुरा ।सर्पः परकृतं वेश्म प्रविश्य सुखमश्नुते ॥७२॥उषित्वा तत्र सौख्येन त्यक्त्वा याति दिगन्तरम् ।ममत्वं कुरुते नैव स्वयं नैव करोति च ॥७३॥गृहारंभस्तु दुःखाय न सुखाय कदाचन ।गृहारम्भेण ममता मृत्युकाले प्रतिष्ठति ॥७४॥गृहे कृते कृता भार्या ततः पुत्राश्च कन्यकाः ।कृत्याऽकृत्यं तदर्थं च पुनर्भोगाय तिष्ठति ॥७५॥कोशकारमिवाऽऽत्मानं वेष्टितं नैव बुद्ध्यते ।अहंताममतायुक्ताः सक्ताः सीदन्ति जन्तवः ॥७६॥स्नेहपंकार्णवे मग्नाः पुत्रस्त्रीपशुसम्पदाम् ।यथा मत्तगजा अज्ञास्तथा नश्यन्ति मानवाः ॥७७॥भृत्यः पापानि कुरुते भुक्तेऽर्थांश्च महाजनः ।भोक्ता मुक्तश्च तत्पापात् कर्ता दोषेण लिप्यते ॥७८॥मोक्षमार्गार्गलभूतं हर्म्यं त्यक्तं मया ततः ।गृहिणां दुःखदात्रा न भवितव्यं सता क्वचित् ॥७९॥यत्र क्वापि वसेन्नित्यं सत्तावर्ज्यं द्रुमाश्रये ।बाधावर्ज्यां चरेद् भिक्षां माधुकरी विधूमके ॥८०॥ध्यायेन्नारायणं जपेत् कृष्णनारायणं सदा ।रागद्वेषौ न वै कार्यौ शत्रुता मित्रता न च ॥८१॥लोष्टाऽश्मकाञ्चनानां च तुल्यताऽमानमानयोः ।देशो यस्य स्वस्य नास्ति परो वा नास्ति सर्वदा ॥८२॥वसुधाऽस्ति कुटुम्बं वा ब्रह्मकुटुम्बमेव वा ।चतुर्विंशतितत्त्वानि गृहं कुटुम्बमस्थिरम् ॥८३॥सहैव तूह्यते नित्यं नान्यगृहे तु वासना ।कुलालचक्रवच्चात्र वेगेन भ्रमणं यदा ॥८४॥शान्तिं यास्यति तावत्तु मोक्षघटं समर्जयेत् ।एवंज्ञानं मया सर्पाल्लब्धं वै मोक्षदायकम् ॥८५॥तत्प्रभावान्महत्तेजः सुखं मे वर्तते सदा ।अथापि भ्रमराल्लब्धं ज्ञानं वदामि सारजम् ॥८६॥कस्मिँश्चित्तु द्रुमे दृष्टो भ्रमरो वै मया पुरा ।शाखाग्रं स समाश्रित्य कृतपूर्वनिकेतनः ॥८७॥वसन्ते द्रुमपुष्पेषु फलेष्वपि सुगन्धिषु ।वन्येषु बहुवृक्षेषु स्थितं श्रेष्ठतरं रसम् ॥८८॥समादाय निकेते स्वे नियोजयति नित्यदा ।अनुद्वेगो मधुश्रेष्ठं पुटके भृतवान् बहु ॥८९॥तेन तृप्तिं प्रयाताश्च बहवो मधुपाः परे ।मया सारं गृहीतं च शास्त्राणां मधुवत् शुभम् ॥९०॥रचितानि सुशास्त्राणि तानि गृह्णऽन्ति मानवाः ।उपजीवन्ति वै चान्ये यथा भृंगास्तथा जनाः ॥९१॥तेन पुण्येन तेजस्वी चास्मि ज्ञानेन सर्वदा ।आत्मारामाश्च मुनयो भोगतृष्णाविवर्जिताः ॥९२॥सारमाध्वीकसन्तृप्ताः प्रभवन्ति सुतेजसः ।लोभमोहान्विता ये ते जायन्ते वै वितेजसः ॥९३॥वेदाः शास्त्राणि लोकानां हितार्थाय मया कृताः ।सारमादाय सर्वेभ्यो दत्तवानस्मि वै सुखी ॥९४॥इषुकाराद् यथा लब्धं ज्ञानं तत् प्रवदामि च ।आत्माऽवलोकनार्थाय मया पृष्टाः सहस्रशः ॥९५॥आत्मदर्शनप्रख्यातास्तदुक्त च मया कृतम् ।ज्ञानेन चापि योगेन चाध्यात्मपठनेन च ॥९६॥अभ्यासेन च दिव्येन चक्षुषा तन्मया कृतम् ।न. वै दृष्टो मयाऽऽत्मा तु ततो वैराग्यवानहम् ॥९७॥अभ्रमद् भूतले तादृग्गुर्वर्थं यः प्रदर्शयेत् ।आत्मानं किन्तु कुत्रापि नाऽलभं तादृशं गुरुम् ॥९८॥अथाऽहं राजमार्गस्य निर्जने च स्थले स्थितः ।कश्चिदभ्यासकर्ता च यत्र विध्यति लक्ष्यकम् ॥९९॥इषुणा च मुहुर्लक्ष्यं त्वेकाग्रमनसा हि सः ।विध्यत्येव हि पार्श्वस्थं नाऽन्यज्जानाति चापरम् ॥१००॥तन्मार्गेण तु सैन्येन सहितो नृपतिर्ययौ ।मया दृष्टोऽथ केनापि समागत्य क्षणान्तरे ॥१०१॥इषुमान् लक्ष्यवेद्धाऽयमभ्यासदत्तमानसः ।सम्पृष्टः कियतीर्वेला गता यातस्य भूपतेः ॥१०२॥इषुकारो न शुश्राव पुनः पप्रच्छ तं तथा ।तयापि नैव शुश्राव लक्ष्ये तल्लीनतां गतः ॥१०३॥पुनः स्पृष्ट्वा कम्पयित्वा पप्रच्छ मानवो हि तम् ।तदा प्राहेषुमान्नैव वीक्षितः क इतो गतः ॥१०४॥नेतः सैन्यं गतं दृष्टं पृच्छाऽन्यं चेद् गतो भवेत् ।शरलक्ष्यसमभ्यासमानसो न व्यलोकयम् ॥१०५॥तच्छ्रुत्वा च मया तत्र त्वात्मदर्शनहेतवे ।चिन्तितं त्वेकचित्तत्वं स्वात्मदर्शनकारकम् ॥१०६॥आत्मज्ञानं ब्रह्मविद्या विना चित्तनिरोधनम् ।नैव सञ्जायते क्वापि विनाऽभ्यासं न दर्शनम् ॥१०७॥लब्धं चेति मया ज्ञानं तत्करोमि निरोधनम् ।चिन्तयामि हरिं नित्यं हृत्पंकजनिवासिनम् ॥१०८॥विश्वरूपं हरिं कृष्णनारायणं बहिर्हृदि ।सुरूपं धारयाम्येव ध्यायामि च पुनः पुनः ॥१०९॥ततो दिक्षु दिगन्तेषु गगने पृथिवीतले ।नरे बाले गवि वृक्षे स्त्रीषु वल्लीषु पर्वते ॥११०॥अग्रे पृष्ठे सर्वतत्त्वे पश्याम्यभ्यासतो हरिम् ।तमेकं चैवं पश्यामि नान्यत् किंचिद् विना हरिम् ॥१११॥अहं तत्तेजसा चैवं दीप्तोऽस्म्यद्य सदा तथा ।एवं ज्ञानं ततो लब्धं ध्यानाभ्यासस्य सर्वथा ॥११२॥अथ कन्यासकाशाच्च लब्धं ज्ञानं ब्रवीम्यहम् ।मम पृष्ठे पुरा मार्गे मम पत्नी विनिर्गता ॥११३॥नारी पुत्रवती कन्यावती प्राह पतिं च माम् ।कुरु योगं गृहे मुक्तिर्भविष्यति न संशयः ॥११४॥ब्रह्मचारी यतिर्भूत्वा संयतात्मा भव गृहे ।यदि मां त्वं परित्यज्य यास्यस्यन्यत एव चेत्। ॥११५॥तदहं तु मरिष्यामि बालस्तेऽपि मरिष्यति ।मरिष्यति कुमारी च ततो नाथ दयां कुरु ॥११६॥मा व्रजस्व परं तीर्थं गृहतीर्थं विहाय वै ।हाटकेश्वरजं तीर्थं स्मरणान्मुक्तिदं यतः ॥११७॥इतिभार्यावचसाऽहं पर्णकुटिं विधाय च ।हाटकेश्वरजे क्षेत्रे नातिदूरं वसामि वै ॥११८॥वानप्रस्थस्य मे कन्या क्रीडति वै ममाश्रमे ।प्रकोष्ठे वलयैर्युक्ता बहुभिः शब्दकारिभिः ॥११९॥काष्ठद्यानयने कार्ये काष्ठघातेन वै क्वचित्॥क्वचिदेकैकवलयं भिद्यते खण्डशः क्वचित् ॥१२०॥एवं याते तु समयेऽवशिष्टं वलयद्वयम् ।ततः शब्दोऽपि भवति ततः काले गते पुनः ॥१२१॥प्रतिप्रकोष्ठं त्वेकं तु वलयं विद्यतेऽधुना ।न संघर्षो न शब्दश्च ह्येकलस्य प्रजायते ॥१२२॥तद्विचिन्त्य मया ज्ञानं प्राप्तं त्यक्तः स चाऽऽश्रमः ।बहुभिः कलहो नित्यं द्वाभ्यां संघर्षणं तथा ॥१२३॥एकाकी विचरिष्यामि कुमारीवलयं यथा ।ततो दाराऽऽसुतपुत्रीः परित्यज्य भ्रमाम्यहम् ॥१२४॥यत्राऽस्तमितशायी च यल्लब्धकृतभोजनः ।स्मरामि सर्वदा कृष्णनारायणं विबन्धनः ॥१२५॥एवं लब्धं मया ज्ञानं तेभ्यस्तेभ्यो विचिन्तनात् ।यस्माद् यस्माद् भवेज्ज्ञानं स स्याद् गुरुस्तथा च ते ॥१२६॥एभिर्लोकान्तरज्ञानं मयाऽऽत्मज्ञानमेव च ।लब्धं तच्छ्रीकृष्णनारायणानुग्रहतोऽधिकम् ॥१२७॥एतस्य श्रवणाच्चापि लभते ज्ञानमीदृशम् ।इत्युक्त्वा विररामाऽसौ ज्ञानी यज्ञाऽतिथिस्तदा ॥१२८॥अश्वपट्टसरःस्थो वै कृष्णनारायणः स्वयम् ।यज्ञेऽतिथिश्च सत्कार्यः इत्यादेशार्थमागतः ॥१२९॥विज्ञाय श्रीकृष्णनारायणं ध्यानेन ऋत्विजैः ।सत्कृतः श्रीहरिर्विप्रः ऋत्विक्षु निषसाद ह ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यज्ञे सनातनसुतस्य बटुरूपेण सर्पक्षेपणार्थमागमनम्, ततः श्रीकृष्णनारायणस्याऽतिथिरूपेण स्वगुर्वादिज्ञानप्रदानार्थमागमनम्, ज्ञाननिरूपणं चेत्यादिप्रदर्शननामा दशाधिकपञ्चशततमोऽध्यायः ॥५१०॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP