संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५०९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्म्यैकदा सत्ये ब्रह्माणं प्रति नारदः ।
दर्शनार्थं ययौ भ्रान्त्वा लोकत्रयं ननाम तम् ॥१॥
ब्रह्मा पप्रच्छ च कुतः पुत्र आगम्यते, वद ।
नारदः प्राह मर्त्यानां मण्डलानि विलोक्य च ॥२॥
तव पूजाविधानाय विज्ञापयितुं हृद्गतम् ।
समागतोऽस्मि च पितः श्रुत्वा कुरु यथोचितम् ॥३॥
दैत्यानां हि बलं लोके सर्वत्राऽस्ति प्रवर्तितम् ।
यज्ञाश्च सत्यधर्माश्च सत्कर्माणि च सर्वथा ॥४॥
प्रसह्य तैर्विनाश्यन्ते देवा भक्ताश्च दुःखिनः ।
तस्माद् यथेष्टं भगवन् कल्याणं कर्तुमर्हसि ॥५॥
इत्येवं विनिवेद्यैव नत्वा सम्पूज्य संययौ ।
ब्रह्मा वै चिन्तयामास यज्ञार्थं शुभभूतलम् ॥६॥
निर्विघ्नं तत्स्थलं क्वास्तीत्याज्ञातुं पद्मपुष्पकम् ।
करस्थं स समुवाच पत स्थले तु पावने ॥७॥
ततश्चिक्षेप पुष्पं तद् भ्रान्त्वा लोकान् समन्ततः ।
हाटकेश्वरजे क्षेत्रे सम्पपात सुपावने ॥८॥
एतस्मिन्नन्तरे प्राप्तः पश्चात् तस्य पितामहः ।
क्षेत्रं दृष्ट्वा प्रसन्नोऽभूद् यज्ञार्थं प्रपितामहः ॥९॥
आदिदेश ततो वायुं समानय पुरन्दरम् ।
आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ॥१०॥
गन्धर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ।
ये च मे स्युः सहायास्तैः समस्ते यज्ञकर्मणि ॥११॥
वायुश्चेन्द्रं देवगणैर्युतं समानिनाय च ।
ब्रह्मा प्राह महेन्द्रं च वैशाख्यामग्निष्टोमकम् ॥१२॥
यज्ञं कर्तुं समीहेऽत्र सम्भारानाहरस्व वै ।
ब्राह्मणाँश्च तदर्हान् वै योग्योपस्कारकाँस्तथा ॥१३॥
इन्द्रस्तानानयामास संभाराँश्च द्विजोत्तमान् ।
आरेभे च ततो यज्ञं विधिवत् प्रपितामहः ॥१४॥
शंभुर्देवगणैः सार्ध तत्र यज्ञे समागतः ।
देवान् ब्रह्मा समुवाच स्वस्वस्थानेषु तिष्ठत ॥१५॥
विश्वकर्मन् कुरु यज्ञमण्डपं यज्ञवेदिकाः ।
पत्नीशालाः सदश्चापि कुण्डान्यावश्यकानि च ॥६६॥
यज्ञपात्राणि च गृहान् चमसाँश्च चषालकान् ।
यूपान् शयनगर्तांश्च स्थण्डिलानि प्रकारय ॥१७॥
हिरण्मयं सुपुरुषं कारय त्वं सुरूपिणाम् ।
बृहस्पते त्वमानीहि यज्ञार्हानृत्विजोऽखिलान् ॥१८॥
यावत् षोडशसंख्याकान् शुश्रूषां कुरु देवराड् ।
कुबेर च त्वया देया दक्षिणा कालसंभवा ॥१९॥
त्वया विधे विधौ कार्यं कृत्याऽकृत्यपरीक्षणम् ।
लोकपालाः प्ररक्षन्तु त्वैन्द्र्यादिका दिशस्तथा ॥२०॥
भूतप्रेतपिशाचानां प्रवेशो दैत्यरक्षसाम् ।
मा भूदित्यथ यज्ञेन दीयतां दानमुत्तमम् ॥२१॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
भवन्तु परिवेष्टारो भोक्तुकामजनस्य तु ॥२२॥
यज्ञार्हा ब्राह्मणा वृत्तास्तिष्ठन्तु यज्ञमण्डपे ।
मैत्रावरुणश्च्यवनोऽथर्वाको गालवस्तथा ॥२३॥
मरीचिर्मार्कवश्चैते सर्वकर्मविशारदाः ।
प्रस्थानकर्ता चाध्वर्युः पुलस्त्यस्तत्र तिष्ठतु ॥२४॥
रैभ्यो मुनिस्तथोन्नेता तिष्ठतु यज्ञमण्डपे ।
ब्रह्मा भवतु नारदो गर्गोऽस्तु सत्रवीक्षकः ॥२५॥
होतारोऽग्नीध्रभरद्वाजपराशरास्त्रयः ।
बृहस्पतिस्तथाऽऽचार्य उद्गाता गोभिलो मुनिः ॥२६॥
शाण्डिल्यः प्रतिहर्ता च सुब्रह्मण्यस्तथाऽङ्गिराः ।
अस्य यज्ञस्य सिद्ध्यर्थं सन्त्वृत्विजस्तु षोडश ॥२७॥
ब्रह्मा तान् पूजयामास दीक्षितस्तैस्तु विश्वसृट् ।
यजमानोऽभवद् यज्ञकार्यं ततः प्रवर्तितम् ॥२८॥
ब्रह्मा च नारदं प्राह सावित्रीं क्षिप्रमानय ।
वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ॥२९॥
गन्धर्वैर्वाद्यसंयुक्तैरुच्चारणपरैर्द्विजैः ।
अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ॥३०॥
पत्नीपत्नीतिविप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थितः ।
ब्रह्मा पुनर्नारदं संज्ञया करस्य वै द्रुतम् ॥३१॥
गृहं सम्प्रेषयामास पत्नी चानीयतामिति ।
सोऽपि गत्वाऽऽह सावित्रीं पित्रा सम्प्रेषितोऽस्म्यहम् ॥३२॥
आगच्छ मण्डपं देवि यज्ञकार्यं प्रवर्तते ।
परमेकाकिनी कीदृग्रूपा सदसि दृश्यसे ॥३३॥
आनीयन्तां ततो देव्यस्ताभिर्वृत्ता प्रयास्यसि ।
इत्युक्त्वा प्रययौ यज्ञे नारदोऽजमुवाच ह ॥३४॥
देवीभिः सह सावित्री समायास्यति सुक्षणम् ।
पुनस्तं प्रेषयामास ब्रह्माऽथ नारदो ययौ ॥३५॥
मातः शीघ्रं समायाहि देवीभिः परिवारिता ।
सावित्र्यपि तदा प्राह यामि केशान् प्रसाध्य वै ॥३६॥
नारदोऽजं प्राह केशान् प्रसाध्याऽऽयाति वै ततः ।
सोमपानमुहूर्तस्याऽवशेषे सत्वरं तदा ॥३७॥
पुलस्त्यश्च ययौ तत्र सावित्री त्वेकलाऽस्ति हि ।
किं देवि सालसा भासि गच्छ शीघ्रं क्रतोः स्थलम् ॥३८॥
सावित्र्युवाच तं ब्रूहि मुहूर्तं परिपाल्यताम् ।
यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथाऽपराः ॥३९॥
देवकन्याः समाजेऽत्र ताभिरेष्यामि संहिता ।
सोऽपि गत्वा द्रुतं प्राह सोमभाराऽर्दितं विधिम् ॥४०॥
सा मां प्राह च देवीभिः सहिताऽऽयामि वै मखे ।
अहं यास्यामि सहिता न त्वेकला कथंचन ॥४१॥
एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ।
अतिक्रामति कालश्च यज्ञपानक्षणात्मकः ॥४२॥
श्रुत्वा ब्रह्मा महेन्द्रं च प्राह सा शिथिलात्मिका ।
नाऽऽयात्येवाऽन्यया पत्न्या यज्ञः कार्यो भवत्विति ॥४३॥
ब्रह्माज्ञया भ्रममाणां कन्यां कांचित् सुरेश्वरः ।
चन्द्रास्यां गोपजां तन्वीं कलशव्यग्रमस्तकाम् ॥४४॥
युवतीं सुकुमारीं च पप्रच्छ काऽसि कन्यके ।
गोपकन्येति सा प्राह तक्रं विक्रेतुमागता ॥४५॥
परिगृह्णासि चेत् तक्रं देहि मूल्यं द्रुतं मम ।
इन्द्रो जग्राह तां तक्रसहितां गोपकन्यकाम् ॥४६॥
गोर्वक्त्रेणाऽऽवेशयित्वा मूत्रेणाऽऽकर्षयत् ततः ।
एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥४७॥
सुवाससी धारयित्वा नीत्वा धृत्वाऽजसन्निधौ ।
आनीतेयं त्वदर्थं वै ब्रह्मन् सर्वगुणान्विता ॥४८॥
गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ।
एकत्र मन्त्रस्तिष्ठन्ति हविरेकत्र तिष्ठति ॥४९॥
गोरुदराद् विनिष्क्रान्ता प्रापितेयं द्विजन्मताम् ।
पाणिग्रहं कुरुष्वास्या यज्ञपानं समाचर ॥५०॥
रुद्रः प्राह च गोयन्त्रनिष्क्रान्तेयं ततः खलु ।
गायत्रीनामपत्नी ते भवत्वत्र मखे सदा ॥५१॥
ब्राह्मणास्तु तदा प्राहुरेषाऽस्तु ब्राह्मणीवरा ।
गोपजातिवर्जितायास्त्वं पाणिग्रहणं कुरु ॥५२॥
ब्रह्मा पाणिग्रहं चक्रे समारेभे शुभक्रियाम् ।
गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ॥५३॥
वाद्यमानेषु वाद्येषु सम्प्राप्ता यज्ञमण्डपम् ।
विधिश्चक्रे स्वकेशानां क्षौरकर्म ततः परम् ॥५४॥
विश्वकर्मा तु गायत्रीनखच्छेदं चकार ह ।
औदुम्बरं ततो दण्डं पौलस्त्यो ब्रह्मणे ददौ ॥५५॥
एणशृंगान्वितं चर्म समन्त्रं प्रददौ तथा ।
पत्नीं शालां गृहीत्वा च गायत्रीं मौनधारिणीम् ॥५६॥
मेखलां निदधे त्वन्यां कट्यां मौञ्जीमयीं शुभाम् ।
ततो ब्रह्मा च ऋत्विग्भिः सह चक्रे क्रतुक्रियाम् ॥५७॥
कर्मणि जायमाने च तत्राऽऽश्चर्यमभून्महत् ।
जाल्मरूपधरः कश्चिद् दिग्वासा विकृताननः ॥५८॥
कपालपाणिरायातो भोजनं दीयतामिति ।
निषिध्यमानोऽपि विप्रैः प्रविष्टो यज्ञमण्डपम् ॥५९॥
सदस्यास्तु तिरश्चक्रुः कस्त्वं पापः समागतः ।
कपाली नग्नरूपश्चाऽपवित्रखर्परान्वितः ॥६०॥
यज्ञभूमिरशुद्धा स्याद् गच्छ शीघ्रमितो बहिः ।
जाल्मः प्राह कथं चास्मि ह्यशुद्धो भिक्षुको व्रती ॥६१॥
ब्रह्मयज्ञमिमं ज्ञात्वा शुद्धः स्नात्वा समागतः ।
गोपालकन्या नित्यं या शूद्री त्वशुद्धजातिका ॥६२॥
स्थापिताऽत्र नु सा शुद्धा विप्रोऽहं पावनो न किम् ।
तावत् तत्र समायातो ब्राह्मणो वृद्धरूपवान् ॥६३॥
श्रीकृष्णो वै तमुवाच प्रत्युत्तरं शृणु प्रिये ।
जाल्म नैषाऽस्ति शूद्राणी ब्राह्मणी जातितोऽस्ति वै ॥६४॥
शृणु जानामि तद्वृत्तं नान्ये जानन्त्यतद्विदः ।
पुरा सृष्टे समारम्भे श्रीकृष्णेन परात्मना ॥६५॥
स्वांशरूपा हि सावित्री स्वमूर्तेः प्रकटीकृता ।
अथ द्वितीया कन्या च पतिव्रताऽभिधा कृता ॥६६॥
कुमारश्च कृतः पत्नीव्रताख्यो ब्राह्मणस्ततः ।
ब्रह्मा वैराजदेहाच्च कृतस्तस्मै समर्पिता ॥६७॥
सावित्री श्रीहरिणैव गोलोके एव सन्निधौ ।
अथ यज्ञप्रवाहार्थं ब्रह्मा यज्ञं करिष्यति ॥६८॥
पृथिव्यां मर्त्यरूपेण तत्र मानुषविग्रहा ।
पत्नी यज्ञस्य कार्यार्थमपेक्षिता भविष्यति ॥६९॥
हेतुनाऽनेन कृष्णेन सावित्र्याज्ञापिता तदा ।
द्वितीयेन स्वरूपेण त्वया गन्तव्यमेव ह ॥७०॥
प्रागेव भूतले कन्यारूपेण ब्रह्मणः कृते ।
सावित्री श्रीकृष्णमाह कौ तत्र पितरौ मम ॥७१॥
श्रीकृष्णस्तां तदा सन्दर्शयामास शुभौ तु तौ ।
इमौ पत्नीव्रतो विप्रो विप्राणी च पतिव्रता ॥७२॥
मदंशौ मत्स्वरूपौ चाऽयोनिजौ दिव्यविग्रहौ ।
पृथ्व्यां कुंकुमवाप्यां वै क्षेत्रेऽश्वपट्टसारसे ॥७३॥
सृष्ट्यारंभे विप्ररूपौ वर्तिष्येतेऽतिपावनौ ।
वैश्वदेवादियज्ञादिहव्याद्यर्थं गवान्वितौ ॥७४॥
सौराष्ट्रे च यदा ब्रह्मा यज्ञार्थं संगमिष्यति ।
तत्पूर्वं तौ गोभिलश्च गोभिला चेति संज्ञिता ॥७२॥
गवा प्रपालकौ भूत्वाऽऽनर्तदेशे गमिष्यतः ।
यत्राऽऽभीरा निवसन्ति तत्समौ वेषकर्मभिः ॥७६॥
दैत्यकृतार्दनं तेन प्रच्छन्नयोर्न वै भवेत् ।
इतिःहेतोर्यज्ञपूर्वं दैत्यक्लेशभिया तु तौ ॥७७॥
श्रीहरेराज्ञयाऽऽनर्ते जातावाभीररूपिणौ ।
गवां वै पालकौ विप्रौ पितरौ च त्वया हि तौ ॥७८॥
कर्तव्यौ गोपवेषौ वै वस्तुतो ब्राह्मणावुभौ ।
मदंशौ तत्र सावित्रि! त्वया द्वितीयरूपतः ॥७९॥
अयोनिजतया पुत्र्या भाव्यं वै दिव्ययोषिता ।
दधिदुग्धादिविक्रेत्र्या गन्तव्यं तत्स्थले तदा ॥८०॥
यदा यज्ञो भवेत् तत्र तदा स्मृत्वा सुयोगतः ।
मानुष्या तु त्वया नूत्नवध्वा क्रतुं करिष्यति ॥८१॥
सहभावं गतो ब्रह्मा गायत्री त्वं भविष्यसि ।
ब्राह्मणयोः सुता गूढा गोपमध्यनिवासिनोः ॥८२॥
ब्रह्माणी च ततो भूत्वा सत्यलोकं गमिष्यसि ।
ब्राह्मणास्त्वां जपिष्यन्ति मर्त्यलोकगतास्ततः ॥८३॥
इत्येवं जायमानैषा गायत्री ब्राह्मणी सुता ।
वर्तते गोपवेषीया नाऽशुद्धा जातितो हि सा ॥८४॥
एवं प्रत्युत्तरितः स जाल्मः कृष्णेन वै तदा ।
तावत् तत्र समायातौ गोभिलागोभिलौ मुदा ॥८५॥
अस्मत्पुत्र्या महद्भाग्यं ब्रह्मणा या विवाहिता ।
आवयोस्तु महद्भाग्यं दैत्यकष्टं निवार्यते ॥८६॥
यज्ञद्वारेण देवानां ब्राह्मणानां सतां तथा ।
इत्युक्त्वा तौ गोपवेषौ त्यक्त्वा ब्राह्मणरूपिणौ ॥८७॥
पितामहौ हि विप्राणां परिचितौ महात्मनाम् ।
सर्वेषां पूर्वजौ तत्र जातौ दिव्यौ च भूसुरौ ॥८८॥
ब्रह्माद्याश्च तदा नेमुश्चक्रुः सत्कारमादरात् ।
यज्ञे च स्थापयामासुः सर्वं हृष्टाः सुरादयः ॥८९॥
ब्रह्माणं मालया कुंकुमाक्षतैः कुसुमादिभिः ।
वर्धयित्वा सुतां तत्र ददतुर्यज्ञमण्डपे ॥९०॥
वृद्धो वै ब्राह्मणस्तत्र कृष्णरूपं दधार ह ।
सर्वैश्च वन्दितः साधु साध्वित्याहुः सुरादयः ॥९१॥
जाल्मः कृष्णं हरिं दृष्ट्वा गायत्रीपितरौ तथा ।
दृष्ट्वा ननाम भावेन प्राह भिक्षां प्रदेहि मे ॥९२॥
बुभुक्षितोऽस्मि विप्रेन्द्रा गर्हयन्तु न मां द्विजाः ।
दीनान्धैः कृपणैः सर्वैस्तर्पितैरिष्टिरुच्यते ॥९३॥
अन्यथा स्याद्विनाशाय क्रतुर्युष्मत्कृतोऽप्ययम् ।
अन्नहीनो दहेद् राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ॥९४॥
याज्ञिकं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ।
श्रीकृष्णश्च तदा प्राह जाल्मे ददतु भोजनम् ॥९५॥
विप्राः प्राहुः खप्परं ते त्वशुद्धं विद्यते ततः ।
बहिर्निःसर दास्यामो भिक्षां पार्श्वमहानसे ॥९६॥
एतस्यामन्नशालायां भुञ्जन्ति यत्र तापसाः ।
दीनान्धाः कृपणाश्चैव तथा क्षुत्क्षामका द्विजाः ॥९७॥
अशुद्धं ते कपालं वै यज्ञभूमेर्बहिर्नय ।
गृहाणाऽन्यच्छुद्धपात्रं दूरं प्रक्षिप्य खप्परम् ॥९८॥
एवमुक्तश्च जाल्मः स रोषाच्चिक्षेप खप्परम् ।
यज्ञमण्डपमध्ये च स्वयं त्वदृश्यतां गतः ॥९९॥
सर्वेप्याश्चर्यमापन्ना विप्रा दण्डेन खप्परम् ।
चिक्षिपुस्तद्बहिस्तावद् द्वितीयं समपद्यत ॥१००॥
तस्मिन्नपि परिक्षिप्ते तृतीयं समपद्यत ।
एवं शतसहस्राणि समपद्यन्त वै तदा ॥१०१॥
परिश्रान्ता ब्राह्मणाश्च यज्ञवाटः सखप्परः ।
समन्ततस्तदा जातो हाहाकरो हि सर्वतः ॥१०२॥
ब्रह्मा वै प्रार्थयामास सन्नत्वा तां दिशं मुहुः ।
किमिदं युज्यते देव यज्ञेऽस्मिन् कर्मणः क्षतिः ॥१०३॥
तस्मात् संहर सर्वाणि कपालानि महेश्वर ।
यज्ञकर्मविलोपोऽयं मा भूत् त्वयि समागते ॥१०४॥
ततः शब्दोऽभवद् व्योम्नः पात्रं मे मेध्यमस्ति वै ।
भुक्तिपात्रं मम त्वेते कथं निन्दन्ति भूसुराः ॥१०८५॥
तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ।
यथाऽन्या देवतास्तद्वन्मन्त्रपूतं हविर्विधे ॥१०६॥
अतोऽत्र मां समुद्दिश्य विशेषाज्जातवेदसि ।
होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ॥१०७॥
ब्रह्मा प्राह तदा प्रत्युत्तरं व्योम्नि च तं प्रति ।
तव रूपाणि वै योगिन्नसंख्यानि भवन्ति हि ॥१०८॥
कपालं मण्डपे यावद् वर्तते तावदेव च ।
नात्र चमसकर्म स्यात् खप्परं पात्रमेव न ॥१०९॥
यज्ञपात्रं न तत्प्रोक्तं यतोऽशुद्धं सदा हि तत् ।
यद्रूपं यादृशं पात्रं यादृशं कर्मणः स्थलम् ॥११०॥
तादृशं तत्र योक्तव्यं नैतत्पात्रस्य योजनम् ।
मृन्मयेषु कपालेषु हविः पाच्यं क्रतौ मतम् ॥१११॥
तस्मात् कपालं दूरं वै नीयतां यत् क्रतुर्भवेत् ।
त्वया रूपं कपालिन् वै यादृशं चात्र दर्शितम् ॥११२॥
तस्य रूपस्य यज्ञेऽस्मिन् पुरोडाशेऽधिकारिता ।
भवत्वेव च भिक्षां संगृहाण तृप्तिमाप्नुहि ॥११३॥
अद्यप्रभृति यज्ञेषु पुरोडाशात्मकं द्विजैः ।
तवोद्देशेन देवेश होतव्यं शतरुद्रिकम् ॥११४॥
विशेषात् सर्वयज्ञेषु जप्यं चैव विशेषतः ।
अत्र यज्ञं समारभ्य यस्त्वा प्राक् पूजयिष्यति ॥११५॥
अविघ्नेन क्रतुस्तस्य समाप्तिं प्रव्रजिष्यति ।
एवमुक्ते तदाश्चर्यं जातं शृणु तु पद्मजे ॥११६॥
यान्यासँश्च कपालानि तानि सर्वाणि तत्क्षणम् ।
रुद्राण्यश्चान्नपूर्णा वै देव्यो जाताः सहस्रशः ॥११७॥
सर्वास्ताः पार्वतीरूपा अन्नपूर्णात्मिकाः स्त्रियः ।
भिक्षादात्र्यो विना याभिर्भिक्षा नैवोपपद्यते ॥११८॥
तावच्छ्रीशंकरश्चापि प्रहृष्टः पञ्चमस्तकः ।
यज्ञमण्डपमासाद्य संस्थितो वेदिसन्निधौ ॥११९॥
ब्राह्मणा मुनयो देवा नमश्चक्रुर्हरं तथा ।
रुद्राणीः पूजयामासुरारेभिरे क्रतुक्रियाम् ॥१२०॥
सहस्रशः क्रतौ देव्यो निषेदुः शिवयोषितः ।
शिवेन सहिताश्चान्याः कोटिशो देवयोषितः ॥१२१॥
एवं शंभुः क्रतौ भागं स्थापयामास सर्वदा ।
पठनाच्छ्रवणाच्चास्य यज्ञस्य फलमाप्नुयात् ॥१२२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा यज्ञार्थं हाटकेश्वरक्षेत्रे नागवत्यास्तीरे देवादिद्वारा ससामग्रीमण्डपादिरचना कारिता, जाल्मरूपेण शंकरागमनम्, गायत्र्या ब्राह्मणीजातीयतावृत्तान्तः, कपालानां अन्नपूर्णादेव्यात्मकत्वं, शंकरस्य यज्ञे स्थानं, चेत्यादिनिरूपणनामा नवाऽधिकपञ्चशततमोऽध्यायः ॥५०९॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP