मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| सनत्कुमार उवाच - किं त्... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्री राधाकृष्ण सहस्रनाम स्तोत्रम् - सनत्कुमार उवाच - किं त्... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessradhastotraदेवतादेवीराधास्तोत्र श्री राधाकृष्ण सहस्रनाम स्तोत्रम् Translation - भाषांतर सनत्कुमार उवाच - किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥१॥ कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच - इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥२॥ ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥३॥ ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः ॥४॥ मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥ तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥५॥ सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच - शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥६॥ प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥७॥ कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥८॥ सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥९॥ कथया मास तत्त्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥१०॥ नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥११॥ चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥१२॥ गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥१३॥ नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥१४॥ आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥१५॥ सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् । कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥१६॥ सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥१७॥ स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥१८॥ पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥१९॥ श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥२०॥ अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः ॥२१॥ गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥२२॥ अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम् ॥२३॥ नामविस्मरणं चापि नाम्न्यनादरमेव च । सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥२४॥ प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च ॥२५॥ तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥२६॥ दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥२७॥ गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनासुरविघातनम् ॥२८॥ सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥२९॥ आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥३०॥ नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥३१॥ ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥३२॥ सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः । एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥३३॥ नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच - ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥३४॥ नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥३५॥ कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥३६॥ देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥३७॥ भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥३८॥ व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३९॥ गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४०॥ बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥४१॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥४२॥ नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥४३॥ माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥४४॥ तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥४५॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥४६॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः ॥४७॥ बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥४८॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥४९॥ यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥५०॥ सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥५१॥ देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥५२॥ गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥५३॥ बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥५४॥ किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥५५॥ अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥५६॥ गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥५७॥ कृतबाहुशृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः ॥५८॥ गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥५९॥ आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥६०॥ विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥६१॥ ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥६२॥ पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥६३॥ कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥६४॥ मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥६५॥ गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥६६॥ जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः ॥६७॥ वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥६८॥ व्यंगधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥६९॥ किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥७०॥ गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥७१॥ गोपिकामार्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥७२॥ गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥७३॥ गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥७४॥ राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥७५॥ यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविजोहनः ॥७६॥ कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनी कामसञ्चयः ॥७७॥ नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः ॥७८॥ गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥७९॥ अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (orम्)। अक्रूरतापशमनो रजकायुःप्रणाशनः ॥८०॥ मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥८१॥ सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसंप्रीतः कुब्जाचन्दनलेपनः ॥८२॥ कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ ८३॥ कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥८४॥ कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥८५॥ मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥८६॥ चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥८७॥ देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥८८॥ शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥८९॥ उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥९०॥ सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥९१॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥९२॥ संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥९३॥ चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥९४॥ कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥९५॥ जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासन्धपलायितः ॥९६॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥९७॥ रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ ९८॥ रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥९९॥ रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥१००॥ शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥१०१॥ सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी ॥१०२॥ मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥१०३॥ इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥१०४॥ प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥१०५॥ द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥१०६॥ अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासन्धविदारी च धर्मनन्दनयज्ञकृत् ॥१०७॥ शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥१०८॥ रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥१०९॥ दुर्वासोभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥११०॥ पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥१११॥ श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥११२॥ महासेनजयी चैव शिवसैन्यविनाशनः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥११३॥ तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥११४॥ रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥११५॥ वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥११६॥ धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥११७॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः ॥११८॥ अशोकवनसन्नद्धः सदातिलकसङ्गतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥११९॥ भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥१२०॥ गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥१२१॥ देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥१२२॥ अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥१२३॥ षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥१२४॥ बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसङ्कटहारी च वृकासुरविनाशनः ॥१२५॥ भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥१२६॥ वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥१२७॥ राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥१२८॥ प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥१२९॥ जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥१३०॥ जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥१३१॥ नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ १३२॥ दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥१३३॥ चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥१३४॥ भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥१३५॥ वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१३६॥ श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१३७॥ वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१३८॥ भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१३९॥ नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१४०॥ गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१४१॥ महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१४२॥ पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१४३॥ शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता ॥१४४॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया ॥१४५॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥१४६॥ कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥१४७॥ कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥१४८॥ मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥१४९॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥१५०॥ दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥१५१॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥१५२॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥१५३॥ शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥१५४॥ दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥१५५॥ कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१५६॥ कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥१५७॥ कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१५८॥ कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१५९॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१६०॥ श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥१६१॥ रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१६२॥ दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१६३॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१६४॥ कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१६५॥ अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१६६॥ कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१६७॥ श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥१६८॥ अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥१६९॥ विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१७०॥ वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१७१॥ सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका ॥१७२॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१७३॥ श्रीकृष्णहृदयावासमुक्ताकनकनालि(orसि)का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१७४॥ स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशोषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१७५॥ पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१७६॥ कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१७७॥ शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥१७८॥ हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१७९॥ भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी । शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥१८०॥ कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥१८१॥ सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१८२॥ केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१८३॥ स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी । वैराजसूयजननी श्रीशा भुवनमोहिनी ॥१८४॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१८५॥ महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी ॥१८६॥ समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१८७॥ भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥१८८॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥१८९॥ सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१९०॥ विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥१९१॥ प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१९२॥ अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१९३॥ औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥१९४॥ नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१९५॥ कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१९६॥ कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१९७॥ राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता ॥१९८॥ गोपीचूडामणिर्गोपी गणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१९९॥ गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥२००॥ वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥२०१॥ श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥२०२॥ कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवांछिता । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥२०३॥ प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥२०४॥ स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥२०५॥ कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥२०६॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥२०७॥ रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥२०८॥ सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥२०९॥ निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥२१०॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥२११॥ दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥२१२॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥२१३॥ राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥२१४॥ तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥२१५॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम द्व्यशीतितमोऽध्यायः ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP