मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
मूलेवटस्य मुनिपुङ्गवसेव्य...

श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम् - मूलेवटस्य मुनिपुङ्गवसेव्य...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।
मन्दस्मितं मधुरवेषमुदारमाद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ॥ १॥
शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।
वीणापुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रांकरै- र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २॥
कर्पूरपात्रमरविन्ददळायताक्षं कर्पूरशीतलहृदं करुणाविलासम् ।
चन्द्रार्धशेखरमनन्तगुणाभिराम- मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३॥
द्युद्रोधः स्वर्णमयासनस्थं मुद्रोल्लसद्बाहुमुदारकायम् ।
सद्रोहिणीनाथकळावतंसं भद्रोदधिं कञ्चन चिन्तयामः ॥ ४॥
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।
पिङ्गाक्षं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम् भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५॥
श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे ॥ ६॥
कपर्दिनं चन्द्रकळावतंसं त्रिणेत्रमिन्दुपतिमाननोज्वलम् ।
चतुर्भुजं ज्ञानदमक्षसूत्र- पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७॥
वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमधो कुंभं सुधापूरितं मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालां भजे ॥ ८॥
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् । कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९॥
॥ इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रं संपूर्णम् ॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP