मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीमान् वेङ्कटनिथार्यः क...

श्रीदेशिकमङ्गलम् - श्रीमान् वेङ्कटनिथार्यः क...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीमान् वेङ्कटनिथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥१॥
श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम् ।
विश्वामित्रकुलोद्भूतं वरदार्यमहंभजे ॥२॥
सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम् ।
वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गलम् ॥३॥
नभस्य मासि श्रोणायां अवतीर्णाय सूरये ।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥४॥
पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः ।
पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥५॥
वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् ।
यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥६॥
श्रीभाष्यकारः पन्थानं आत्मना दर्शितं पुनः ।
उद्धर्तुमागतो नूनं इत्युक्तायास्स्तु मङ्गलम् ॥७॥
यो बाल्ये व रदार्यस्य प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम् ॥८॥
रामानुजार्यादात्रेयात् मातुलात्सकला कलाः ।
अवाप विंशत्यब्दे यः तस्मै प्राज्ञाय मङ्गलम् ॥९॥
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥१०॥
सांस्कृतीभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान्
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥११॥
यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने ।
क्रयणीयदशां प्राप्तः तस्मै भव्याय मङ्गलम् ॥१२॥
यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः ।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥१३॥
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च ।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥१४॥
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम् ।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गलभाजनम् ॥१५॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP