मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
लीलालब्धस्थापितलुप्ताखिलल...

गौरीदशकम् - लीलालब्धस्थापितलुप्ताखिलल...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१॥

अशापाशक्लेशविनाशं विदधानां
पादांभोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥२॥

नानाकारैश्शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥३॥

मूलाधारादुत्थितरीत्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलितांगीम् ।
येयं सूक्ष्मात् सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥४॥

यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत् क्वापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥५॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुमध्यां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥६॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्रार्चितपादांबुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥७॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तडिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥८॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं राजतशैले विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥९॥

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरेण च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१०॥

प्रातःकाले भावविशुद्धिं विदधानो
भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमुच्चैश्शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥११॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP