मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
पुरे पौरान्पश्यन्नरयुवतिन...

जीवन्मुक्तानन्दलहरी - पुरे पौरान्पश्यन्नरयुवतिन...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान्
सुवेशान्स्वर्नालंकरणकलितांश्चित्रसदृशान् ।
स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१॥
वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान्
घनच्छायाच्छन्नान्बहुलकलकूजदद्दिजगणान ।
भजन्घस्त्रे रात्राववनितलतल्पैकशयनो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥२॥
कदाचित्प्रासादे क्वचिदपि च सौधे च धवले
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवरानामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥३॥
क्वचिद्‌बालैः सार्धं करतलजतालैश्च हसितैः
क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन् ।
क्वचिद्‌ ऋद्धैश्चिन्ताकुलितह्रदयैश्चाऽपि विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥४॥
कदाचिद्दिद्दद्भिर्विविदिषुभिरत्यन्तनिरतैः
कदाचित्काव्यालंकृतिरसरसालैः कविवरैः ।
कदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरैर्‌
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥५॥
कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः
सुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलैः ।
प्रकुर्वन् देवस्य प्रमुदितमनाः संस्तुतिपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥६॥
शिवायाः शम्भोर्वा क्वचिदपि विष्णोरपि कदा
गणाध्यक्षस्याऽपि प्रकटतपनस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसलिलो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥७॥
कदा गङ्गाम्भोभिः क्वचिदपि कूपोत्थितजलैः
क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन् स्नानं भूत्या क्वचिदप च कर्पूरनिभया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥८॥
कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन्
कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥९॥
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः
क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःशङ्‌कः सुजनह्रदयानन्दजनको
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१०॥
कदाचित्सत्त्वस्थः क्वचिदपिरजोवृत्तियुगत-
स्तमोवृत्तिः क्वऽपि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥११॥
कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः
कदाचित्स्वानन्दे हसति रभसा त्यक्तवचनः ।
कदाचिल्लोकानां व्यवह्रतिसमालोकनपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१२॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्
क्षिपंस्तासा क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।
तदद्वैतं रुपं निजपरविहीनं प्रकटयन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१३॥
क्वचिच्छैवैः सार्ध्म क्वचिदपि च शाक्तैः सह रमन्
कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदाचिद्‌गाणेशैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१४॥
निराकारं क्वापि क्वचिदपि च साकारममलं
निजं शैवं रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्य्म पश्यन् किमिदमिति ह्रष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१५॥
कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
महावाक्यार्थानामवगतिसमभ्यासवशतः ।
गतद्वैताभासः शिव शिव शिवेत्येव विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥१६॥
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा
सुधापाङ्‍गावाप्यां सहजसुखवाप्यामनुदिनम् ।
मुहुर्मज्जन् मज्जन् भजति सुकृतैश्चेन्नरवर-
स्तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥१७॥
मौने मौनी गुणिनि गुणवान् पण्डिते पण्डितश्च
दीने दीनः सुखिनि सुखवान भोगिनि प्राप्तभोगः
मूर्खे मूर्खो युवतिषु युवा वाग्मिनि प्रौढवाग्मी
धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः ॥१८॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP