मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
शंखं चक्रं गदाम् च क्षयित...

श्रीवेङ्कटेशस्तोत्रम् - शंखं चक्रं गदाम् च क्षयित...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


शंखं चक्रं गदाम् च क्षयितरिपुमदां शार्ङ्गमप्यंबुजं च
बिभ्राणं हस्तपद्मैः मुनिवर दिव्यैर्भक्तितोष्टूयमाणम् ।
वेदोघैः मूर्तिमद्भिः विनुतगुणगणं श्रीवराहपुरीशम्
श्रीनारायणतिर्थविप्रवन्दितपदं श्रीवेङ्कटेशं भजे ॥१॥
परितुष्टरमाहृदयं सदयं मृतिजन्मजराशमनं गमनं
शरणागतभीतिहरं दहरं प्रणमामि वराहपुरिराजम् ॥२॥
कारुण्याम्भोधिमाद्यं कमलभवनुतं नारदादीड्यमानं
नानाम्नायान्तसूक्तैरपि भृशमनभिज्ञेयमानस्वरूपम् ।
वन्दे सर्वोत्तमं चाखिलजगदुदयस्थित्यपायादिहेतुं
श्री वाराहाग्रहारस्थितममितदयं वेङ्कटेशं हरिं तम् ॥३॥
ओंकारान्तर्विलसदमलस्वीयदिव्यस्वरूपं
लोकाधारं शमधनमुनिस्वान्तपाथोजभृङ्गं ।
भक्तिप्रह्वाश्रितजनमनोभीष्टदानामरद्रुं
श्री वाराहाभिधपुरगतं नौमि तं वेङ्कटेशम् ॥४॥
भक्तानां सुरपादपस्सुमनसां सौभाग्यसीमावधिः
दैत्यानां प्रलयान्तको व्रजवधूबृन्दस्य पुष्पाशुगः ।
वृष्णीनां व्रजपालको वरमुनिव्रातस्य तप्तं तपः
विप्राणां वराहपुरे तु वसतां भाग्यं हरिः पातु वः ॥५॥
लक्ष्मीपते गरुडवाहन शेषशायिन् वैकुण्ठवास वसुधाधिप वासुदेव ।
यज्ञेश यज्ञमय यज्ञभुगादि देव पाहि प्रभो श्री वराहपुरि वेङ्कटेश ॥६॥
योगीश शाश्वत शरण्य भवाब्धिपोत त्रय्यन्तवेद्य करुणाकर दीनबन्धो
श्रीकान्त यादवकुलाब्धिशशाङ्क कृष्ण पाहि प्रभो श्री वराहपुरि वेङ्कटेश ॥७॥
सच्चिदानन्दरूपाय परमानन्दरूपिणे ।
नमो वेङ्कटनाथाय वराहपुरिवासिने ॥८॥
सर्वलोकशरण्याय सर्वलोकनिवासिने ।
सर्वदेवादिदेवाय वेङ्कटेशाय वै नमः ॥९॥
नमो वराहव्याजेन दिव्यदर्शनदायिने
भक्तसंरक्षणायात्र वासिने वेङ्कटेश ते ॥१०॥
सर्वसंपत्करं सर्वदुरितक्षयकारकं
सर्वव्याधिहरं चैव पुत्रभाग्यादिदायकम् ॥११॥
सर्वाभीष्टप्रदं चैव मोक्षसाम्राज्यदायकम् ।
कोटिजन्मकृतं पापं व्यपोहति न संशयः ॥१२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP