मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
माणिक्यान्ञ्चितभूषणां मणि...

ज्ञानप्रसूनाम्बिकास्तोत्र - माणिक्यान्ञ्चितभूषणां मणि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


माणिक्यान्ञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥१॥

श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षॊगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥२॥

कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥३॥

भवातीत मनःप्रभावभरितां ब्रह्माण्डभाण्डॊदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षॆत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥४॥

वीणागानविनॊदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शंकरीम् ।
विद्वेषिण्यरिभञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥५॥

नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचंचलघाटिका कलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥६॥

मन्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारदुममञ्जरीमधुझरी माधुर्यखॆलत्गिराम् ।
मातंगीं मधुरालसां करशुकां नीलालकालंकृतां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥७॥

कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भॊजासनवासवादिविनुतां अर्द्धॆन्दुभूषॊज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥८॥

कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासॊज्ज्वलां
गंगावर्तसमाननाभिकुहरां गांगेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥९॥

बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥१०॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP