मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
सकृच्छ्रवणमात्रेण ब्रह्मज...

ब्रह्मज्ञानावलीमाला - सकृच्छ्रवणमात्रेण ब्रह्मज...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत ।
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥१॥
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥२॥
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥३॥
नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः
परमानन्दरूपोऽहमहमेवाहमव्ययः ॥४॥
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥५॥
प्रत्यकचैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥६॥
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।
मायातीतः परं ज्योतिरहमेवाहमव्ययः ॥७॥
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः ।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥८॥
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥९॥
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।
अनन्तानन्दरूपोऽहमहमेवाहमव्ययः ॥१०॥
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।
परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥११॥
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥१२॥
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।
सर्वासाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥१३॥
प्रज्ञानघन एवाहं विज्ञानघन एव च ।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥१४॥
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥१५॥
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।
अवस्थात्रयसाक्ष्यस्मि ह्यहमेवाहमव्ययः ॥१६॥
दृग्दृश्यौ द्दौ पदार्थो स्तः परस्परविलक्षणौ ॥
दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥१७॥
अहं साक्षीति यो विद्याद्दिविच्यैवं पुनः पुनः ।
स एव मुक्तः सन् विद्दानिति वेदान्तडिण्डिमः ॥१८॥
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तद्वद्‌ ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥१९॥
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥२०॥
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥२१॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP