मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
इत्थं दानवेन्द्रः हिरण्यक...

श्री नृसिंहावतारचूर्णिका - इत्थं दानवेन्द्रः हिरण्यक...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

इत्थं दानवेन्द्रः हिरण्यकशिपुः परिगृह्यमाणवैरः,वैरानुबन्धजाज्वल्यमानरोषानलः, रोषानलजंघन्यमानविज्ञानविनयः,विनयगांभीर्यजेगीयमानहृदयः, हृदयचाञ्चल्यमानतामसः, तामसगुणचंक्रमाणस्थैर्यो भूत्वा,विस्रंभेण हुंकृत्य, बालं प्रह्लादं परमभागवतं धिक्कृत्य
भगवन्तं श्रियःपतिं अस्मिन् स्तंभे दर्शयेति,कनत्कनकमयकंकण क्रेङ्कारशब्दपूर्वकं दिग्दन्तिदन्तभेदनपाटवप्रशस्तेन हस्तेन सभामण्डपस्तंभे प्रताडिते, प्रक्षुभित
परिविदलितदशदिगन्तात् तन्महास्तंभात्बंभज्यमानात्, प्रोद्भूतैः जंजन्यमानैः,
प्रलयवेलासंभूतसप्तस्कन्धबन्धुरसमीरणसंघटितघोररजोघुष्यमा-ण महाबलाहकवर्गनिर्गत-
निबिडनिष्ठुर दुस्सहनिर्घातसंघ निघोषनिकाशच्छटच्छट स्फटस्फटद्ध्वनिप्रमुखभयंकरारवपुञ्जैः
परिव्याप्तैः निरवकाशं आकाशकुहरान्तरालेषु परिपूरितेषु, प्रक्षुभितप्रकंपितस्वस्वस्थानतया परवशैः नितान्तदोधूयमानहृदयैः पितामहमहेन्द्रवरुणवायुशिखिमुखचराचरजन्तुजालैस्सह ब्रह्माण्डकटाहेषु
परिस्फोटितेषु, भगवान् श्रियः पतिः श्रीमन्नारायणः, भक्तानामभयंकरः, दुष्टनिग्रहशिष्टपरिपालनक्षमः, शरणागतवत्सलः, प्रफुल्लपद्मयुगलसङ्काशभास्वरचक्रचापहलकुलिशजलचररेखाङ्कितचारुचरणतलः,
चरणचंक्रमणघनविनमितविश्वविश्वंभराभारधौरेय दिक्कुंभिकुंभिनसकुंभिनीधरकूर्मकुलशेखरः, जलराशिजातशुण्डालशुण्डादण्डमण्डितप्रकाण्डप्रचण्डमहोरुस्तंभ-युगलः,
घणघणायमानमणिकिंकिणीकणमुखरितमेखलावलयवलयित-पीतांबर-
परिशोभितकटिप्रदेशः,निर्जरनिम्नगावर्तवर्तुलकमलाकरगंभीरनाभिविवरः,
कुलाचलसानुभागसदृशकर्कशविशालवक्षस्थलः, दुर्जनदनुजधैर्यलतिकालवित्रायमाण-
रक्षोराजवक्षोभागविशंकटक्षेत्रविलेखनचङ्गलाङ्गलायमान-शरणागतनयनचकोरचन्द्ररेखायमाण-
वज्रायुधप्रतिमानभासमाननिशातनखरतरमुखनखरः,शंखचक्रगदाखड्गकुन्ततोमरप्रमुखनानायुधः,
महितमहोत्तुङ्गमहीधरशृङ्गसन्निभः, वीरसागरवेलायमानमालिकाविराजमानः,
निरर्गलानेकशतभुजार्गलः, मञ्जुमञ्जीरमणिपुञ्जरञ्जितमञ्जुलहारकेयूरकङ्कणकिरीट-
मकरकुण्डलादिभूषणभूषितः, त्रिवलियुतशिखरिशिखराभपरिणद्धबन्धुरकन्धरः, प्रकंपनकंपित-
पारिजातपादपपल्लवप्रतीकाशकोपावेशसञ्चलिताधरः, शरत्कालमेघजालमध्यधगद्धगायमान-तटिल्लतासमानदेदीप्यमानदंष्ट्राङ्कुरः, कल्पान्तकालसकलभुवनग्रसनविलसनविजृंभमाण-
सप्तजिह्वजिह्वातुलिततरलतरायमाणविभ्राजमानजिह्वः, मेरुमन्दरमहागुहान्तरालविस्तार-
विपुलवक्त्रनासिकारंध्रः नासिकारंध्रनिस्सरन्निबिडनिश्वासनिकरसंघट्टनसंक्षोभित-
सन्तप्यमानसप्तसागरः, पूर्वपर्वतविद्योतमानखद्योतमण्डलसदृक्षसमञ्चितलोचनः,
लोचनाञ्चलसमुत्कीर्यमाणविलोलकीलाभीलविस्फुलिंगवितान-
रोरुध्यमानतारकाग्रहमण्डलः, शक्रचापसुरुचिरादभ्रमहाभ्रूलताबन्धबन्धुरभयंकरवदनः,
घनतरगण्डशैलतुल्यकमनीयगण्डभागः, सन्ध्यारागरक्तधाराधरमालिकाप्रतिम-
महाभ्रङ्कषतन्तन्यमानपटुतरसटाजालः, सटाजालसञ्चालसञ्जातवाताहति-
डोलायमानवैमानिकविमानः, निष्कंपितशंखवर्णमहोर्ध्वकर्णः, मन्थदण्डायमान-
मन्दरवसुन्धराधरपरिभ्रमणवेगसमुत्पद्यमानवियन्मण्डलमण्डितसुधाराशिकल्लोल-
शीकराकारभासुरकेसरः, पर्वाखर्वशिशिरकिरणमयूखगौरतनूरुहः, निजगर्जानिनद-
निर्दलितकुमुदसुप्रतीकवामनैरावणसार्वभौमप्रमुखदिगिभराजकर्णकॊटरः,
धवलधराधरदीर्घदुरवलोकनीयदिव्यदेहः, देहप्रभापटलनिर्मथ्यमानपरिपन्थियातुधान-
निकुरुंबगर्वान्धकारः, प्रह्लादहिरण्यकशिपुरञ्जनभञ्जननिमित्तान्तरंगबहिरंगजेगीयमानकरुणावीररससंयुतः, महाप्रभावः, श्रीनारायणनरसिंहः, नारायणवीरसिंहः,
नारायणक्रूरसिंहः, नारायणदिव्यसिंहः, नारायणव्याघ्रसिंहः, नारायणपुच्छसिंहः,
नारायणपूर्णसिंहः, नारायणरौद्रसिंहः, भीषणभद्रसिंहः, विह्वलनेत्रसिंहः, बृंहितभूतसिंहः,
निर्मलचित्रसिंहः, निर्ज्जितकालसिंहः, कल्पितकल्पसिंहः, कामदकामसिंहः,
भुवनैकपूर्णसिंहः, कालाग्निरुद्रसिंहः, अनन्तसिंहराजसिंहः, जयसिंहरूपसिंहः,
नरसिंहरूपसिंहः, रणसिंहरूपसिंहः, महासिंहरूपसिंहः, अभयंकररूपसिंहः,
हिरण्यकशिपुहारिसिंहः, प्रह्लादवरदसिंहः, भक्ताभीष्टदायिसिंहः, लक्ष्मीनृसिंहरूपसिंहः
अत्यद्भुतरूपसिंहः, श्रीनृसिंहदेवः आत्मनस्सकलभुवनव्याप्तिं निजभृत्यभाषितं
च सत्यं विधातुं, प्रपन्नरक्षणाय परिस्फोटिततन्महास्तंभे पर्यदृश्यत, पर्यदृश्यत ॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP