मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
गौरीं काञ्चनपद्मिनीतटगृहा...

मीनाक्षीनवरत्नमालास्तोत्रम् - गौरीं काञ्चनपद्मिनीतटगृहा...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां
नीपारण्यसुवर्णकन्दुकपरिक्रीडाविलोलामुमाम् ।
श्रीमद्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥१॥
गौरीं वेदकदंबकाननशुकीं शास्त्राटवीकेकिनीं
वेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीम् ।
ओंकाराम्बुजनीलिमात्तमधुपां मन्त्राम्रशाखापिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥२॥
गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणीरसज्जङ्घिकां
रत्नादर्शसमानजानुयुगलां रम्भानिभोरुद्वयाम् ।
काञ्चीबद्धमनोज्ञपीनजघनामावर्तनाभिह्रदां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥३
गौरीं व्योमसमानमध्यमयुतामुत्तुङ्गवक्षोरुहां
वीणामञ्जुलनालिकान्वितकरां संगोल्लसत्सुन्दराम् ।
लाक्षाकर्दमशोभिपादयुगलां सिन्दूरसीमन्तिनीम्
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥४॥
गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतां
बिम्बोष्ठीं जितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलाम् ।
अर्धेन्दुप्रतिबिम्बफालरुचिरामादर्शगण्डस्थलां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥५॥
गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भोज्ज्वलां
कस्तूरीतिलकालिकां मलयजालेपोल्लसत्कन्धराम् ।
राकाचन्द्रसमानचारुवदनां लोलम्बनीलालकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥६॥
गौरीं काञ्चनकङ्कणांगदधरां नासालसन्मौक्तिकां
मञ्जीराङ्गुलिमुद्रिकां कटकग्रैवेयकालङ्कृताम् ।
मुक्ताहारकिरीटरत्नविलसत्ताटङ्ककान्त्यायुतां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥७॥
गौरीं चंपकमल्लिकासुकुसुमैः पुन्नागसौगन्धिकैः
द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुताम् ।
मन्दारोत्पलकेतकीसुकुसुमश्रेणीलसद्वेणिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥८॥
गौरीं दाडिमपुष्पवर्णविलसद्दिव्याम्बरालंकृतां
चन्द्रांशूपमचारुचामरकरश्रीभारतीसेविताम् ।
नानारत्नसुवर्णदण्डविलसन्मुक्तातपत्रोज्ज्वलाम्
मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥९॥
वाचा वा मनसापि वा गिरिसुते कायेन वा सन्ततं
मीनाक्षीति कदाचिदम्ब कुरुते त्वन्नामसङ्कीर्तनम् ।
लक्ष्मीस्तस्यगृहे वसत्यनुदिनं वाणी च वक्त्राम्बुजे
धर्माद्यर्थचतुष्टयं करतलप्राप्तं भवेन्निश्चयम् ॥१०॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP