मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
कल्लोलोल्लसितामृताब्धिलहर...

श्रीमंत्रमातृकापुष्पमालास्तवः - कल्लोलोल्लसितामृताब्धिलहर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


कल्लोलोल्लसितामृताब्धिलहरीमध्येविराजन्मणि-
द्वीपे कल्पकवाटिका परिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्न विनिर्मितं जननि ते सिंहासनं भावये ॥१॥

एणाङ्कानलभानुमण्डललसत् श्रीचक्रमध्येस्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥२॥

ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिश्वे तदखिलं सन्तुष्टये कल्पताम् ॥३॥

लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयांबु पटीरकुङ्कुमलसत् कर्पूरमिश्रोदकैः ।
गॊक्षीरैरपि नारिकेलसलिलैः शुद्धॊदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥४॥

ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् ।
मुक्तासन्तति यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥६॥

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरॆ हेमाङ्गदे कङ्कणे ।
मंजीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ कञ्चीमपि स्वीकुरु ॥७॥

सर्वान्ङ्गे घनसारकुङ्कुमलसत् श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥८॥

कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहैः
जातीचंपकमालतीवकुलकैः मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजोमालिकाः
सङ्कल्पॆन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥९॥

हन्तारं मदनस्य नन्दयसियैरङ्गैरनंगोज्ज्वलैः
यैर्भृङ्गावलिनीलकुन्तलभरैः बद्ध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुकृतैः धूपैरहं धूपये ॥१०॥

लक्षीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैः गव्यैर्घृतैवर्धितैः
दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥११॥

ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
शाल्यन्नं मधुशर्करादधियुतं माणिक्यपात्रेस्थितम्
माषापूपसहस्रमम्बसफलं नैवेद्यमावेदये ॥१२॥

सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैर्सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैः वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१३॥

कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रॆ मौक्तिकचित्रपंक्तिविलसत् कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भॊरुहम्
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥१४॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसात्
इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागवद्
भावैराङ्गिकसात्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥१५॥

ह्रीङ्कारत्रयसंपुटेन मनुनॊपास्ये त्रयीमौलिभिर्-
वाक्यैर्लक्ष्यतनॊ तवस्तुतिविधौ कॊ वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तुते
संवेशॊ नमनः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥१६॥

श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्तांभोरुहमण्डपे गिरिसुता नृत्तं विधत्ते रसात्
वाणी वक्त्र सरोरुहे जलधिजा गेहे जगन्मङ्गला ॥१७॥

इति गिरिवरपुत्री पादरजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान् मातृकापुष्पमाला ॥१८॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP