मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
कार्तवीर्यार्जुनो नाम राज...

कार्तवीर्य द्वादशनाम स्तोत्रम् - कार्तवीर्यार्जुनो नाम राज...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥१॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।  सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥२॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥३॥
संपदस्तत्र जायन्ते जनस्तत्र वशं गतः । आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥४॥
सहस्रबाहुसशरं महितं सचापं रक्तांबरं रक्तकिरीटकुण्डलम् ।
चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृंभित-कार्तवीर्यम् ॥५॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् । यन्नामानि "महावीर्यश्चार्जुनः कृतवीर्यवान्"॥६॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् । वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥७॥
 ॥इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः । यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली । सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥१॥
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥२॥
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः । संपदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥३॥
॥इति कार्तवीर्य द्वादशनाम स्तोत्रम् संपूर्णम् ॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP