मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| वेदपादस्तवं वक्ष्ये देव्य... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... त्रिपुरसुन्दरीवेदपादस्तोत्रम् - वेदपादस्तवं वक्ष्ये देव्य... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : devigoddessstotraदेवीस्तोत्र त्रिपुरसुन्दरीवेदपादस्तोत्रम् Translation - भाषांतर वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥ अकारादिक्षकारान्तवर्णावयवशालिनी ।वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥मन्दा निन्दालोलुपाऽहं स्वभावात्एतत्स्तोत्रं पूर्यते किं मयेति ।मा ते भीतिर्हे मते त्वादृशानाम्एषा नेत्री राधसा सूनृतानाम् ॥६॥तरङ्गभृकुटीकोटिभङ्ग्या तर्जयते जराम् ।सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः)विनिर्मितं रोपितरत्नशृङ्गम् ।भजे भवानीभवनावतंसम्आदित्यवर्णं तमसः परस्तात् ॥१२॥मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥पर्यङ्कतल्पोपरि दर्शनीयंसबाणचापाङ्कुशपाशपाणिम् ।अशेषभूषारमणीयमीडेत्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥जटारुणं चन्द्रकलाललामम्उद्वेललावण्यकलाभिरामम् ।कामेश्वरं कामशरासनाङ्कंसमस्तसाक्षिं तमसः परस्तात् ॥१७॥तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥शिवे नमन्निर्जरकुञ्जरासुर-प्रतोलिकामौलिमरीचिवीचिभिः ।इदं तव क्षालनजातसौभगंचरणं नो लोके सुधितां दधातु ॥२०॥कल्पस्यादौ कारणेशानपि त्रीन्स्रष्टुं देवि त्रीन्गुणानादधानाम् ।सेवे नित्यं श्रेयसे भूयसे त्वाम्अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥केशोद्भूतैरद्भुतामोदपूरैःआशाबृन्दं सान्द्रमापूरयन्तीम् ।त्वामानम्य त्वत्प्रसादात्स्वयंभूःअस्मान्मायी सृजते विश्वमेतत् ॥२२॥अर्धोन्मीलद्यौवनोद्दामदर्पांदिव्याकल्पैरर्पयन्तीं मयूखान् ।देवि ध्यात्वा त्वां पुरा कैटभारिःविश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥ कह्लारश्रीमञ्जरीपुञ्जरीतिंधिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्इन्द्रो राजा जगतो य ईशे ॥२४॥देवतान्तरमन्त्रौघजपश्रीफलभूतया ।जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥अन्तेवासिन्नस्ति चेत्ते मुमुक्षावक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपांश्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥शान्तो दान्तो देशिकेन्द्रं प्रणम्यतस्यादेशात्तारकं मन्त्रतत्त्वम् ।जानीते चेदम्ब धन्यः समानंनातः परं वेदितव्यं हि किञ्चित् ॥२९॥त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥परागमद्रीन्द्रसुते तवाङ्घ्रि-सरोजयोरम्ब दधामि मूर्ध्ना ।अलंकृतं वेद(/देव)वधूशिरोभि-र्यतो जातो भुवनानि विश्वा ॥३१॥दुष्टान् दैत्यान् हन्तुकामां महर्षीन्शिष्टानन्यान् पातुकामां कराब्जैः ।अष्टाभिस्त्वां सायुधैर्भासमानांदुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥नाहं मन्ये दैवतं मान्यमन्यत्त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।ये ध्यातारो भक्तिसंशुद्धचित्ताःपरामृतात् परिमुच्यन्ति सर्वे ॥३४॥कुर्वाणोऽपि दुरारम्भान्तव नामानि शांभवि ।प्रजपन्नेति मायान्तम्अतिमृत्युं तराम्यहम् ॥३५॥कल्याणि त्वं कुन्दहासप्रकाशैःअन्तर्ध्वान्तं नाशयन्ती क्षणेन ।हन्तास्माकं ध्यायतां त्वत्पदाब्जम्उच्चतिष्ठ महते सौभगाय ॥३६॥तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥श्रीचक्रस्थां शाश्वतैश्वर्यदात्रींपौण्ड्रं चापं पुष्पबाणान्दधानाम् ।बन्धूकाभां भावयामि त्रिनेत्रांतामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥नो वा यागैर्नैव पूर्तादिकृत्यैःनो वा जप्यैर्नो महद्भिस्तपोभिः ।नो वा योगैः क्लेशकृद्भिः सुमेधानिचाय्येमां शान्तिमत्यन्तमेति ॥४२॥प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥बन्धूकाभैर्भानुभिर्भासयन्तीविश्वं शश्वत्तुङ्गपीनस्तनार्धा ।लावण्याब्धे सुन्दरि त्वं प्रसादाद्आयुः प्रजां रयिमस्मासु धेहि ॥४४॥कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥वाग्देवीति त्वां वदन्त्यम्ब केचित्लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।शश्वन्मातः प्रत्यगद्वैतरूपांशंसन्ति केचिन्निविदो जनाः ॥४६॥ललितेति सुधापूरमाधुरीचोरमम्बिके ।तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥ये संपन्नाः साधनैस्तैश्चतुर्भिःशुश्रूषाभिर्देशिकं प्रीणयन्ति ।सम्यग् विद्वान् शुद्धसत्त्वान्तराणांतेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥जगत्पवित्रि मामिकाम्अपाहराशु दुर्ज्जराम् ।प्रसीद मे दयाधुनेप्रशस्तिमम्ब नस्कृधि ॥५०॥कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जनः ॥५२॥रे रे चित्त त्वं वृथा शोकसिन्धौमज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।देव्याः पादौ पूजयैकाक्षरेणतत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥तामेवाद्यां ब्रह्मविद्यामुपासेमूर्तैर्वेदैः स्तूयमानां भवानीम् ।हन्त स्वात्मत्त्वेन यां मुक्तिकामोमत्वा धीरो हर्षशोकौ जहाति ॥५५॥शरणं करवाण्यम्ब चरणं तव सुन्दरि ।शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥रत्नच्छत्रैश्चामरैर्दर्पणाद्यैःचक्रेशानीं सर्वदोपचारयन्त्यः ।योगिन्योऽन्याः शक्तयश्चाणिमाद्याःयूयं पात स्वस्तिभिः सदा नः ॥५७॥दरिद्रं मां विजानीहिसर्वज्ञासि यतः शिवे ।दूरीकृत्याशु दुरितम्अथ नो वर्धया रयिम् ॥५८॥महेश्वरि महामन्त्रकूटत्रयकलेबरे ।कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥मूलाधारादूर्ध्वमन्तश्चरन्तींभित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।पश्यन्तस्त्वां ये च तृप्तिं लभन्तेतेषां शान्तिः शाश्वती नेतरेषाम् ॥६०॥मह्यं द्रुह्यन्ति ये मातःत्वद्ध्यानासक्तचेतसे ।तानंब सायकैरेभिःअव ब्रह्मद्विषो जहि ॥६१॥त्वद्भक्तानामम्ब शान्तैषणानांब्रह्मिष्ठानां दृष्टिपातेन पूतः ।पापीयानप्यावृतः स्वर्वधूभिःशोकातिगो मोदते स्वर्गलोके ॥६२॥सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥विद्वन्मुख्यैः विद्रुमाभं विशाल-श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद्विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥चक्षुःप्रेङ्खत्प्रेमकारुण्यधारांहंसज्योत्स्नापूरहृष्यच्चकोराम् ।यामाश्लिष्यन्मोदते देवदेवःसा नो देवी सुहवा शर्म यच्छतु ॥६६॥मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥का मे भीतिः का क्षतिः किं दुरापंकामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।तत्त्वातीतामच्युतानन्ददात्रींदेवीमहं निर्ऋतिं वन्दमानः ॥६८॥चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥कुर्वे गर्वेणापचारानपारान्यद्यप्यम्ब त्वत्पदाब्जं तथापि ।मन्ये धन्ये देवि विद्यावलम्बंमातेव पुत्रं बिभृतास्वेनम् ॥७२॥यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥चक्रं सेवे तावकं सर्वसिद्ध्यैश्रीमन्मातः सिद्धयश्चाणिमाद्याः ।नित्या मुद्रा शक्तयश्चाङ्गदेव्योयस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥विद्युद्वल्लीकन्दलीं कल्पयन्तींमूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।ध्यायन् हि त्वां जायते सार्वभौमोविश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥सिन्दूराभैस्सुन्दरैरंशुबृन्दैःलाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।हेरम्बाम्ब त्वां हृदा लंबते यःतस्मै विशः स्वयमेवानमन्ते ॥७८॥तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥कण्ठात्कुण्डलिनीं नीत्वासहस्रारं शिवे तव ।न पुनर्जायते गर्भेसुमेधा अमृतोक्षितः ॥८०॥त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥कदा वसुदलोपेते त्रिकोणनवकान्विते ।आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥ह्रीमित्येकं तावकं वाचकार्णंयज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।को वायं स्यात्कामकामस्त्रिलोक्यांसर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥नाकस्त्रीणां किन्नरीणां नृपाणाम्अप्याकर्षि चेतसा चिन्तनीयम् ।त्वत्पाणिस्थं कुङ्कुमाभं शिवे यंद्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥त्रिकलाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्वाचा याचे नाहमम्ब त्वदन्यम् ।तस्मादस्मद्वाञ्छितं पूरयैतद्उषासानक्ता सुदुघेव धेनुः ॥८८॥यो वा यद्यत्कामनाकृष्टचित्तःस्तुत्वोपास्ते देवि ते चक्रविद्याम् ।कल्याणानामालयः कालयोगात्तं तं लोकं जयते तांश्च कामान् ॥८९॥साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥हस्ताम्भोजप्रोल्लसच्चामराभ्यांश्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् ।श्रीसाम्राज्ञि त्वां सदालोकयेयंसदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥इष्टानिष्टप्राप्तिविच्छित्तिहेतुःस्तोतुं वाचां कॢप्तिरित्येव मन्ये ।त्वद्रूपं हि स्वानुभूत्यैकवेद्यंन चक्षुषा गृह्यते नापि वाचा ॥९२॥हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥यस्ते राकाचन्द्रबिम्बासनस्थांपीयूषाब्धिं कल्पयन्तीं मयूखैः ।मूर्त्तिं भक्त्या ध्यायते हृत्सरोजेन तस्य रोगो न जरा न मृत्युः ॥९४॥तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्तेमौलिश्रेण्या भूभुजस्तं नमन्ति ।यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?)तं धीरासः कवय उन्नयन्ति ॥९५॥वैरिञ्चौघैर्विष्णुरुद्रेन्द्रबृन्दैःदुर्गाकालीभैरवीशक्तिसङ्घैः ।यन्त्रेशि त्वं वर्तसे स्तूयमानान तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥भूत्यै भवानि त्वां वन्देसुराः शतमखादयः ।त्वामानम्य समृद्धाः स्युःआ ये धामानि दिव्यानि ॥९७॥पुष्पवत्फुल्लताटङ्कांप्रातरादित्यपाटलाम् ।यस्त्वामन्तः स्मरत्यम्बतस्य देवा असन्वशे ॥९८॥वश्ये विद्रुमसङ्काशांविद्यायां विशदप्रभाम् ।त्वामम्ब भावयेद्भूत्यैसुवर्णां हेममालिनीम् ॥९९॥वामाङ्कगस्थामीशितुर्दीप्यमानांभूषाबृन्दैरिन्दुरेखावतंसाम् ।यस्त्वां पश्यन् सन्ततं नैव तृप्तःतस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥नवनीपवनीवासलालसोत्तममानसे ।शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥भक्त्याऽभक्त्या वापि पद्यावसान-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।तस्य क्षिप्रं त्वत्प्रसादेन मातःसत्याः सन्तु यजमानस्य कामाः ॥१०२॥बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥माधुरीसौरभावासचापसायकधारिणीम् ।देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥यः पठति स्तुतिमेतांविद्यावन्तं तमम्ब धनवन्तम् ।कुरु देवि यशस्वन्तंवर्चस्वन्तं मनुष्येषु ॥१०६॥ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।तेभ्यो देहि श्रियं विद्यामुद्वर्चम् उत्तनूबलम् ॥१०७॥त्वामेवाहं स्तौमि नित्यं प्रणौमिश्रीविद्येशां वच्मि सञ्चिन्तयामि ।अध्यास्ते या विश्वमाता विराजोहृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥शङ्करेण रचितं स्तवोत्तमंयः पठेज्जगति भक्तिमान्नरः ।तस्य सिद्धिरतुला भवेद्ध्रुवासुन्दरी च सततं प्रसीदति ॥१०९॥यत्रैव यत्रैव मनो मदीयंतत्रैव तत्रैव तव स्वरूपम् ।यत्रैव यत्रैव शिरो मदीयंतत्रैव तत्रैव पदद्वयं ते ॥११०॥॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम्॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP