मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ॐमित्येतद्यस्य बुधैर्नाम ...

दक्षिणामूर्तिवर्णमालास्तोत्रम् - ॐमित्येतद्यस्य बुधैर्नाम ...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


ॐमित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १॥
नम्राङ्गाणां भक्तिमतां यः पुरुषार्था- न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २॥
मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३॥
भद्रारूढं भद्रदमाराधयितृणां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४॥
गर्भान्तःस्थाः प्राणिन एते भवपाश- च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५॥
वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा- द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवेन्तेऽध्यासीनमनन्तं वटमूलं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६॥
तेजःस्तोमैरङ्गदसंघट्टितभास्व- न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।
तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७॥
दध्याज्यादिद्रव्यककर्माण्यखिलानि त्यक्त्वा काङ्क्षा कर्मफलेष्वत्र करोति ।
यज्जिज्ञासां रूपफलार्थी क्षितिदेव- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८॥
क्षिप्रं लोके यं भजमानः पृथुपुण्यः प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।
प्रत्यग्भूतं ब्रह्म परं सन्रमते य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९॥
णानेत्येवं यन्मनुमध्यस्थितवर्णा- न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १०॥
मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द- प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्राभा हासविधौ दक्षशिरोधि- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११॥
तप्तस्वर्णच्छायजटाजूटकटाह- प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२॥
येन ज्ञातेनैव समस्तं विदितं स्या- द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३॥
मत्तो मारो यस्य ललाटाक्षिभवाग्नि- स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।
तद्भस्मासीद्यस्य सुजातः पटवास- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४॥
ह्यम्भोराशौ संसृतिरूपे लुठतां त- त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।
सर्वाराध्यं सर्वगमानन्दपयोनिधिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५॥
मेधावी स्यादिन्दुवतंसं धृतवीणं कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६॥
धाम्नां धाम प्रौढरुचीनां परमं य- त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७॥
प्रत्याहारप्राणनिरोधादिसमर्थै- र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया य- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८॥
ज्ञांशीभूतान्प्राणिन एतान्फलदाता चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसरः सं- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९॥
प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा विदितानुश्रवतत्त्वा- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २०॥
यस्यांज्ञानादेव नृणां संसृतिबोधो यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१॥
छन्नेऽविद्यारूपपटेनैव च विश्वं यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२॥
स्वापस्वप्नौ जाग्रदवस्थापि न यत्र प्राणश्वेतः सर्वगतो यः सकलात्मा ।
कूटस्थो यः केवलसच्चित्सुखरूप- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३॥
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४॥
यैषा रम्यैर्मत्तमयूराभिधवृत्तै- रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्रः कृपयासा- वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५॥
॥ इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP