मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| स्वादयन्निह सर्वेषां त्रय... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्रीस्तोत्ररत्नम् - स्वादयन्निह सर्वेषां त्रय... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीस्तोत्ररत्नम् (यामुनाचार्यकृतम्) Translation - भाषांतर स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् ।स्तोत्रयामास योगीन्द्रः तं वन्दे यामुनाह्वयम् ॥यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥नमो नमो यामुनाय यामुनाय नमो नमः ।नमो नमो यामुनाय यामुनाय नमो नमः ॥नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥१॥तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-ज्ञानानुरागमहिमातिशयान्तसीम्ने ।नाथाय नाथमुनयेऽत्र परत्र चापिनित्यं यदीयचरणौ शरणं मदीयम् ॥२॥भूयो नमोऽपरिमिताच्युतभक्तितत्त्व-ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।लोकेऽवतीर्णपरमार्थसमग्रभक्ति-योगाय नाथमुनये यमिनां वराय ॥३॥तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव-भोगापवर्गतदुपायगतीरुदारः ।संदर्शयन् निरमिमीत पुराणरत्नंतस्मै नमो मुनिवराय पराशराय ॥४॥माता पिता युवतयस्तनया विभूतिःसर्वं यदेव नियमेन मदन्वयानाम् ।आद्यस्य नः कुलपतेर्वकुलाभिरामंश्रीमत् तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥५॥यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्अस्मन्मनोरथपथः सकलं समेति ।स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दमरविन्दविलोचनस्य ॥६॥तत्त्वेन यस्य महिमार्णवशीकराणुःशक्यो न मातुमपि शर्वपितामहाद्यैः ।कर्तुं तदीयमहिमस्तुतिमुद्यतायमह्यं नमोऽस्तु कवये निरपत्रपाय ॥७॥यद्वा श्रमावधि यथामति वाऽप्यशक्तःस्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः ।वेदाश्चतुर्मुखमुखाश्च महार्णवान्तःको मज्जतोरणुकुलाचलयोर्विशेषः ॥८॥किं चैष शक्त्यतिशयेन न तेऽनुकंप्यःस्तोताऽपि तु स्तुतिकृतेन परिश्रमेण ।तत्र श्रमस्तु सुलभो मम मन्दबुद्धेःइत्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥९॥नावेक्षसे यदि ततो भुवनान्यमूनिनालं प्रभो भवितुमेव कुतः प्रवृत्तिःएवं निसर्गसुहृदि त्वयि सर्वजन्तोःस्वामिन् न चित्रमिदमाश्रितवत्सलत्वम् ॥१०॥स्वाभाविकानवधिकातिशयेशितृत्वंनारायण त्वयि न मृष्यति वैदिकः कः ।ब्रह्मा शिवः शतमखः परमः स्वराडितिएतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥११॥कः श्रीः श्रियः परमसत्त्वसमाश्रयः कःकः पुण्डरीकनयनः पुरुषोत्तमः कः ।कस्यायुतायुतशतैककलांशकांशेविश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥१२॥वेदापहारगुरुपातकदैत्यपीडा-द्यापद्विमोचनमहिष्ठफलप्रदानैः ।कोऽन्यः प्रजापशुपती परिपाति कस्यपादोदकेन स शिवः स्वशिरोधृतेन ॥१३॥कस्योदरे हरविरिञ्चमुखःप्रपञ्चःको रक्षतीममजनिष्ट च कस्य नाभेः ।क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यःकः केन वैष परवानिति शक्यशङ्कः ॥१४॥त्वां शीलरूपचरितैः परमप्रकृष्ट-सत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः ।प्रख्यातदैवपरमार्थविदां मतैश्चनैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥१५॥उल्लङ्घितत्रिविधसीमसमातिशायि-संभावनं तव परिब्रढिमस्वभावम् ।मायाबलेन भवताऽपि निगूह्यमानंपश्यन्ति केचिदनिशं त्वदन्यभावाः ॥१६॥यदण्डमण्डान्तरगोचरं च यत्दशोत्तराण्यावरणानि यानि च ।गुणाः प्रधानं पुरुषः परं पदंपरात्परं ब्रह्म च ते विभूतयः ॥१७॥वशी वदान्यो गुणवान् ऋजुः शुचिःमृदुर्दयालुर्मधुरः स्थिरः समः ।कृती कृतज्ञस्त्वमसि स्वभावतःसमस्तकल्याणगुणामृतोदधिः ॥१८॥उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतमित्यनुक्रमात् ।गिरस्त्वदेकैकगुणावधीप्सयासदा स्थिता नोद्यमतोऽतिशेरते ॥१९॥त्वदाश्रितानां जगदुद्भवस्थिति-प्रणाशसंसारविमोचनादयः ।भवन्ति लीला विधयश्च वैदिकाःत्वदीयगंभीरमनोऽनुसारिणः ॥२०॥नमो नमो वाङ्मनसातिभूमयेनमो नमो वाङ्मनसैकभूमये ।नमो नमोऽनन्तमहाविभूतयेनमो नमोऽनन्तदयैकसिन्धवे ॥२१॥न धर्मनिष्ठोऽस्मि न चात्मवेदीन भक्तिमान् त्वच्चरणारविन्दे ।अकिञ्चनोऽनन्यगतिः शरण्यत्वत्पादमूलं शरणं प्रपद्ये ॥२२॥न निन्दितं कर्म तदस्ति लोकेसहस्रशो यन्न मया व्यधायि ।सोऽहं विपाकावसरेमुकुन्दक्रन्दामि संप्रत्यगतिस्तवाग्रे ॥२३॥निमज्जतोऽनन्तभवार्णवान्तःचिराय मे कूलमिवाऽसि लब्धः ।त्वयाऽपि लब्धं भगवन्निदानींअनुत्तमं पात्रमिदं दयायाः ॥२४॥अभूतपूर्वं मम भावि किं वासर्वं सहे मे सहजं हि दुःखम् ।किं तु त्वदग्रे शरणागतानांपराभवो नाथ न तेऽनुरूपः ॥२५॥निरासकस्यापि न तावदुत्सहेमहेश हातुं तव पादपङ्कजम् ।रुषा निरस्तोऽपि शिशुः स्तनन्धयःन जातु मातुश्चरणौ जिहासति ॥२६॥तवामृतस्यन्दिनि पादपङ्कजेनिवेशितात्मा कथमन्यदिच्छति ।स्थितेऽरविन्दे मकरन्दनिर्भरेमधुव्रतो नेक्षुरकं हि वीक्षते ॥२७॥त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचित्यथा तथा वाऽपि सकृत् कृतोऽञ्जलिः ।तदैव मुष्णात्यशुभान्यशेषतःशुभानि पुष्णाति न जातु हीयते ॥२८॥उदीर्णसंसारदवाशुशुक्षणिंक्षणेन निर्वाप्य परां च निर्वृतिम् ।प्रयच्छति त्वच्चरणारुणाम्बुज-द्वयानुरागामृतसिन्धुशीकरः ॥२९॥विलासविक्रान्तपरावरालयंनमस्यदार्तिक्षपणे कृतक्षणम् ।धनं मदीयं तव पादपङ्कजंकदा नु साक्षात्करवाणि चक्षुषा ॥३०॥कदा पुनः शंखरथाङ्गकल्पक-ध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।त्रिविक्रम त्वच्चरणांबुजद्वयंमदीयमूर्धानमलंकरिष्यति ॥३१॥विराजमानोज्ज्वलपीतवाससंस्मितातसीसूनसमामलच्छविम्निमग्ननाभिं तनुमध्यमुन्नतंविशालवक्षःस्थलशोभिलक्षणम् ॥३२॥चकासतं ज्याकिणकर्कशैःशुभैःचतुर्भिराजानुविलंबिभिर्भुजैःप्रियावतंसोत्पलकर्णभूषण-श्लथालकाबन्धविमर्दशंसिभिः ॥३३॥उदग्रपीनांसविलम्बिकुण्डला-लकावलीबन्धुरकंबुकन्धरम् ।मुखश्रिया न्यक्कृतपूर्णनिर्मला-मृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥३४॥प्रबुद्धमुग्धांबुजचारुलोचनंसविभ्रमभ्रूलतमुज्ज्वलाधरम् ।शुचिस्मितं कोमलगण्डमुन्नसंललाटपर्यन्तविलम्बितालकम् ॥३५॥स्फुरत्किरीटाङ्गदहारकण्ठिका-मणीन्द्रकाञ्चीगुणनूपुरादिभिः ।रथाङ्गशंखासिगदाधनुर्वरैःलसत्तुलस्या वनमालयोज्ज्वलम् ॥३६॥चकर्थ यस्या भवनं भुजान्तरंतव प्रियं धाम यदीयजन्मभूः ।जगत्समस्तं यदपाङ्गसंश्रयंयदर्थमंभोधिरमन्थ्यबन्धि च ॥३७॥स्ववैश्वरूप्येण सदाऽनुभूतया-प्यपूर्ववद्विस्मयमादधानया ।गुणेन रूपेण विलासचेष्टितैःसदा तवैवोचितया तव श्रिया ॥३८॥तया सहासीनमनन्तभोगिनिप्रकृष्टविज्ञानबलैकधामनिफणामणिव्रातमयूखमण्डल-प्रकाशमानोदरदिव्यधामनि ॥३९॥निवासशय्यासनपादुकांशुको-पधानवर्षातपवारणादिभिः ।शरीरभेदैस्तव शेषतां गतैःयथोचितं शेष इतीरिते जनैः ॥४०॥दासः सखा वाहनमासनं ध्वजःयस्ते वितानं व्यजनं त्रयीमयः ।उपस्थितं तेन पुरो गरुत्मतात्वदङ्घ्रिसंमर्दकिणाङ्कशोभिना ॥४१॥त्वदीयभुक्तोज्झितशेषभोजिनात्वया निसृष्टात्मभरेण यद्यथा ।प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥४२॥हताखिलक्लेशमलैः स्वभावतःत्वदानुकूल्यैकरसैस्तवोचितैः ।गृहीततत्तत्परिचारसाधनैःनिषेव्यमाणं सचिवैर्यथोचितम् ॥४३॥अपूर्वनानारसभावनिर्भर-प्रबुद्धया मुग्धविदग्धलीलया ।क्षणाणुवत् क्षिप्तपरादिकालयाप्रहर्षयन्तं महिषीं महाभुजम् ॥४४॥अचिन्त्यदिव्याद्भुतनित्ययौवन-स्वभावलावण्यमयामृतोदधिम् ।श्रियः श्रियं भक्तजनैकजीवितंसमर्थमापत्सखमर्थिकल्पकम् ॥४५॥भवन्तमेवानुचरन् निरन्तरंप्रशान्तनिश्शेषमनोरथान्तरः ।कदाऽहमैकान्तिकनित्यकिङ्करःप्रहर्षयिष्यामि सनाथजीवितः ॥४६॥धिगशुचिमविनीतं निर्दयं मामलज्जंपरमपुरुष योऽहं योगिवर्याग्रगण्यैः ।विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरंतव परिजनभावं कामये कामवृत्तः ॥४७॥अपराधसहस्रभाजनंपतितं भीमभवार्णवोदरेअगतिं शरणागतं हरेकृपया केवलमात्मसात्कुरु ॥४८॥अविवेकधनान्धदिङ्मुखेबहुधा सन्ततदुःखवर्षिणिभगवन् भवदुर्दिने पथःस्खलितं मामवलोकयाऽच्युत ॥४९॥न मृषा परमार्थमेव मेशृणु विज्ञापनमेकमग्रतः ।यदि मे न दयिष्यसे ततःदयनीयस्तव नाथ दुर्लभः ॥५०॥तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान् न च ।विधिनिर्मितमेतदन्वयंभगवन् पालय मा स्म जीहपः ॥५१॥वपुरादिषु योऽपि कोऽपि वागुणतोऽसानि यथा तथाविधः ।तदयं तव पादपद्मयोःअहमद्यैव मया समर्पितः ॥५२॥मम नाथ यदस्ति योऽस्म्यहंसकलं तद्धि तवैव माधवनियतस्वमिति प्रबुद्धधीःअथवा किं नु समर्पयामि ते ॥५३॥अवबोधितवानिमां यथामयि नित्यां भवदीयतां स्वयम् ।कृपयैवमनन्यभोग्यतांभगवन् भक्तिमपि प्रयच्छ मे ॥५४॥तव दास्यसुखैकसङ्गिनांभवनेष्वस्त्वपि कीटजन्म मेइतरावसथेषु मा स्म भूत्अपि मे जन्म चतुर्मुखात्मना ॥५५॥सकृत्त्वदाकारविलोकनाशयातृणीकृतानुत्तमभुक्तिमुक्तिभिः ।महात्मभिर्मामवलोक्यतां नयक्षणेऽपि ते यद्विरहोऽतिदुःसहः ॥५६॥न देहं न प्राणान् न च सुखमशेषाभिलषितंन चात्मानं नान्यत् किमपि तव शेषत्वविभवात् ।बहिर्भूतं नाथ क्षणमपि सहे यातु शतधाविनाशं तत् सत्यं मधुमथन विज्ञापनमिदम् ॥५७॥दुरन्तस्यानादेरपरिहरणीयस्य महतःनिहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।दयासिन्धो बन्धो निरवधिकवात्सल्यजलधेतव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥५८॥अनिच्छन्नप्येवं यदि पुनरिच्छन्निव रज-स्तमश्छन्नश्छद्मस्तुतिवचनभङ्गीमरचयम् ।तथाऽपीत्थंरूपं वचनमवलंब्यापि कृपयात्वमेवैवंभूतंधरणिधर मे शिक्षय मनः ॥५९॥पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वमेव त्वं मित्रं गुरुरसि गतिश्चापि जगताम् ।त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहंप्रपन्नश्चैवंसत्यहमपि तवैवास्मि हि भरः ॥६०॥जनित्वाऽहं वंशे महति जगति ख्यातयशसांशुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।निसर्गादेव त्वच्चरणकमलैकान्तमनसांअधोऽधः पापात्मा शरणद निमज्जामि तमसि ॥६१॥अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूःकृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।नृशंसः पापिष्ठः कथमहमितो दुःखजलधेःअपारादुत्तीर्णस्तव परिचरेयं तव चरणयोः ॥६२॥रघुवर यदभूस्त्वं तादृशो वायसस्यप्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।प्रतिभवमपराद्धुर्मुग्ध सायुज्यदोऽभूःवद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥६३॥ननु प्रपन्नः सकृदेवनाथ तवाहमस्मीति च याचमानः ।तवानुकम्प्यः स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥६४॥अकृत्रिमत्वच्चरणारविन्द- प्रेमप्रकर्षावधिमात्मवन्तम् ।पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥६५॥ ॥इति श्रीस्तोत्ररत्नम् समाप्तम्॥ N/A References : N/A Last Updated : January 04, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP