मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
रुद्रं पशुपतिं स्थाणुं नी...

महामृत्युञ्जयस्तोत्रम् - रुद्रं पशुपतिं स्थाणुं नी...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१॥

कालकण्ठं कालमूर्तिं कलाग्निं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥२॥

नीलकन्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥

वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसादेवं किं नो मृत्युः करिष्यति ॥४॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥

त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥६॥

भस्मोद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥७॥

अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥८॥

आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥९॥

अर्द्धनारीश्वरं देवं पार्वतीप्राणवल्लभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१०॥

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥११॥

व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१२॥

गंगाधरं शशिधरं शंकरं शूलपाणिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१३॥

स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१४॥

कल्पायुर्देहि मे नित्यं यावदायुररोगताम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१५॥

शिवेशानं महादेवं वामदेवं सदाशिवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१६॥

उत्पत्तिस्थितिसंहारकर्त्तारं ईश्वरं गुरुं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१७॥

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचोरभयं क्वचित् ॥१८॥

शतावृत्तं प्रकीर्त्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तॊत्रं सर्वसिद्धिप्रदायकम् ॥१९॥

मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥२०॥

तावकस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यममुं जपेत् ॥२१॥

नमः शिवाय सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥२२॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP