मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| श्रीपराशर भट्टार्यः श्रीर... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्रीगुणरत्नकोशः - श्रीपराशर भट्टार्यः श्रीर... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीगुणरत्नकोशः Translation - भाषांतर श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितःश्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ।श्रियै समस्तचिदचिन्निधानव्यसनं हरेः ।अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥१॥उल्लासपल्लवितपालितसप्तलोकी-निर्वाहकोरकित नेमकटाक्षलीलाम् ।श्रीरङ्गहर्म्यतलमङ्गलदीपरेखांश्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥२॥अनुकलतनुकाण्डालिङ्गनारंभशुंभत्प्रतिदिनभुजशाखश्रीसखानोकहर्द्धिः ।स्तननयनगुलुच्छस्फारपुष्पद्विरेफाःरचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥३॥यद्भ्रूभंगाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेःवेदान्तस्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावासा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥४॥यद्यावत्तववैभवं तदुचितस्तोत्राय दूरे स्पृहास्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः ।अप्येवं तव देवि! वाङ्मनसयोर्भाषानभिज्ञं पदंका वाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥५॥स्तोतारं तमुशन्ति देवि! कवयो योविस्तृणीते गुणान्स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाःक्षान्त्यौदार्यदयादयो भगवति! स्वां प्रस्नुवीरन् प्रथाम् ॥६॥सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीःश्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।वैदग्ध्यवर्णगुणगुंभनगौरवैर्यांकण्डूलकर्णकुहराः कवयो धयन्ति ॥७॥अनाघ्रातावद्यं बहुगुणपरीणाहि मनसःदुहानं सौहार्दं परिचितमिवाथापि गहनम् ।पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोःत्वमेव श्रिर्मह्यं बहुमुखय वाणीविलसितम् ॥८॥श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्यां भगवतींश्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम् ।दृशौ ते भूयास्तां सुखतरलतारे श्रवणतःपुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः क्ञ्चुकशतम् ॥९॥देवि! श्रुतिं भगवतीं प्रथमे पुमांसःत्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।तद्द्वारपाटनपटूनि च सेतिहास-संतर्कणस्मृतिपुराणपुरस्सराणि ॥१०॥आहुर्वेदानमानं कतिचन कतिचाऽराजकं विश्वमेतत्राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।भिक्षावन्ये सुराजंभवमिति च जडास्ते तलातल्यकार्षुःये ते श्रीरङ्गहर्म्याङ्गणकनकलते! न क्षणं लक्ष्यमासन् ॥११॥मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेनश्रुतिशिरसिनिगूढं लक्ष्मि! ते वीक्षमाणाः ।निधिमिव महिमानं भुञ्जते येऽपि धन्याःननु भगवति! देवीं संपदं तेऽभिजाताः ॥१२॥अस्येशाना जगत इतितेऽधीमहे यां समृद्धिंश्रीः! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् ।ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तःतं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥१३॥उद्बाहुस्त्वां उपनिषदसावाह नैका नियन्त्रींश्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे ।स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैःनिन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥१४॥आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्ऐश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये ।तुङ्गं मङ्गलमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनंधन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषाः विप्रुषः ॥१५॥एको मुक्तातपत्रप्रचलमणिघण-त्कारिमौलिर्मनुष्यःदृप्यद्दन्तावळस्थो न गणयतिनतान् यत्क्षणं क्षॊणिपालान् ।यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपङ्क्तीतत्ते श्रीरंगराजप्रणयिनि नयनो- दञ्चितान्यञ्चिताभ्याम् ॥१६॥ रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियःसुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता ।ततोमुखमथेन्दिरे! बहुमुखीमहंपूर्विकांविगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥१७॥सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैःअनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।इदं सदसदात्मना निखिलमेव निम्नोन्नतंकटाक्षतदुपेक्षयोस्तव हि लक्ष्मि! तत्ताण्डवम् ॥१८॥काले शंसति योग्यतां चिदचिदोरन्योन्यमालिङ्गतोःभूताहंकृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्सर्वतःश्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥१९॥शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकंवैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् ।पुंसा पण्यवधूविडंबिवपुषा धूर्तानिवायासयन्श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥२०॥यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतंयत्कालादपचेलिमं सुरपुरी यद्गच्छ्तो दुर्गतिः ।सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरांतद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥२१॥हेलायामखिलं चराचरमिदं भोगे विभूतिः परापुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।श्रीरंगेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयंशेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥२२॥आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषांयाऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता ।भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिःश्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥२३॥तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशंसङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरानन्दनिघ्नैः ।स्नेहादास्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैःआनन्दैकार्णवं श्रीः! भगवति! युवयोराहुरास्थानरत्नम् ॥२४॥ तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानंविस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् ।तैस्तैः कान्तेन शांतोदितगुणविभवैरर्हता त्वामसंख्यैःअन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि! बध्नासि भोगम् ॥२५॥भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समंनिर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।देवि! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथायाभिस्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥२६॥ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैःभोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाःहे श्रीः! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपिप्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥२७॥स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने!त्वदाश्लेषॊत्कर्षात् भवति खलु निष्कर्षसमये ।त्वमासीर्मातः! श्रीः! कमितुरिदमित्थं त्वविभवःतदन्तर्भावात्त्वां न पृथगभिदधतेश्रुतिरपि ॥२८॥तव स्पर्शादीशं स्पृशति कमले! मङ्गलपदंतवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।प्रसूनं पुष्यन्तीमपि परिमलर्धिं जिगदिषुःन चैवं त्वा देवं स्वदत इति कश्चित्कवयते ॥२९॥अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्अमी यत्रद्वित्रास्स च शतमखादिस्तदधरात् ।अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौप्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥३०॥स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एषैव भगवान्त्वदायत्तर्ध्वित्वेऽप्यभवदपराधीनविभवः ।स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणंन कुण्ठस्वातन्त्र्यं भवति न चाऽन्याहितगुणम् ॥३१॥प्रशकनबलज्योतिर्ज्ञानेश्वरीविजयप्रथा-प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराःअपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे!तव भगवतश्चैते साधारणाः गुणराशयः ॥३२॥अन्येऽपि यौवनसुखाः युवयोस्समानाःश्रीरङ्गमङ्गलविजृंभणवैजयन्ति!तस्मिंस्तव त्वयि च तस्य परस्परेणसंस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥३३॥युवत्वादौ तुल्येऽपरवशताशत्रुशमन-स्थिरत्वादीन्कृत्वा भगवति! गुणान् पुंस्त्वसुलभान् ।त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपरार्थ्यकरुणा-क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥३४॥घनकनकद्युती युवदशामपि मुग्धदशांयुवतरुणत्वयोरुचितमाभरणादि परम् ।ध्रुवमसमानदेशविनिवेशि विभज्य हरौत्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥३५॥अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुंभतःक्षीराब्धेः किमृजीषतामुपगताः मन्ये महार्घास्ततः ।इन्दुः कल्पलता सुधामधुमुखाइत्याविलां वर्णनांश्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥३६॥प्रणमदनुविधित्सावासनानम्रमग्रेप्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन ।कनकनिकषचञ्चच्चंपकस्रक्समान-प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥३७॥एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादांबुजंमध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्तांबुजम् ।त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष-स्फारापाङ्गतरङ्गमम्ब! मधुरं मुग्धं मुखं बिभ्रतीम् ॥३८॥सुरभितनिगमान्तं वन्दिषीयेन्दिरायाःतव कमलपलाशप्रक्रियं पादयुग्मम् ।वहति यदुपमर्दैर्वैजयन्ती हिमांभःप्लुतिरिव नवत्वं कान्तबाह्वन्तराले ॥३९॥त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाःनित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् ।दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास तेसाक्षाल्लक्ष्मि! तवावलोकविभवः का क्वा कया वर्ण्यते ॥४०॥आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-प्रेमार्द्रैरपि कूलमुद्वहकृपासंप्लावितास्मादृशैः ।पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कंभकैःऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥४१॥पादारुन्तुदमेवपङ्कजरजश्चेटीभृशालोकितैःअङ्गम्लानिरथांब! साहसविधौ लीलारविन्दग्रहःडोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदंकेन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥४२॥आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वाऽयशः ।सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभंभोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥४३॥आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।श्रीरङ्गेश्वरि! कोमलाङ्गसुमनस्सन्तर्पणं देवि तेकान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥४४॥मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैःकान्तोपभोगललितैर्लुलिताङ्गयष्टिः ।पुष्पावलीव रसिकभ्रमरोपभुक्तात्वं देवि! नित्यमभिनन्दयसे मुकुन्दम् ॥४५॥कनकरशनामुक्ताताटङ्कहारललाटिका-मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके!प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैःवलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥४६॥सामान्यभोग्यमपि कौस्तुभवैजयन्ती-पञ्चायुधादि रमणः स्वयमेव बिभ्रद् ।तद्भारखेदमिव ते परिहर्तुकामःश्रीरङ्गधाममणिमञ्जरि! गाहते त्वाम् ॥४७॥यदि मनुजतिरश्चां लीलया तुल्यवृत्तेःअनुजनुरनुरूपा देवि! नाऽवातरिष्यः ।असरसमभविष्यन्नर्म नाथस्य मातःदरदलदरविन्दोदन्तकान्तायताक्षि ॥४८॥स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेःभगवति दधिमाथं मथ्नतः श्रान्तिशान्त्यै ।भ्रमदमृतरङ्गावर्ततः प्रादुरासी:स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥४९॥मातर्मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वयारक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृताकाकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतःसा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥५०॥मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयंत्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।जामाता दयितस्तवेति भवतीसंबन्धदृष्ट्या हरिंपश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥५१॥पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जनेहितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।किमेतन्निर्दोषः क इह जगतीतित्वमुचितैःउपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥५२॥नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्राऽऽगतालोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु ।क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वनेजातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥५३॥अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तेहरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि ।अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥५४॥दशशतपाणिपादवदनाक्षिमुखैरखिलैःअपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।अवतरणशतैश्च रसयन् कमिता कमलेक्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥५५॥जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसेजननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् ।उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥५६॥औदार्यकारुणिकताश्रितवत्सलत्व-पूर्वेषु सर्वमतिशायितमत्र मातः ।श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्तिसीतावतारमुखमेतदमुष्ययोग्या ॥५७॥ऐश्वर्यमक्षरगतिं परमं पदं वाकस्मै चिदञ्जलिभरं वहते वितीर्यअस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!त्वं लज्जसे कथय कोऽयमुदारभावः ॥५८॥ज्ञानक्रियाभजनसंपदकिञ्चनोऽहंइच्छाधिकारशकनानुशयानभिज्ञः ।आगांसिदेवि युवयोरपि दुस्सहानिबध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥५९॥इत्युक्तिकैतवशतेन विडम्बयामितानम्ब! सत्यवचसः पुरुषान् पुराणान् ।यद्वा न मे भुजबलं तव पादपद्म-लाभे त्वमेव शरणं विधितः कृताऽसि ॥६०॥श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकंनिर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् ।युष्मत्पादसरोरुहान्तररजस्स्याम त्वमंबा पितासर्वं च त्वमसि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥६१॥ N/A References : N/A Last Updated : January 04, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP