मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| शतानीक उवाच – महामते महाप... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... अनुस्मृतिः - शतानीक उवाच – महामते महाप... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र अनुस्मृतिः Translation - भाषांतर शतानीक उवाच –महामते महाप्राज्ञ सर्वशास्त्रविशारद ।अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥१॥सततं किं जपेज्जाप्यं विबुधः किमनुस्मरन् ।मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ॥२॥यं च ध्यात्वा द्विजश्रेष्ठ पुरुषो मृत्युमागतः ।परं पदमवाप्नोति तन्मे वद महामुने ॥३॥शौनक उवाच –इदमेव महाप्राज्ञ पृष्टवांश्च पितामहम् ।भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥४॥युधिष्ठिर उवाचपितामह महाप्राज्ञ सर्वशास्त्र विशारद ।प्रयाणकाले किं चिन्त्यं मुमुक्षोस्तत्त्वचिन्तकैः ॥५॥किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते ।प्राप्नुयां परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥६॥भीष्म उचाच-तद्युक्तं स्वहितं सूक्ष्मं प्रश्नमुक्तं त्वयानघ ।शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम् ॥७॥श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् ।पुरा नारायणं देवं नारदः परिपृष्टवान् ॥८॥नारद उवाच -त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् ।आहुर्वेद्यं परं धाम ब्रह्माणं कमलोद्भवम् ॥९॥भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।कथं भक्तैर्विचिन्त्योऽसि योगिभिर्मोक्षकाङ्क्षिभिः ॥१०॥किं नु जाप्यं जपेन्नित्यं कल्य उत्थाय मानवः ।कथं जपेत्सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् ॥११॥भीष्म उवाच-श्रुत्वा च तस्य देवर्षेर्वाक्यं वाक्यविशारदः ।प्रोवाच भगवान् विष्णुर्नारदाय च धीमते ॥१२॥श्रीभगवानुवाच-हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् ।मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् ॥१३॥यामधीत्य प्रयाणे तु मद्भावायोपपद्यते ।ऊँकारमग्रतः कृत्वा मां नमस्कृत्य नारद ॥१४॥एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ।ऊँ नमो भगवते वासुदेवाय इत्ययम् ॥१५॥अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥१६॥क्षराक्षरविसृष्टस्तु प्रोच्यते पुरुषोत्तमः ।अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ॥१७॥प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् ।लोकनाथं सहस्राक्षमक्षरं परमं पदम् ॥१८॥भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ।स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ॥१९॥पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ।हिरण्यगर्भममृतं भूगर्भं तमसः परम् ॥२०॥प्रभोः प्रभुमनाद्यं च प्रपद्ये तं रविप्रभम् ।सहस्रशीर्षकं देवं महर्षेः सत्त्वभावनम् ॥२१॥प्रपद्ये सूक्ष्ममतुलं वरेण्यमनघं शुचिम् ।नारायणं पुराणेशं योगावासं सनातनम् ॥२२॥संयोगं सर्वभूतानां प्रपद्ये ध्रुवमीश्वरम् ।यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥२३॥ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२४॥यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ।चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु ॥२५॥आभूतसंप्लवे चैव प्रलीने प्रकृतौ महान् ।योऽवतिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२६॥येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः ।शरण्यः सर्वलोकानां स मे विष्णुः प्रसीदतु ॥२७॥यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् ।शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु ॥२८॥कार्यं क्रिया च करणं कर्ता हेतुः प्रयोजनम् ।अक्रियाकरणे कार्ये स मे विष्णुः प्रसीदतु ॥२९॥चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥३०॥शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ।रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु ॥३१॥अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥३२॥पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥३३॥योगावास नमस्तुभ्यं सर्वावास वरप्रद ।हिरण्यगर्भ यज्ञाङ्ग पञ्चगर्भ नमोऽस्तु ते ॥३४॥चतुर्भूत परं धाम लक्ष्म्यावास सदाच्युत ।शब्दादिवासनान्योऽसि वासुदेव प्रधानकृत् ॥३५॥अजः संगमनः पार्थो ह्यमूर्तिर्विश्वमूर्तिधृक् ।श्रीः कीर्तिः पञ्चकालज्ञो नमस्ते ज्ञानसागर ॥३६॥अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परात्परः ।यस्मात् परतरं नास्ति तमस्मि शरणं गतः ॥३७॥चिन्तयन्तो ह्यजं नित्यं ब्रह्मेशानादयः सुराः ।निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥३८॥जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः ।यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥३९॥एकांशेन जगत्कृत्स्नमवष्ठभ्य स्थितः प्रभुः ।अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ॥४०॥सोमार्काग्निमयं तेजो यश्च तारामयी द्युतिः ।दिवि संजायते तेजः स महात्मा प्रसीदतु ॥४१॥गुणात्मा निर्गुणश्चान्यो रश्मिवांश्चेतनोह्यजः ।सूक्ष्मः सर्वगतोऽदेहः स महात्मा प्रसीदतु ॥४२॥अव्यक्तं सदधिष्ठानमचिन्त्यं तमसः परम् ।प्रकृतिः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥४३॥क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्गुणैः ।महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥४४॥सांख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः ।यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥४५॥अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।ये च त्वां नाभिजानन्ति तमस्मि शरणं गतः ॥४६॥कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताःअनन्यभक्ता जानन्ति न पुनर्नारकी जनः ॥४७॥एकान्तिनो हि निर्द्वन्द्वा निराशाः कर्मकारिणः ।ज्ञानाग्निदग्धकर्माणः त्वां विशन्ति मनस्विनः ॥४८॥अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।पापपुण्यविनिर्मुक्ता भक्तास्त्वां पर्युपासते ॥४९॥अव्यक्तबुद्ध्यहंकारमनोभूतेन्द्रियाणि च ।त्वयि तानि न तेषु त्वं तेषु तानि न ते त्वयि ॥५०॥एकत्वाय च नानन्यं ये विदुर्यान्ति ते परम् ।समत्वमिह काङ्क्षेयं भक्त्या वै नान्यचेतसा ॥५१॥चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ।त्वयि तन्तौ च तत्प्रोतं सूत्रे मणिगणा इव ॥५२॥स्रष्टा भोक्तासि कूटस्थो ह्यचिन्त्यः सर्वसंज्ञितः ।अकर्ता हेतुरहितः पृथगात्मा व्यवस्थितः ॥५३॥न मे भूतेषु संयोगः पुनर्भवतु जन्मनि ।अहंकारेण बुध्या वा न मे योगस्त्रिभिर्गुणैः ॥५४॥न मे धर्मो ह्यधर्मो वा नारम्भो जन्म वापुनः ।जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वगम् ॥५५॥विषयैरिन्द्रियैश्चापि न मे भूयः समागमः ।ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।भक्तानां यद्धितं देव तत्ते हि त्रिदशेश्वर ॥५६॥पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् ।रूपं हुताशने यातु स्पर्शो मे यातुमारुते ॥५७॥श्रोत्रमाकाशमभ्येतु मनो वैकारिकं पुनःइन्द्रियाणि गुणान्यान्तु स्वेषु स्वेषु च योनिषु ॥५८॥पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् ।वायुराकाशमभ्येतु मनश्चाकाशमेव च ॥५९॥अहंकारं मनो यातु मोहनं सर्देहिनाम् ।अहंकारस्तथा बुद्धिंबुद्धिरव्यक्तमेव च ॥६०॥प्रधानं प्रकृतिं यातु गुणसाम्ये व्यवस्थिते ।विसर्गः सर्वकरणैर्गुणभूतैश्च मे भवेत् ॥६१॥सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ।निष्कैवल्यपदं देव काङ्क्षेऽहं ते परन्तप ॥६२॥एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ।नमो भगवते तस्मै विष्णवे प्रभविष्णवे ॥६३॥त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ।त्वामेवाहं स्मरिष्यामि मरणे पर्यवस्थिते ॥६४॥पूर्वदेहे कृता ये मे व्याधयः प्रविशन्तु माम् ।अर्दयन्तु च मां दुःखान्यृणं मे प्रतिमुच्यताम् ॥६५॥अनुध्येयोऽसि मे देव न मे जन्म भवेत्पुनः ।अस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥६६॥उपतिष्ठन्तु मां सर्वे व्याधयः पूर्ववञ्चिताः ।अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥६७॥अहं भगवतस्तस्य मम वासः सनातनः ।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६८॥कर्मेन्द्रियाणि संयम्य पञ्चभूतेन्द्रियाणि च ।दशेन्द्रियाणि मनसि अहंकारं तथा मनः ॥६९॥अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।आत्मबुद्धीन्द्रियं पश्येत्बुद्ध्या बुद्धेः परात्परम् ॥७०॥एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥७१॥ममायमिति तस्याहं येन सर्वमिदं ततम् ।आत्मन्यात्मनि संयोज्य परात्मानमनुस्मरेत् ॥७२॥नमो भगवते तस्मै देहिनां परमात्मने ।नारायणाय भक्ताय एकनिष्ठाय शाश्वते ॥७३॥हृदिस्थाय च भूतानां सर्वेषां च महात्मने ।इमामनुस्मृतिं दिव्यां वैष्णवीं पापनाशिनीम् ।स्वपन्विबुद्धश्च पठेद्यत्नेन च समभ्यसेत् ॥७४॥मरणे समनुप्राप्ते यदेकं मामनुस्मरेत् अपि पापसमाचारः स याति परमां गतिम् ॥७५॥यद्यहंकारमाश्रित्य यज्ञदानतपक्रियाः ।कुर्वन् फलमवाप्नोति पुनरावर्तनं च तत् ॥७६॥अभ्यर्चयन् पितॄन्देवान् पठन् जुह्वद्बलिं ददत् ।ज्वलदग्नौ स्मरेद्यो मां लभते परमां गतिम् ॥७७॥यज्ञो दनं तपश्चैव पावनानि मनीषिणाम् ।यज्ञदानतपस्तस्मात्कुर्याद्रागविवर्जितः ॥७८॥पौर्णमास्याममावस्यां द्वादश्यां च तथैव च ।श्रावयेच्छ्रद्दधानश्च मद्भक्तश्च विशेषतः ॥७९॥नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धायान्वितः ।तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥८०॥किं पुनर्ये भजन्ते मां साधका विधिपूर्वकम् ।श्रद्धावन्तो यतात्मानस्ते यान्ति परमां गतिम् ॥८१॥कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते ।मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्त्रितः ॥८२॥अज्ञानां चैव यो ज्ञानं दद्याद्धर्मोपदेशतः ।कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत् फलम् ॥८३॥तस्मात्प्रदेयं साधुभ्यो जपं बन्धभयापहम् ।अवाप्स्यसि ततः सिद्धिं प्राप्स्यसे च पदं मम ॥८४॥अश्वमेधसहस्रैश्च वाजपेयशतैरपि ।नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥८५॥भीष्म उवाच -हरेः पृष्टं पुरा तेन नारदेन सुरर्षिणा ।यदुवाच ततः शम्भुस्तदुक्तं समनुव्रतः ॥८६॥श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणोदितम् ।अत्यन्तं भक्तिमान् देव एकान्तित्वमुपेयिवान् ॥८७॥त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणाधिकम् ।भजस्व सर्वभावेन परमात्मानमव्ययम् ॥८८॥नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।इमं जपित्वा चाप्नोति तद्विष्णोः परमं पदम् ॥८९॥किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः ।नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९०॥किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥९१॥ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।तेऽपि यान्ति परां स्थानं नारायणपरायणाः ॥९२॥अनन्यया मन्दबुद्ध्या प्रतिभाति दुरात्मनाम् ।कुतर्काज्ञानदृष्टीनां विभ्रान्तेन्द्रियवर्त्मनाम् ॥९३॥नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ।अन्तकाले जपाद्यान्ति तद्विष्णोः परमं पदम् ॥९४॥आचारहीनोऽपि मुनिप्रवीर भक्त्या विहीनोऽपि विनिन्दितोऽपि ।किं तस्य नारायणशब्दमात्रतोविमुक्तपापो विशतेऽच्युतां गतिम् ॥९५॥कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु संयुगे ।दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ॥९६॥जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥९७॥नाम्नोऽस्ति यावती शक्तिः पापनिर्हरणे हरेः ।श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् ॥९८॥न तावत्पापमस्तीह यावन्नामाहृतं हरेः ।अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ॥९९॥गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥१००॥न वासुदेवात्परमस्ति मङ्गलंन वासुदेवात्परमस्ति पावनम् ।न वासुदेवात्परमस्ति दैवतंतं वासुदेवं प्रणमन्न सीदति ॥१०१॥इमां रहस्यां परमामनुस्मृतिंयोऽधीत्य बुद्धिं लभते च नैष्ठिकीम् ।विहाय पापं विनिमुच्य सङ्कटात्स वीतरागो विचरेन्महीमिमाम् ॥१०२॥इति श्रीमहाभारते आनुशासनिके पर्वणि दानधर्मेश्रीवैष्णोर्दिव्यमनुस्मृतिस्तोत्रं संपूर्णम्॥गीता नामसहस्रं च स्तवराजोऽनुस्मृतिः ।गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते॥ N/A References : N/A Last Updated : January 04, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP