मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
सुब्रह्मण्यं प्रणाम्यहं स...

श्री सुब्रह्मण्यषोडशनामं - सुब्रह्मण्यं प्रणाम्यहं स...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगंसदा । अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशं ॥१॥
प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एवच । अग्निभूश्चतृतीयस्यात् बाहुळेयश्चतुर्थकः ॥२॥
गाङ्गेयः पञ्चमोविद्यात् षष्ठः शरवणोत्भवः । सप्तमः कर्तिकेयःस्यात् कुमरस्यादथाष्टकः ॥३॥
नवमःषण्मुखश्चैव दशमःकुक्कुटद्वजः । एकादशःशक्तिधरो गुहो द्वादश एवच ॥४॥
त्रयोदशो ब्रह्मचारी षाण्मातुर चतुर्दशः । क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः ॥५॥
एतत् षोडशनामानि जपेत् सम्यक्सदादरं । विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥६॥
कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् । कन्यार्थी लभतेकन्या जयार्थी लभते जयं ॥७॥
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनं । आयुरारोग्य वश्यश्च धनधान्य सुखावहं ॥
॥इति श्री शङ्करसंहितायां शिवरहस्यखण्डे श्री सुब्रह्मण्यषोडशनामस्तोत्रं ॥

N/A

References :
Encoded and proofread by antaratma

Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP