मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
सच्चिदानन्दरूपाय भक्तानुग...

श्रीभगवच्छरणस्तोत्रम् - सच्चिदानन्दरूपाय भक्तानुग...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे ।
मायानिर्मितविश्वाय महेशाय नमो नमः ॥१॥
रोगा हरन्ति सततं प्रबलाः शरीरम् ।
कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन्
दिनानि तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥२॥
देहो विनश्यति सदा परिणामशील-
श्चित्तं च खिद्यति सदा विषयानुरागि ।
बुद्धिः सदा हि रमते विषयेषु नान्तः
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥३॥
आयुर्विनश्यति यथामघटस्थतोयम्
विद्युत्प्रभेव चपला बत यौवनश्रीः ।
वृद्धा प्रधावति यथा मृगराजपत्नी
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥४॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते
कामादयो हि बलिनो निबलाः शमाद्याः  ।
मृत्युर्यदा तुदति मां बत किं वदेयम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥५॥
तप्तं तपो नहि कदापि मयेह तन्वा
वाण्या तथा नहि कदापि तपश्च तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥६॥
स्तब्धं मनो मम सदा नहि याति सौम्यम्
चक्षुश्च मे न तव पश्यति विश्वरूपम् ।
वाचा तथैव न वदेन्मम सौम्यवाणीम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥७॥
सत्वं न मे मनसि याति रजस्तमोभ्याम्
विद्धे तथा कथमहो शुभकर्मवार्ता ।
साक्षात् परंपरतया सुखसाधनम्
तत् तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥८॥
पूजाकृता नहि कदापि मया त्वदीया
मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा ।
चित्तं न मे स्मरति ते चरणौ
ह्यवाप्य तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥९॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो
ज्ञानस्यसाधनगणो न विवेकमुख्यः ।
ज्ञानं क्व साधनगणेन विना क्व मोक्षः
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१०॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः
साप्यद्य नास्ति बत पण्डितमानिनो मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥११॥
दृष्टिर्न भूतविषया समताभिधाना
वैषम्यमेव तदियं विषयीकरोति ।
शन्तिः कुतो मम भवेत् समता न चेत्स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१२॥
मैत्री समेषु न च मेऽस्ति कदापि नाथ
दीने न तथा न करुणा मुदिता च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१३॥
नेत्रादिकं मम बहिर्विषयेषु सक्तम्
नान्तर्मुखं भवति तानविहाय तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य वार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१४॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै
नासीदसौ हृतहृदो मम मायया ते ।
सा चाधुना किमु विधास्यति नेति
जाने तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१५॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा
राज्यं यदैहिकमथेन्द्रपुरश्च नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१६॥
प्राणान्निरुद्ध्य विधिना न कृतो हि योगो
योगं विनास्ति मनसः स्थिरता
कुतो मे । तां वै विना मम न चेतसि शान्तिवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१७॥
ज्ञानं यथा मम भवेत् कृपया गुरूणाम्
सेवां तथा न विधिनाकरवं हि तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१८॥
तीर्थादि सेवनमहो विधिना हि नाथ
नाकारि येन मनसो मम शोधनं स्यात् ।
शुद्धिं विना न मनसोऽवगमापवर्गौ
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥१९॥
वेदान्तशीलनमपि प्रमितिं करोति
ब्रह्मात्मनः प्रमिति साधन संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ तस्याः
तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥२०॥
गोविन्द शंकर हरे गिरिजेश मेश
शंभो जनार्दन गिरीश मुकुन्द साम्ब ।
नान्या गतिर्मम कथञ्चन वां
विहाय तस्मात् प्रभो मम गतिः कृपया विधेया ॥२१॥
एवं स्तवं भगवदाश्रयणाभिधानम्
ये मानवा प्रतिदिनं प्रणताः पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम्
गच्छन्ति किं च परमात्मनि भक्तिमद्धा ॥२२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP