मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
(शृङ्गेरि श्रीजगद्गुरु श...

श्रीशारदास्तोत्रम् - (शृङ्गेरि श्रीजगद्गुरु श...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

(शृङ्गेरि श्रीजगद्गुरु
श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितः)
रत्नावलीनिर्मितशैलशृङ्गविभ्राजदापूर्णसुधाकराभम् ।
आकण्ठरक्तांबरसंवृताङ्ग्या
मुखाम्बुजं भाति जगज्जनन्याः ॥१॥
आकण्ठमानम्रजनानुरागो ममेति लोकस्य विबोधनाय
आकण्ठ
रक्तांबरसंवृताङ्गी पद्मोत्थजाया प्रतिभाति नूनम् ॥२॥
एवं सर्वजगन्त्यप्युत्सङ्गे संनिधाय रक्षामि ।
इति बोधनाय जगतामङ्के बालं दधासि मातस्त्वम् ॥३॥
शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव ।
अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥४॥
स्थालीपुलाकाख्यनयेन मातर्जगन्ति सर्वाण्यपि पालयामि ।
इत्येतदर्थस्य विबोधनाय बालं निजाङ्के विदधासि किं त्वं ॥५॥
एकमेवाम्बरं वाणि विरूपं च वदन्ति हि ।
नवाम्बराणि धत्से त्वं सुरूपाणि कथं वद ॥६॥
आकाशवत्सर्वगतश्च नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य ।
प्रत्नत्वमेकत्वमपि प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥७॥
पुराणवस्त्राणि न धारयामि नवाम्बराण्येव तु धारयामि ।
इति प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥८॥
भवन्तु विजरामराः पदसरोजनम्रा इति
प्रकृष्टदयया विधेः सखि सरोजतुल्यानने
करस्थकलशामृतं नतजनाय दातुं स्वयं
महार्हमणिनिर्मितं चषकमम्ब धत्से किमु ॥९॥
त्यक्ष्यामि नैव रागं कालत्रितयेऽपि नम्रवर्गेषु ।
इति बोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥१०॥
हंसैरेव परैः सेव्या नाहमन्यैर्जनैरिति ।
प्रबोधनकृते मातर्हंसं वाहं करोषि किम् ॥११॥
हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय ।
विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥१२॥
हंसोऽप्यहंस इति बोधमवाप्य मुक्तिं प्राप्तः
परस्तव पदाम्बुजसंश्रयाद्यत् ।
तस्मात्तवाम्ब पदयुग्ममयं मुमुक्षु-
र्हंसः समाश्रयति वाहनतामवाप्य ॥१३॥
विरिञ्चिहृदयांबुजप्रमददानसूर्यप्रभे
विचित्रगतिचातुरीप्रथितपादपङ्केरुहे ।
करोति किमयं सदा गमनचातुरीप्राप्तये
मरालकुलनायकस्तव पदाब्जसेवां मुदा ॥१४॥
हंसो बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायी
पद्मानामेव मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ ।
अप्यामोदप्रदात्र्या नतहृदयसरोजातपङ्क्तेरधस्ता-
द्भूतो हीत्येव बोधं रचयितुमिव किं हंसमारोहसीशे ॥१५॥
कर्तुमात्मनि सार्थां किं वृषेन्द्रः पुर एतु नः ।
इत्यादिकां श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥१६॥
वृषभो वृषभो नो चेत्कथं तव पदाम्बुजम् ।
वाणि सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥१७॥
वृषं पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः ।
द्रुतं पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्क्ते ॥१८॥
पशुपः शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु ।
पशुतानिवृत्तयेऽयं वृषभस्त्वां सेवते मातः ॥१९॥
शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थं
भीतः पलाय्य तव सन्निधिमागतः किम् ।
उक्षाधिपः सरसिजासनधर्मपत्नि
ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु ॥२०॥
पुनरुपनयनं पुंसो वृषाधिरोहे न कामिन्याः
दर्शयति तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥२१॥
नीलकण्ठस्य सार्वज्ञ्यमूलं त्वत्पादसेवनम्
इति संबोधयन्नीलकण्ठस्त्वां सेवते किमु ॥२२॥
शिखी मुण्डी जटीत्याद्याः सर्वे त्वत्सेवका
इति द्योतनाय शिखी किं वा मातस्त्वामेव सेवते ॥२३॥
निशम्य संप्रेषितवान्मयूरमुद्धर्ष इत्येव पितुष्वसुः किम् ।
षडाननो ब्रूहि गिरां सवित्रि नम्रस्य संदेहयुजो ममाशु ॥२४॥
किं वर्णयामि तव सुन्दरतां मनुष्यो
यत्सुन्दरत्वमभिवीक्ष्य मयूरपक्षी ।
हित्वा विरूप इति षण्मुखमाशु मातर्वासं
करोति तव पादसरोजमूले ॥२५॥
दृष्ट्वा त्वदीयकचसंततिनीलमेघं
सर्वर्तुषूदयनमेत्य मयूर एषः ।
नित्यप्रहर्षदतया विरहासहिष्णुर्नूनं त्वदङ्घ्रिनिकटे
स्थितिमातनोति ॥२६॥
केका न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि ।
इति नाम्नैव हि वक्तुं भाति त्वत्संनिधौ केकी ॥२७॥
शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय पालयामीदम् ।
जगदिति निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥२८॥
शंभौ सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदा
सागर्भ्यं त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि ।
वक्त्रारक्तपटीसुवाहमिषतः सेवां सदा कुर्वते
मोदादेव हि ते न चात्र विशयः कश्चिद्गिरां देवते ॥२९॥
केकातोऽपि मनोहरेण वचसा त्वन्निर्जितः केक्ययं
पादाम्भोजयुगं प्रपन्न इति मच्चित्ते विभात्यम्बिके ।
जेतुः पादयुगप्रपत्तिरथवा देशान्तरावस्थिति-
र्युक्तं चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति ॥३०॥
शिखिवच्छुद्ध एवेति नाम्नैवाह यतः शिखी ।
तस्मात्त्वद्वाहता चास्य युक्तैव विधिवल्लभे ॥३१॥
मुक्ताहारमिमं जगज्जननि ते शुभ्राहिबुद्ध्या किमु ।
ग्रीवास्थं ह्यहमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः ।
नायं सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज-
न्नैवालंकृतिलक्ष्यतः परमहो धत्ते बुधः पूर्ववत् ॥३२॥
आद्या मत्स्यमयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपुस्तद्युग्मं
त्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः ।
तस्माच्चक्रयुगं तवोरसि कुचव्याजेन भात्यम्बिके
तस्मादेव खगेश्वरश्च सततं त्वां सेवते मोदतः ॥३३॥
विष्णौ वीक्ष्य जडाधिवासमथ च स्वाऽमित्रशायित्वम-
प्यण्डोद्भूतपतिर्विहाय तमिमं विज्ञानरूपामयम् ।
त्वामेवाद्य निषेवते खलु मुदावाग्देवि
युक्तं च तत्को वा शत्रुसहासिकां
हि सहते लोकेषुविद्वज्जनः ॥३४॥
भूताकाशचरेट्त्वमेव भुवने सिद्धं हि का तेन मे
वृद्धिश्चाभवदित्यवेत्य खगराण्णूनं गिरां देवते ।
हार्दाकाशचराधिपत्यमपि मे भूयादितीच्छावशा-
त्तत्प्राप्त्यै तव पादपङ्कजयुगीसेवां करोत्यादरात् ॥३५॥
विनतातनूद्भवत्वं प्रकटं प्रभवेद्विनत्यैव ।
इति बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणि ॥३६॥
मानसविहरण्शीलां देवीं त्यक्त्वान्यदेवतासेवा ।
नैवोचितेति खगराट्वहति त्वां तादृशीं नूनम् ॥३७॥
सुवर्णनीकाश भवत्प्रतीकककान्तेः परिष्वङ्गत एव सार्था ।
सुवर्णतेत्यात्मन आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेव्घ्रिसेवाम् ॥३८॥
आगत्य कालाहिधिया हि वेणीं ग्रहीतुकामः खगराण्णिरीक्ष्य ।
निह्नोतुमिच्छत्ययमम्ब नैजां भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥३९॥
लोके ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह ।
द्वावपि शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥४०॥
हस्तान्तरस्थपरशुं शंभोर्भूषार्थमागतान्नागान् ।
दृष्ट्वा भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥४१॥
धत्ते कुरङ्गं विधुरेष पूर्णो मदास्य चन्द्रस्तमधःकरोति ।
इत्येतयोर्भेदविबोधनाय कुरङ्गमम्ब त्वमधः करोषि ॥४२॥
समाश्रयेयं यदि पुष्करस्थमब्जं तदा स्यात्पतनं हि दर्शे ।
ममेति मत्वा मृगशाबकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥४३॥
शुक्लादौ शशिनं स्वकीयशरणं पूर्णं विचिन्वन्मृगो
वाण्यास्यं तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः ।
प्राप्तश्चेति तवाङ्घ्रिसंनिधिमसावागत्य वेगात्ततो
नास्मिन्नस्ति ममावकाश इति किं तिष्ठत्ययं भारति ॥४४॥
पुरा तव पदाम्बुजं हरिण एष संपूज्य यो
जगत्प्रभुशिरःस्थिते शशिनि संस्थितिं प्राप्तवान् ।
किमद्य हृदिसंस्मरंस्तव पदाब्जसेवाफलं
महोत्सवदिदृक्षया चरण्संनिधिं प्राप्तवान् ॥४५॥
पिबेयुरपि मां सुरा यदि वसामि चन्द्रे तदे-
त्यऽपायरहितं पदं जिगमिषुश्चिरं संचरन् ।
अपायवचनोज्झितं तव पदाब्जयोरन्तरं
विलोक्य मृगशाबको वसति तत्र वाग्देवि किम् ॥४६॥
भक्ताज्ञानमहेभा मद्वाहनसंनिरीक्षणादेव ।
निर्यान्त्विति सहसा किं सिंहं वाहं करोषि मातस्त्वम् ॥४७॥
लालयति वाणिकिं त्वां पञ्चास्यः स्कन्धमारोप्य ।
युक्तमिदं भ्रातॄणां सोदर्या लालनं लोके ॥४८॥
विष्ण्वर्धत्वात्पालकत्वं ममास्ते संहर्तृत्वं नैजमेवास्ति किं तु ।
स्रष्टुर्भावो वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वांसेवते पञ्चवक्त्रः ॥४९॥
तवाम्बराभावशशीयशृङ्गनीकाशमध्यत्वमयं निशम्य ।
वलग्नकार्श्याध्ययनाय किं वा पदाब्जसेवां विदधाति सिंहः ॥५०॥
नताय पादाम्बुजयोर्जनाय राजाधिराजत्वविधित्सया किम् ।
सिंहासनं त्वं वद दातुमम्ब सिंहं सदा संनिधिगं करोषि ॥५१॥
वने जातः सिंहः पुनरपि दरीवासनिरतः
स्वसाम्यं यत्र स्यात्सततवसतिं तत्परिसरे ।
चिकीर्षन्भ्रान्त्वा किं तव पदवनेजेनतमनो
गुहावासे दृष्ट्वा वसतिमकरोत्तत्परिसरे ॥५२॥
नाथस्यापि ममानिवेद्य हरिणः सेवां कथं प्रातनो-
वाग्देव्याश्चरणाब्जयोरिति रुषा सारङ्गबालं भृशम् ।
कृत्वा शीघ्रपलायनोत्स्ववपरं सेवांकरोत्यादरा-
दृश्येशः स्वयमित्यवैमि करुणावारांनिधे शारदे ॥५३॥
कृत्वा शीघ्रपलायनोत्सवपरं सेवां करोत्यादरा-
दृश्येशः स्वयमित्यवैमि करुणावारांनिधे शारदे ।
कुरङ्गवेगस्तवदृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणि
इतीव गर्वादधिगम्य मातस्तुरंगमस्त्वां परिसेवते किम् ॥५४॥
तुरंगवच्चञ्चलमम्ब चित्तं बद्ध्वा दृढं भक्तिगुणेन शीघ्रम् ।
स्थिरंकरोमीति गुणैस्तुरङ्गं नियम्य किं बोधयसे जनांस्त्वम् ॥५५॥
त्वमश्वपूर्वां श्रियमानताय ददासि तूर्णं त्विति बोधनाय ।
तुरंगमग्रे विदधासि मातरितीवमन्ये वद किं तथैव ॥५६॥
उन्नम्य पादद्वितयं तुरंगो वदन्नितीवास्ति गिरां सवित्रि ।
विलंघ्यतां किं सरिदीश्वरोऽयमुत्प्लुत्यगच्छेयमथाम्बरं वा ॥५७॥
पदे पदे दानववश्यता मे भवेच्छचीनाथसमीपवासे ।
उच्चैःश्रवाइत्यधिगम्य मातस्तवांघ्रिसेवां प्रकरोति किं वा ॥५८॥
अश्वो वाहनतां न याति दिविषद्‍वृन्दस्य वेदा इति प्राहुस्तं
च निशम्य रोषसहितस्त्वत्संनिधिं प्राप्य किम् ।
मिथ्या कर्तुमहो तदीयवचनं देव्यास्तवांबानिशं
वाहत्वं कुतुकी जगाम तुरगाधीशो गिरां देवते ॥५९॥
विहङ्गं कुरङ्गं तुरङ्गं च वाहं विधायाशुगं श्रान्तिमासाद्य किं त्वम् ।
गजं मन्दगं वाहमद्यातनोषि प्रणम्रस्य मे ब्रूहि वाचामधीशे ॥६०॥
नतेष्टदानाय सदा जलार्द्रकरांबुजा त्वं यत एव वाणि
तस्मादिभोऽप्येषतवांघ्रिसङ्गाद्दानांबुसंसिक्तकरो विभाति ॥६१॥
केचित्प्राहुरनैपुणास्तु कुचयोः साम्यं हि कुम्भस्थले
शुण्डायामथवोरुतौल्यमिभराडिच्छंस्तवागादिति ।
नैतत्संभविता तनौ कठिनता यस्मात्ततः शारदे
मन्ये ह्युत्सवसेवनाय हरिणा संप्रेषितः स्यादिति ॥६२॥
मम कौशिकवाहनता स्याद्धर्यश्वस्य सेवने किमिति ।
शुक्लेभस्तववाहः समभून्मातर्न सन्देहः ॥६३॥
जम्भारौ कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं
त्यक्त्वा ह्रीसाध्वसाभ्यामयमिभकुलराट् तौ शरच्चन्द्रशुभ्रः ।
इन्द्रोपेन्द्रादिसेव्यामपि सकलसुराराध्यपादारविन्दां
त्वामेवातिप्रमोदात्कमलजदयिते सेवते नूनमेतत् ॥६४॥
मत्पादाब्जप्रणम्रं नरमतितरसा सेवते चेभमुख्या
लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव बोधम् ।
कर्तुं हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्से
वाणि प्रब्रूहि
किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥६५॥
एकः शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल ।
शुकोऽपरस्तु को ब्रूहि शारदे प्रणताय मे ॥६६॥
एकं शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम् ।
मोक्षाय नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम् ॥६७॥
दन्तेषुकिं दाडिमबीजबुद्ध्या तवाधरे बिम्बधियाऽथवाऽयम् ।
शुकः कुतस्त्वन्निकटे चकास्ति संदेहयुक्ताय वदाशु मातः ॥६८॥
श्रुत्वा तवाम्ब निनदं किल कीरडिम्भः
कण्ठे तवास्ति शुक इत्ययमाकलय्य ।
इच्छन्विनिर्गमनमस्यबहिस्तवाद्य हस्ताम्बुजे स्थिरतया वसतीति मन्ये ॥६९॥
क्षुधातुरः कश्चन कीरडिम्भस्तृषार्दितोऽन्यश्च तयोर्हि मातः ।
एकस्तु कर्णोत्पलमत्तुमिच्छत्यन्यः करस्थामृतपानकामः ॥७०॥
पादनम्रपुरुषान् किं बोधयितुं लज्जया गिरां देवि ।
अपिधाय नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥७१॥
प्रसवित्र्यां हि सुतानां नैव भवेत्साध्वसं कदाचिदपि ।
मत्त्वेति बोधनकृते गुरुवररूपं दधासि किं मातः ॥७२॥
सर्वात्मकत्त्वमथवा बोधयितुं स्वस्य सर्वलोकानाम् ।
स्वीकुरुषे किं पौरुषमम्बुजसंजातमानिनि ब्रूहि ॥७३॥
झषौस्वजातिदोषं किमबलस्वकुलाशनम् ।
मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ ॥७४॥
अशक्नुवंस्तोतुमहीश्वरस्त्वन्मुखस्य सौन्दर्यमयं जगाम ।
रसातलं वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥७५॥
अशक्नुवन्तस्तवसुन्दरत्वं स्तोतुं महेशाग्निभवाब्जजाताः ।
निनिन्दुरास्येषु हि पञ्चकत्वं षट्त्वं चतुष्ट्वं च गिरां सवित्रि ॥७६॥
नीलोत्पलोत्थः खलु नीलमेघो नम्रास्यमध्यात्कविताप्रवाहम् ।
प्रवर्तयत्याशु वदन्ति चैनं मातस्तवाक्षिप्रभवं कटाक्षम् ॥७७॥
नीलोत्पले त्वन्नयने हि मातस्तदुत्थमेघः करुणाकटाक्षः ।
स नम्रवक्त्रात् कविताप्रवाहं प्रवर्तयत्याशु न संशयोऽत्र ॥७८॥
मालाविभात्यम्ब तवाद्य कण्ठे क्वचिच्चरक्ता क्वचिदच्छवर्णा ।
बिम्बाधरस्य प्रभया हि नासामणेश्च कान्त्येति वितर्कयामि ॥७९॥
अक्षीणो नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम-
श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो गिरां देवते ।
क्षीणेनाङ्कयुजा हिःस्थिततमोमात्रापनोदक्षमे-
णाब्जेनायमहो कथं स लभतां साम्यं जगन्मातृके ॥८०॥
देवानामनिमेषताद्य सफला जाता तवाम्बानिशं
वक्त्राब्जस्य निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता ।
गौरीशस्य दशाक्षता कमलजस्याष्टाक्षताभारति
क्रौञ्चारेर्द्विषडक्षतापि फलयुग्जातेति जानीमहे ॥८१॥
अस्याब्जस्य समाश्रये मम भवेन्मोदो रजन्यां परं
नैवाह्नीत्यत एव चम्पकसुमेनालोच्य नीलोत्पले ।
सेवेते तव वक्त्रपद्ममनिशं नेत्रापदेशान्मुदा
रात्रौ वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥८२॥
चन्द्रः सौहार्दमिच्छंस्तव मुखशशिना प्राप्य वृद्धिं वलर्क्षे
पक्षे प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम् ।
दृष्ट्वाथ त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तं
लज्जायुक्तस्ततोऽयं प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥८३॥
दृष्टंवाग्देवताया वदनसरसिजं येन भूमौ कदाचि-
च्छृङ्गाद्रौ तस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि ।
नीहाराद्रेर्गुहातः सुरवरतटिनी यद्वदाश्वप्रयत्ना-
न्निर्गच्छत्येव तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित्त् ॥८४॥
एकापि नानाविधरूपधर्त्रीत्येतादृशार्थस्य विबोधनाय ।
वेण्यां भुजङ्गो नयने कुरङ्गी मध्ये च सिंही प्रतिभासि किं त्वम् ॥८५॥
कम्बौ पद्मं भाति बिम्बं हि तस्मिन्मल्लीपङ्क्तिश्चापि नीलोत्पले द्वे
सर्वं ह्येतद्भाति हैम्यां लतायां शैले चास्मिन्पश्यतैतद्विचित्रम् ॥८६॥
विराजते कश्चन वारिराशिर्मीनेन युक्तो न हि कम्बवोऽत्र ।
कम्बूपरिस्थस्त्वयमेव मातः सनेत्रमास्यं तव चैनमाहुः ॥८७॥
अकलङ्कः किमु चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम् ।
सौन्दर्ययुतवपुष्मद्वक्त्रं किं वा तवाम्ब न हि जाने ॥८८॥
भुजगी वा तव वेणी किं वा करपद्मपुष्परसलोभात् ।
आगतमधुलिट्पटली जानीमो नैव विधिकान्ते ॥८९॥
नागेन्द्रकुम्भावुत हेमकुम्भौ किमम्ब कोकौ तव किं कुचौ वा ।
विवेक्तुमत्रास्ति न नोऽद्य शक्तिस्त्वमेव मातर्वद धातृजये ॥९०॥
पयोजौ कूर्मौ वा सुरवरशिरोभूषणमणी
तरू वा कल्पाद्यौ नतजनचयाभीष्टवरदौ ।
पदे वा मातस्ते न तदिति विवेक्तुं हि विभवो
वयं तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥९१॥
निर्गत्यशैलमध्यात्कुहरं काचिद्गता भुजंगी ।
तां शंसन्ति हि सुधियो मातस्तव नाभिरोमालिम् ॥९२॥
सरस्या जातेयं न हि खलु कलिन्दाख्यगिरितः
समुद्रं नो याता ह्यपि तु वरशैलद्वयगता ।
विभातीत्थं काचित्त्वयि खलु गिरां देवि यमुना
वदन्त्येनां नाभिप्रसृततनुजालिं कविवराः ॥९३॥
किं तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम ।
तत्र सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥९४॥
दृष्टं वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भा-
स्तम्भावूरुद्वयं तत्तदुपरि गगनं मध्यभागो हि नूनम् ।
मन्ये नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालं
शैलद्वन्द्वं कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥९५॥
मां द्रष्टुमाकाशगतं हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः ।
इतीव मत्वा धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥९६॥
तवास्यलक्ष्याद्धरणीं गतस्य सुधांशुबिम्बस्य निषेवणाय ।
मुक्तासराणां मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥९७॥
शारदे तव पदाम्बुजयुग्मं ये स्मरन्ति मनुजा भुवि लोके ।
श्रीमतां च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥९८॥
वाताहताब्धिलहरीततितौल्यभाजो वाचः
प्रयत्नमनपेक्ष्य मुखारविन्दात् ।
वादेषु यत्करुणया प्रगलन्ति पुंसां
वाग्देवता भवतु वाञ्छितसिद्धये सा ॥१००॥
यस्त्वामिन्दुनिबद्धदिव्यमकुटां
शुक्लाम्बरालंकृतां मुद्रापुस्तकमालिकामृतघटान्संबिभ्रतीं
ध्यायति ।
तस्यास्यात्सरसा
सुवर्णघटिता सालंकृता वाक्तति-
स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥१०१॥
अनायासादास्यादमरतटिनीपूरसदृशी
ततिर्वाचामाशु
प्रसरति शिशोरप्यनुदिनम् ।
कृपालम्बापाङ्गे
कृशतरवलग्नेऽकृशकुचे

संदेह्यत्राहं सरसिजभवप्राणदयिते ॥१०२॥
कदाचिदपि
यो नरस्तव पदाम्बुजं भक्तितो
विभावयति
शारदे हृदयपङ्कजे तस्य हि ।
व्रजेयुरपि
दासतां नृपवर्गस्तथा वाक्ततिः
सुधाशितटिनीसखी
वदनपद्मतो निःसरेत् ॥१०३॥
जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं
प्रपद्य
सुरनायकं जयति सत्वरं संपदा ।
मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरी-
विनिर्जितसुरापगास्मयभरश्च संजायते ॥१०४॥
शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता
तुषारशैलगह्वरं जगाम जह्नुकन्यका ।
ततस्ततोऽपि तावकप्रणम्रकीर्तितर्जिता
शिवस्य शैलकन्यका जटाख्यदुर्गमाविशत् ॥१०५॥
के वा न कुर्युर्भुवि काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय ।
चित्रं त्वदङ्घ्रिं
परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्मिः ॥१०६॥
पञ्चास्यषण्मुखचतुर्मुखनागराजाः स्तोतुं
न तेऽम्ब चरितं प्रभवन्ति किंचित् ।
एकाननः कथमहं तव शक्नुयां तत्
स्तोतुं तथापि चपलं प्रसहस्व सूनोः ॥१०७॥
यावद्वाचां सवित्रि प्रणतजनवचोदानबद्धादरे ते
पादाम्भोजं प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः ।
तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य
मध्या-
दुत्थायाशु
प्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥१०८॥
मुक्ताहारमिषाज्जगज्जननि
ते सेवां करोत्यादरा-
द्देवानां सरिदित्यहो मकरराडालोच्य सेवां स्वयम् ।
कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति मच्चित्ते
भाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम् ॥१०९॥
पापीयानिति संजहासि करुणावारांनिधे शारदे
सर्वाघौघपयोधिबाडवशिखे त्वं मामनाथं यदि ।
तर्ह्येतादृशपापकोटिसहितं सर्वैश्च दूरीकृतं
को वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥११०॥
भक्तिहीन
इति मां जहासि किं मातरद्य जलजासनप्रिये ।
संत्यजन्तु
भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥१११॥
विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चिते
प्रणम्रजड्तातमस्ततिविभेदसूर्यप्रभे ।
नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव-
न्मरन्दतटिनीप्लवत्पदसरोरुहे पाहि माम् ॥११२॥
ज्वारादिनिखिलामयान्करुणया गिरामम्बिके
निवारय विभावरीपतिसमानवक्त्राम्बुजे ।
स्वरादिभुवनाधिपप्रणतपादपाथोरुहे करादृतसुधेऽनिशं
दिश सुखं जनानां मुदा ॥११३॥
पद्मासनस्थे सरसीरुहोत्थजाये वस त्वं ह्रुदये सदा मे ।
तेनाहमाशाः सकलाः जयेयं न तत्र संदेहलवोऽस्ति मेऽम्ब ॥११४॥
यं देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः ।
मन्देतराप्यं सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि ॥११५॥
समस्तवस्तून्यपि
सन्ति मातस्त्वत्संनिधौ किं तु न मन्मनोऽस्ति ।
तत्र प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु संनिधौ ते ॥११६॥
लोकप्रसिद्धाब्धिततेस्तु मानमाहुर्द्विलक्षाधिक योजनानि ।
नाद्राक्ष्म
नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥११७॥
न पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः ।
न संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन् ॥११८॥
नैवाहमानीय सुमानि दिव्यान्याराधनं तेऽकरवं कदापि ।
तथापि
मातः सहजानुकम्पायुतैः कटाक्षैः परिपाहि मां त्वम् ॥११९॥
ये प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय ।
ते नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥१२०॥
अव्याजकारुण्यमयि प्रसीद सुव्याहृतीनां ततिमाशु यच्छ ।
नव्यानि काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥१२१॥
तिष्ये युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः ।
नासासदृक्षत्वमहोऽधिगन्तुं मालात्वमापुः खलु चम्पकानि ॥१२२॥
चम्पकसुमानि मातर्नूनं नासासदृक्षतां गन्तुम् ।
सततं मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥१२३॥
अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे ।
नवनवकवित्वदानप्रवणे कञ्जातजन्मसुकृतमये ॥१२४॥
करुणापूरितनयने वरुणादिदिगीशसेव्यपदपद्मे ।
अरुणाधरजितबिम्बे तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥१२५॥
स्फुर जगदम्ब सदा मे मानसपद्मे सरोजभवजाये ।
वरदाननिरतपाणे वीणापाणेऽधरे शोणे ॥१२६॥
राकाचन्द्रसदृक्षं तव मुखपद्मं हृदम्बुजे स्मरताम् ।
कविता चेटीभूयात्तत्राम्ब न मेऽस्ति संदेहः ॥१२७॥
कन्यां कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः ।
नौकां भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम् ॥१२८॥
कांचन काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम् ।
कमनीयकवनदात्रीं कमलासनसुकृतसन्ततिं कलये ॥१२९॥
तनुजितगाङ्गेयरुचिः करधृतरुद्राक्षमालिकाकुम्भा ।
तनुतात्तामरसासनजाया जाड्यौघवारणं शीघ्रम् ॥१३०॥
मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र ।
व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥१३१॥
ममास्यमद्ध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे ।
स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे ॥१३२॥
यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः पाशापनोदचतुरां परमेष्ठिपत्नीम् ।
तां तुच्छसर्वविषयेषु विरक्तिदात्रीं श्रीशारदां कलितचन्द्रकलां नमामि ॥१३३॥
ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः ।
ते पावयन्ति धरणीं स्वपदाब्जसङ्गा-
न्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि ॥१३४॥
चन्द्रश्चकोरालिमयं करैः स्वैः करोति तृप्तां सितपक्ष एव ।
तवास्यचन्द्रस्तुनमच्चकोरान्करोति मातः सततं हि तृप्तान् ॥१३५॥
आगच्छत मत्पादौ प्रणमत भजतेष्टनिखिलसंपत्तीः ।
इति नम्रांस्त्वरयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥१३६॥
वाणी वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ ।
स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति मन्ये ॥१३७॥
पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय ।
पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥१३८॥
आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः ।
किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम् ॥१३९॥
आदर्शवत्स्वच्छतरेषु चित्तेष्वेवांघ्रिपद्मं मम भाति सम्यक् ।
इत्यर्थमावेदयितुं नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥१४०॥
सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य ।
तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥१४१॥
लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे ।
एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥१४२॥
कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम् ।
कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥१४३॥
सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम् ।
पद्मे निवासं प्रकरोषि मातः किं पद्मयोनेर्दयिते वदास्मै ॥१४४॥
हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किं
चाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य ।
अध्यास्ते स्थैर्यसिद्ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रं
मातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥१४५॥
रथस्थितां मां मनुजा जगत्यां पश्यन्ति ये भक्तियुतान्तरङ्गाः ।
मनोरथावाप्तिरशेषतः स्यात्तेषामपि द्योतयितुं रथस्था ॥१४६॥
पद्मासनस्थितौ मम पादयोः स्फुटता भवेन्नैव ।
नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥१४७॥
उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत् ।
इति तिष्ठसि किमु नम्रांस्तन्द्राहीनाऽवितुं गिरां देवि ॥१४८॥
मत्पादाम्बुजसेवकानतिजवात्संसारवारांनिधे-
राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात् ।
यो वा कस्श्चिदिहैत्य जन्मजलधौ मग्नोऽहमस्मीत्यतो
मां रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम् ॥१४९॥
आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम् ।
तथैव त्वन्मुखांभोजं नतचित्तानि शारदे ॥१५०॥
धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे ।
यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम् ॥१५१॥
कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी ।
करोतु मम कल्याणं कमलासनकामिनी ॥१५२॥
कञ्जभवपुण्यराशेकम्रस्मितजितचकोरबन्धुचये ।
कंस(ज)मदमर्दनचणे कञ्चनपुरुषार्थमर्थयन्नौमि ॥१५३॥
मतिजितसुरगुरुगर्वान्प्रकुर्वतीं शीघ्रमेव पदनम्रान् ।
कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥१५४॥
उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम् ।
यामिनीकामिनी ताराकुसुमानि चिनोति किम् ॥१५५॥
तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा-
त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम् ।
संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धी-
न्भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥१५६॥
वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः ।
वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम् ॥१५७॥
ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु ।
वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥१५८॥
अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् ।
इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥१५९॥
दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः ।
दण्डितेन्द्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥१६०॥
वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्यो
नाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके ।
तच्चन्द्राब्जप्रमुखनिबिडाहंकृतेर्भेददक्षं
नित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम् ॥१६१॥
अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः ।
कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥१६२॥
ऐंकारस्तव बीजं वदने मम वसतु सर्वदा वाणि
तेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥१६३॥
॥ इति श्रीशारदास्तोत्रं संपूर्णम्॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP