English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 305

Puran Kavya Stotra Sudha - Page 305

Puran Kavya Stotra Sudha - Page 305


२९२
पुराणकाव्यस्तोत्रसुधा ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥७५॥ यमुताजलसिक्ताङ्गो
यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥७६॥
कामाद्या: कामनाथश्च काममानसभेदनः | कामद: कामरूपश्च कामिनी-
कामसंचयः ॥७७॥ नित्यक्रोडो महालील: सर्वः सर्वंगतस्तथा । परमात्मा
परावीश: सर्वकारणकारण: (म्) ॥७८॥ गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः ॥७९॥ अक्रूरवाक्यसग्राही मथुरावास-
कारण: (म्) | अक्रूरतापशमनो रजकायु प्रणाशनः ||८०|| मथुरानन्ददायी
च कंसवस्त्रविलुण्ठनः | कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ||८१|| सुदाम-
गृहगामी च सुदामपरिपूजितः । तन्तुवायकसंप्रीतः कुब्जाचन्दनलेपनः ||८२॥
कुब्जारूप प्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोको सर्वलोकाभि-
नन्दनः ||८३|| कृपाकटाक्षदर्शी च दैत्यारिदेवनालकः । सर्वदुःखप्रशमनो
धनुर्भङगी महोत्सवः ||८४|| कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः | कल्प-
रूपधरो धोरो दिव्यवस्त्रानुलेपनः ||८५|| मल्लरूपो महाकाल: कामरूपी
बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा || ८६|| चाणूरनो
भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ||८७||
देवदुन्दुभिनिर्घोषो पितृशोकनिवारण: । यादवेन्द्रः सतां नाथो यादवारिप्रमनः
||८८|| शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेना-
मिपूजितः ॥८९॥ उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च
यदूनामभिनन्दनः ||९०|| सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपाल-
धनदो गोपोगोपाललालसः ॥९१॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥९२ ॥ सङ्कर्षण सहाध्यायी सुदाम-
सुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥ ९३|| चक्री पाञ्चजनी
चैव सर्वनारकिमोचनः । यमाचितः परो देवो नामोच्चारवशोऽच्युतः ||१४||
कुब्जाविलासी सुभगो दीनबन्धुरनूपम: | अक्रूरगृहगोप्ता च प्रतिज्ञापालकः
शुभः ॥९५॥ जरासन्धजयी विद्वान्यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो
जरासन्धपलायितः ॥९६॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः । लीलाघर:
प्रियकरो विश्वकर्मा यशःप्रदः ॥ ९७|| रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥९८॥ रुक्मिवैरूप्यकरणो रुक्मिणी-
वचने रतः । बलभद्रवचोग्राही मुक्तरुक्मो जनार्दनः ||१९|| रुक्मिणी-

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP