English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 183

Puran Kavya Stotra Sudha - Page 183

Puran Kavya Stotra Sudha - Page 183


१६८
पुराणकाव्यस्तोत्रसुधा ।
सत्तीर्थसेवनादीश तथा सज्जनसङगमात् ॥
पुंसां भक्तिस्तु येषां वे जायते कृपया तव ॥ १०१ ॥
साधुभिर्बहु उदीरितं हरे यो निशम्य गुणकीर्तनं तव ॥
कीर्तयत्य खिलपापनाशनं मातृगर्भकुहरे स नो पतेत् ॥ १०२ ॥
श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणे ॥
गुण्ठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् ॥ १०३ ॥
यः पुमान्पतति ते पदाम्बुजे दण्डवत्पुलकमङगके दधत् ॥
सोऽन्वयं नयति तावकं पदं स्वं च वाञ्छितमशेष योगिभिः ॥ १०४ ॥
जीव एष तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसु ||
त्वत्कृपाललितलोचनाञ्चलस्तत्क्षणं तरति विश्ववारिधिम् ॥ १०५ ॥
१८. चासुदेवस्तोत्रम्
( गरुड, पूर्वखण्ड, २२६ )
सकलमुनिभिराद्यश्चिन्त्यते यो हि सिद्धो
निखिलहृदि निविष्टं वेत्ति यः सर्वसाक्षी |॥
तमजममृतमीशं वासुदेवं नतोऽस्मि
त्वभयमरणहीनं नित्यमानन्दरूपम् ॥ ५० ॥
निखिलभुवननाथं शाश्वतं सुप्रसन्नम्
अतिविमलविशुद्धं निर्गुणं भावपुष्पैः ॥
सुखमुक्तिसमस्तं पूजयाम्यात्मभावं
विशतु हृदयपद्ये सर्वसाक्षी चिदात्मा ॥ ५१ ॥
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः ॥
तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिमार्गेण नरेण सम्यक् ॥ ५२ ॥
बोधस्वरूपं पुरुषं पुराणं आदित्यवर्णं विमलं विशुद्धम् ॥
सञ्चिन्त्य विष्णुं परमद्वितोयं कस्तत्र योगो न लयं प्रयाति ॥ ५३ ॥
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः ॥
स धौतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥ ५४॥
यः प्रार्थयत्यर्थ मशेषसौख्यं धर्मञ्च कामञ्च तथैव मोक्षम् ॥
स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥ ५५ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP