English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 102

Puran Kavya Stotra Sudha - Page 102

Puran Kavya Stotra Sudha - Page 102


व्यवहारचातुर्ययोगः - साधुवृत्तिः
५९७ तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ॥
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४ ॥
५९८ न तथाऽस्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ||
योषित्सङगाद्यथा पुंसो यथा तत्संगिसजगतः ॥ ३५ ॥
५९९ प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपर्धाषितः ।
रोहिद्भतां सोऽन्वधाववृक्षरूपी हतत्रपः ॥ ३६॥
यस्मिन्यदा पुष्करनाभमायया
६००
दुरन्तयास्पृष्टधियः पृथग्दृशः ॥
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥
६०१ गुणायनं शीलघनं कृतज्ञं
वृद्धाश्रयं संवृणुतेऽनु सम्पदः ॥ ४४ ॥
६०२ न नूनं मुक्तसंङगानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥
६०३ महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ॥
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥ ३॥
६०४ यद्यच्छोर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५ ॥
६०५ देहवाग्बुद्धिजं धोरा धर्मज्ञाः श्रद्धयान्विताः ॥
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥
६०६ आत्मनः प्रीयते नात्मा परतः स्वत एव वा ॥
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥
६०७ स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ॥
अभयं चाप्यहीनायां सङ्कल्पाद्विरमेत्कविः ॥ ५९ ॥
६०८ सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ॥
कोतिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ ७ ॥
६०९ तदिदं कालरशनं जनाः पश्यन्ति सूरयः ॥
*
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ ८ ॥
६१० महापुरुषपूजायाः सिद्धिः काप्यनुषंगिणी ॥ ७३ ।।
८७
Ibid, ३१.
Tbid, ४, ६.
Tbid, २१.
Ibid, ५, १.
Thid, ४.
Ibid, ६, १.
Ibid, १४.
Ibid, १६.
Ibid, १८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP