English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 281

Puran Kavya Stotra Sudha - Page 281

Puran Kavya Stotra Sudha - Page 281


चतुर्थो भागः ।
परमार्थ योगः ।
१. परमेशस्थानवर्णनम्
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी ||
न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥२०॥
न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः ॥
संसुप्तवच्छून्यवदप्रतक्यं तन्मूलभूतं पदमामनन्ति ॥ २१ ॥
भागवत, १२, ४.
२. सगुणनिर्गुणभक्तियोगः (१)
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रधानम् ॥
वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ ३५॥
पद्म, भूमिखण्ड, अ. १८.
नमामि गोविन्दपदारविन्दं सदेन्दिरानन्दनमुत्तमाढ्यम् ॥
जगज्जनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् ॥१॥
पद्म, आदिखण्ड, १.
श्रीकृष्णरूपगुणवर्णनशास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः ॥
तत्प्रेमभावरसभक्तिविलासनामहारेषु चेत्खलु मनः किमु कामिनीभिः ॥६७॥
तं चेतसा प्रभजतां व्रजबालकेन्द्रं वृन्दावनं क्षितितलं यमुनाजलं च ||
तल्लोकनाथपदपङ्कजधूलिमिश्रे लिप्तं वपुः किल वृथाऽगरुचन्दनाद्यैः ||६८||
Ibid, अ. ८०.
यावज्जनो न शृणुते भुवि विष्णुर्भाक्त साक्षात्सुधारसमशेषरसैकसारम् ॥
तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ||२६||
सञ्चिन्तितः कीर्तित एव नित्यं महानुभावो भगवाननन्तः ॥
समन्ततोऽघं विनिहन्ति मेधं वायुर्यथा भानुरिवान्धकारम् ॥२७॥
न भूप देवार्चनयज्ञतीर्थस्नानव्रताचारतपः क्रियाभिः ॥
तथा विशुद्धि लभतेऽन्तरात्मा यथा हृदिस्थे भगवाननन्ते ॥२८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP