English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 213

Puran Kavya Stotra Sudha - Page 213

Puran Kavya Stotra Sudha - Page 213


१९८
पुराणकाव्यस्तोत्रसुधा |
मुनीश्वरा पुरा हरं भवन्तमेवमादरा-
त्प्रपूज्य लिङ्गरूपिणं समापिता मनोरथान् ॥ ९३ ॥
भवोद्भवेकरूपिणं प्रपञ्चपञ्चकाकृति
विचिन्त्य वृक्षकोटरस्थ एष जीवजीवनम् ॥
भवेद्भवांघ्रिचिन्तनाप्तसर्व काम ईश्वर
त्वदीय किकरान्विते पदे पदे शमागतः ॥ ९४ ।।
३६. सोमेश्वरस्तोत्रम
( ब्रह्म, गौतमीमा, ५२ )
बृहस्पतिरुवाच -
सूक्ष्मं परं ज्योतिरनन्तरूपमोंकारमात्रं प्रकृतेः परं यत् ॥
चित्रपमानन्दमयं समस्तमेवं वदन्तीश मुमुक्षवस्त्वाम् ॥ ७४ ॥
आराधयन्त्यत्र भवन्तमीशं महामवैः पञ्चभिरप्यकामाः ॥
संसारसिन्धोः परमाप्तकामा विशन्ति दिव्यं भुवनं वपुस्ते ॥ ७५ ॥
सर्वेषु सत्त्वेषु समत्वबुद्धया संवीक्ष्य षट्सूमिषु शान्तिभावाः ॥
ज्ञानेन ते कर्मफलानि हित्वा ध्यानेन ते त्वां प्रविशन्ति शंभो ॥७६ ॥
न जातिधर्माणि न वेदशास्त्रं न ध्यानयोगे व समाधिधर्मः ॥
रुद्रं शिवं शंकरं शान्तचित्तं भक्त्या देवं सोममह नमस्ये ॥७७॥
मूर्खोऽपि शभो तव पादभक्त्या समाप्नुयान्मुक्तिमय तनुं ते ॥
ज्ञानेषु यज्ञेषु तपःसु चैव घ्यानेषु होमेषु महाफलेषु ॥ ७८ ।।
संपन्नमेतत्फलमुत्तमं यत्सोमेश्वरे भक्तिरनिशं यत् ॥
सर्वस्य जीवस्य सदा प्रियस्य फलस्य दृष्टस्य तथा श्रुतस्य ॥ ७९ ॥
स्वर्गस्य मोक्षस्य जगन्निवास सोपानपंक्तिस्तव भक्तिरेषा |
त्वत्पाद संप्राप्तिफ लाप्तये तु सोपानपंक्ति न वदन्ति धीराः ॥ ८० ॥
तस्माद्दयालो मम भक्तिरस्तु नैवास्त्युपायस्तव रूपरेषा |
आत्मीयमालोक्य महत्वमीश पायेषु चास्मासु कुरु प्रसादम् ॥ ८१ ॥
स्थूलं च सूक्ष्मं त्वमनादि नित्यं पिता च माता यदसच्च सच्च ॥
एवं स्तुतो यः श्रुतिभिः पुराणैर्नमामि सोमेश्वरमोशितारम् ॥ ८२ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP