English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 23

Puran Kavya Stotra Sudha - Page 23

Puran Kavya Stotra Sudha - Page 23


पुराणकाव्यस्तोत्रसुधा ।
वृथा वृष्टि: समुद्रस्य वृथा तृप्तस्य भोजनम् ॥
वृथा दानं समृद्धस्य नीचस्य सुकृतं वृथा ॥७५॥
वरस्थोऽपि समोपस्थो यो यस्य हृदये स्थितः ॥
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥७६॥
मुखभद्रगः स्वरो दीनो गात्रस्वेदो महद्भयम् ॥
मरणे यानि चिह्नानि तानि चिह्नानि याचके ||७७॥
कुब्जस्य कोटघातस्य वातानिष्कासितस्य च ॥
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥७८।।
जगत्पतिहि याचित्वा विष्णुर्वामनतां गतः ॥
कोऽन्योऽधिकतरस्तस्य योऽर्थी याति न लाघवम् ॥ ७९ ॥
माता शत्रु: पिता बॅरी बाला येन न पाठिताः ॥
सभामध्ये न शोभन्ते हंसमध्ये बका यथा ॥८०॥
विद्या नाम कुरूपरूपमधिकं १ विद्यातिगुप्तं धनं २
विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरु: ३ ॥ ·
विद्या बन्धुजनात्तिनाशनकरी विद्या परं दैवतम् ४
विद्या राजसु पूजिता हि मनुजो विद्याविहीनः पशुः ।। ८१ ||
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ||
अशेषं हरणीयं च विद्या न ह्रियते परः ||८२॥
शौनकीयं नीतिसारं विष्णुः सर्वव्रतानि च ||
कथयामास वै पूर्वं तत्र शुश्राव शङ्करः ॥
शङ्करावणोद्वचासो व्यासादस्माभिरेव च ॥८३॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
शौनकीय नीतिसारादिवर्णनं नाम पंचदशोत्तरशततमोऽध्यायः ॥११५॥
१. 'नरस्य' इ. पा.
२. 'प्रच्छन्नगुप्तं वनं' इ.पा.
३. ' भोगकरी यशः सुखकरी' इ. पा.
४. 'बन्धुजनो विदेशगमने' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP