English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 224

Puran Kavya Stotra Sudha - Page 224

Puran Kavya Stotra Sudha - Page 224


स्तो त्र यो गः
महेश्वर उवाच -
-
- शिवसहस्रनामस्तोत्रम्
४५. महेश्वरकवचम्
( ब्रह्मवैवर्त, ब्रह्मखण्ड, १९ )
२०९
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ॥
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४ ॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ॥
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ॥ ४५ ॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया ||
संसारपावनस्यास्य कवचस्य प्रजापतिः ॥ ४६॥
ऋषिच्छन्दश्च गायत्री देवोऽहं च महेश्वरः ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७ ॥
पञ्चलक्ष जपेनैव सिद्धिदं कवचं भवेत् ||
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्भवि ॥
तेन सा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८ ।।
शंभुर्मे मस्तकं पातु मुखं पातु महेश्वरः ॥
दन्तपंक्ति नीलकण्ठोऽप्यघरोष्ठं हरः स्वयम् ॥ ४९ ।।
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ॥
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ५० ॥
सर्वाङ्गं पातु विश्वेश: सर्वदिक्षु च सर्वदा ॥
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१ ॥
इति ते कथितं बाण कवचं परमाद्भू तम् ॥
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ।। ५२ ।।
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ॥
तत्फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३ ।।
४६. शिवसहस्रनामस्तोत्रम्
( शिव, ४ कोटिरुद्रसं., अ. ३५; लिङग, पूर्वार्द्ध, ९८; etc. )
ॐ नमः शिवाय ॥ सूत उवाच ॥ श्रूयतां भो ऋषिश्रेष्ठा येन तुष्टो
महेश्वरः । तदहं कथयाम्यद्य शैवं नामसहस्रकम् ॥ १॥ भवः शिवो हरो हृद्रः
२७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP