English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 57

Puran Kavya Stotra Sudha - Page 57

Puran Kavya Stotra Sudha - Page 57


पुराणकाव्यस्तोत्रसुधा ।
४. संसार :
७० पुत्रो मित्रं तथा भ्राता अन्ये स्वजनवांधवाः ॥
पञ्चभेदास्तु सम्बन्धाः पुरुषस्य भवन्ति ते ॥ २९ ॥
पद्म, पातालखंड, ८९.
७१ गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः ||
द्रव्यादिक च सुभगे तेषु सज्जेत नो बुधः ॥ १८ ॥
Ibid, उत्तरखंड, अ. २१६.
४२
७२ वक्ष्यन्ति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः ॥
गन्वः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः ॥ ३६९ ॥
गाव: पश्यन्ति गन्धेन राजानश्चारचक्षुषा ॥
नैकस्तिष्ठेद्वने घोरे धर्ममेकं च चिन्तयेत् ॥ ३७० ॥
न चोद्वेगस्त्वया कार्य: सर्वस्य मरणं ध्रुवम् ॥
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति ॥ ३७१ ॥
७५ विश्रम्य च पुनर्याति तद्वद्भूतसमागमः ॥
७४
पुत्र नित्यं जगत्सर्वं तत्रैकः शोचसे कथम् ॥ ३७२ ॥
Ibid, सृ. खं., १८.
७७
७६ इदानीमपि संसारे कुहरो दृश्यते नरैः ॥ ३३ ॥ भागवत, ३, ११.
जलं तदुद्भवैश्छन्नं हित्वाऽज्ञो जलकाम्यया ||
मृगतृष्णामुपाचावेद्यथाऽत्यत्रार्यदृक् स्वतः ॥ २८ ॥ Ibid, ७, १३.
७८ अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति ||
एवं हि जन्तोरपि दुविभाज्यः शरीरसंयोगवियोगहेतुः ॥ ५१ ॥
Ibid, १०, १.
७३
७९ वायुर्यथा घनानीकं तृगं तूलं रजांसि च ॥
संयोज्या क्षिपते भूयस्तथा भूतानि भस्मकृत् ॥ ४४ ॥ Ibid, १०, ८२.
यस्मिन्निदं प्रोतमशेषमोतं
८०
पटो यथा तंतुवितानसंस्थ: ॥
य एष संसारतरुः पुराण:
कर्मात्मकः पुष्पफले प्रसूते ॥ २१ ॥ Ibid, ११, १२.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP