English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 287

Puran Kavya Stotra Sudha - Page 287

Puran Kavya Stotra Sudha - Page 287


पुराणकाव्यस्तोत्रसुधा ।
श्रुताध्ययनसंपन्ना नानाशास्त्र विशारदाः ॥
ज्ञानिनोऽपि विमुह्यन्ते पूर्वकर्मवशानुगाः ||२३||
पश्यन्तोऽपि न पश्यन्ति श्रृण्वाना बधिरा यथा ॥
यथान्धा मानुषा लोके मूढाः पापविमोहिताः ॥२४॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् ॥
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते प्रायणाय ||२५||
एष ते कथितः सम्यक्तेजसो विधिरुत्तमा ॥
कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६ ॥
पुन: परतरं वक्ष्ये यथा मृत्यून जायते ॥
सावधानतया देवि श्रृणुष्वकाग्रमानसः ||२७||
तुरीया देवि भूतानां योगिनां घ्यानिनां तथा ॥
सुखासने यथास्थानं योगी नियतमानसः ॥२८॥
समुन्नतशरीरोऽपि स बद्धकरसंपुटम् ॥
चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः ॥ २९॥
प्रस्रवन्ति क्षणादापस्तालुस्था जीवदायिकाः ॥
ता जित्रेद्वायुनादायामृतं तच्छीतलं जलम् ॥३०॥
पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ||
दिव्यकायो महातेजाः पिपासाक्षुद्विवर्जितः ॥ ३१॥
बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ॥
आकुञ्चिताकुण्डलिकृष्णकेशो गन्धर्वविद्याधरतुल्यवर्णः ||३२||
जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम् ||
एवं चरन्खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव ||३३||
२७४
पुनरत्यत्प्रवक्ष्यामि विधानं यत्सुरैरपि ।
गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ॥३४॥
समाकुञ्च्याभ्यसेद्योगी रसनां तालुकं प्रति ॥
किञ्चित्कालान्तरेणैव क्रमात्प्राप्नोति लम्बिकाम् ॥ ३५॥
ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ॥
पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ॥ ३६॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP