English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 177

Puran Kavya Stotra Sudha - Page 177

Puran Kavya Stotra Sudha - Page 177


१६२
पुराणकाव्यस्तोत्रसुधा ।
सर्वेषां पापदुष्टानां विष्णुर्बध्नाति चक्षुषो ||
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ॥ २४ ॥
ते हि छिन्दन्तु पापान्मे मम हिसन्तु हिंसकान् ॥
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ॥ २५ ॥
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ||
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये ॥ २६ ॥
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ||
विद्युत्सर्पविषोद्गे रोगे च विघ्नसङकटे ॥ २७ ॥
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ।।
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ॥ २८ ॥
विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् ||
स्वमायाकृत निर्माणकल्पान्तगहनं महत् ॥ २९ ॥
ॐ अनाद्यनन्त ! जगद्वीज ! पद्मनाभ ! नमोऽस्तु ते ॥ ३० ॥
११. विष्णुध्यानम्
( विष्णु, ६, ७ )
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ||
चिन्त्यमात्मविशुद्धयर्थं सर्वकिल्बिषनाशनम् || ७३ ॥
यथा ग्निरुद्धतशिखः कक्षं दहति सानिलः ॥
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७४ ॥
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ॥
कुर्वीत संस्थिति सा तु विज्ञेया शुद्धधारणा ।। ७५ ॥
शुभाश्रयः स चित्तस्य सर्वगस्याचलात्मनः ॥
त्रिभावभावनातीतो मुक्तये योगिनो नृप ।। ७६ ।।
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ॥
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७७ ॥
मूतं भगवतो रूपं सर्वापाश्रयनिःस्पृहम् ||
एषा वै धारणा प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७८ ॥
यच्च मूतं हरे रूपं यावृक्चिन्त्यं नराधिप ||
तच्छू यतामनाघारा धारणा नोपपद्यते ॥ ७९ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP