English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 191

Puran Kavya Stotra Sudha - Page 191

Puran Kavya Stotra Sudha - Page 191


१७६
पुराणकाव्यस्तोत्रसुधा ।
त्वमेवाराधितो येन प्रसादसुमुख प्रभो ॥
स एष केवलं देव वेत्ति त्वां नेतरो जनः ॥ ३० ॥
नन्दीश्वरेश्वरेशान विभो वर्द्धस्व वामन ||
प्रभवायास्य विश्वस्य विश्वात्मन्पृथुलोचन ॥ ३१ ॥
२५. चित्रकूटस्थितश्रीरामस्तवनम्
( वराह, १२ )
दुर्जयनृप उवाच -
नमामि रामं नरनाथमच्युतं कवि पुराणं त्रिदशारिनाशनम् ॥
शिवस्वरूपं प्रभवं महेश्वरं सदा प्रपन्नातिहरं घृतश्रियम् ॥ ५ ॥
भवान् सदा देव समस्ततेजसां करोषि तेजांसि समस्तरूपधृक् ||
क्षितौ भवान् पञ्चगुणस्तथा जले चतुष्प्रकारः त्रिविधोऽथ तेजसि ॥६॥
द्विधाऽथ वायौ वियति प्रतिष्ठितो भवां हरिः शचरः पुमानसि ||
भवाञ्च्छशीसूर्य हुताशनोऽसि त्वयि प्रलीनं जगदेतदुच्यते ॥ ७ ॥
भवत्प्रतिष्ठं रमते जगद्यतः ततोऽसि रामेति जगत्प्रतिष्ठितः ॥
भवार्णवे दुःखतरोमिसकुले तयाक्षमीनग्रहनक्रभीषणे ॥ ८ ॥
न मज्जति त्वत्स्मरणप्लवो नरः स्मृतोऽसि रामेति तथा तपोवने ॥
वेदेषु नष्टेषु भवांस्तथा हरे करोषि मात्स्यं वपुरात्मनः सदा ॥ ९ ॥
युगक्षये रञ्जितसर्वदिऊमुखे भवांस्तथाग्निर्बहुरूपघृग्विभो ॥
कौमं तथा स्वं वपुरास्थितः सदा युगेयुगे माधव सिन्धुमन्यते ॥ १० ॥
न चान्यदस्तीति भवत्समं क्वचिज्जनार्दनाद्यत्प्रबभूव चोत्तमम् ॥
त्वया ततं विश्वमिदं महात्मँल्लोकाखिला वेद दिशश्च सर्वाः ॥ ११ ॥
कथं त्वमाद्यं परमं तु धाम विहाय चान्यं शरणं व्रजामि ॥
भवानेक: पूर्वमासीत्ततश्च महानहं सलिलं वह्निरूपैः ॥
वायुस्तथा खं च मनोऽपि बुद्धिस्त्वत्तो गुणास्त्वत्प्रभवं च सर्वम् ||१२||
त्वया ततं विश्वमिदं समस्तं सनातनस्त्वं पुरुषो मतो मे ॥
समस्तविश्वेश्वर विश्वमूर्त्ते सहस्रबाहो जय देवदेव ॥ १३ ॥
नमोऽस्तु रामाय महानुभाव इति स्तुतो देववरः प्रसन्नः ॥
तदा तु राज्ञः सुप्रतीकाय मूर्ति सन्दर्शयामास ततोऽभ्युवाच ॥ १४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP