English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 114

Puran Kavya Stotra Sudha - Page 114

Puran Kavya Stotra Sudha - Page 114


व्यवहारचातुर्ययोगः- महारासवर्णनम्
दुःसहप्रेष्ठ विरहतीव्रतापधुताशुभाः ॥
घ्यानप्राप्ताच्युतः श्लेषनिर्वृत्या क्षीणमङगलाः ॥ १० ॥
तमेव परमात्मानं जारबुद्धयापि संगताः ॥
जहुर्गुणमय देहं सद्यः प्रक्षोणबन्धनाः ॥ ११ ॥
श्रीभगवानुवाच -
स्वागतं वो महाभागाः प्रियं कि करवाणि वः ॥
व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
रजन्येषा घोररूपा घोरसत्त्वनिषेविता ||
प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ॥
विचिन्वन्ति ह्यपश्यन्तो मा कृठ्वं बन्धुसाध्वसम् ।। २० ॥
दृष्टं वनं कुसुमितं राकेशकरकञ्जितम् ॥
यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ २१ ॥
श्रवणाद् दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ॥
न तथा सन्निकर्षण प्रतियात ततो गृहान् ॥ २७ ॥
श्रीशुक उवाच -
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ॥
विषण्णा भग्नसङकल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
कृत्वा मुखान्यवशुचः श्वसनेन शुष्यद्
बिम्बाघराणि चरणेन भुवं लिखन्त्यः ||
अस्त्रैरुपात्तमषिभिः कुचकुडकुमानि
तस्युर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९ ॥
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
कृष्णं तदर्थ विनिर्वात्तितसर्वकामाः ॥
नेत्रे विसृज्य रुदितोपहते स्म किञ्चि--
त्संरम्भगद्दगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
९९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP