English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 28

Puran Kavya Stotra Sudha - Page 28

Puran Kavya Stotra Sudha - Page 28


व्यवहारचातुर्ययोगः - बृहस्पतिनीतिसारः
यस्य यस्य हि यो भावस्तस्य तस्य हितं वदन् ॥
अनुप्रविश्य मेघावी क्षित्रमात्मवशं नयेत् ॥ १३ ॥
नदीनां च नखीनां च शृङगणां शस्त्रपाणिनाम् ॥
विश्वासो नैव गन्तव्यः स्त्रीषु राजकुलेषु च ॥ १४ ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ॥
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १५ ॥
होनदुर्जनसंसर्ग अत्यन्त विरहादरः ॥
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १६ ॥
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ॥
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १७ ॥
कोऽर्थं प्राप्य न गवितो भुवि नरः कस्यापदो नागताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ॥
कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवं
को वा दुर्जनवागुराततः क्षेमेण यातः पुमान् ॥ १८ ॥
सुहृत्स्वजनबन्धुनं बुद्धिर्यस्य न चात्मनि ॥
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः ||
विपत्तौ च महद्द : खं तद्बुधः वथमाचरेत् ॥ १९ ॥
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः ॥
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ २० ॥
धनस्य यस्य राजतो भयं च नास्ति चौरतः
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ २१ ॥
यजितं प्राणहरैः परिश्रममृतस्य तं वै विभजन्ति रिक्थिनः ||
कृतं च यद्द ष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ २२ ॥
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः ||
आखोरिव कदर्य्यस्य धनं दुःखाय केवलम् ॥ २३ ॥
नग्ना व्यसनिनो रूक्षा: कपालाकितपाणयः ॥
दर्शयन्तीह लोकस्य अदातुः फलमोदृशम् ॥ २४ ॥
शिक्षयन्ति च याचन्ते देहोति कृपणा जनाः ॥
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ २५ ॥
१३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP