English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 292

Puran Kavya Stotra Sudha - Page 292

Puran Kavya Stotra Sudha - Page 292


पर मा र्थ यो गः – फलश्रुतिः
बसति हृदि सनातने च तस्मिन् भवति पुमाञ्जगतोऽस्य सौम्यरूपः ||
क्षितिरसमति रम्यमात्मनोऽन्तः कथयति चारतयैव शालपोतः ॥२५॥
यमनियम विधूतकल्मषाणामनुदिनमच्युतसक्तमानसानाम् ।।
अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम् ॥२६॥
हृदि यदि भगवाननादिरास्ते हरिरसि शखगदाघरोऽव्ययात्मा ॥
तदघमघविघातकर्तृभिन्नं भवति कथं सति चान्धकारम ||२७||
हरति परधनं निहन्ति जन्तून् वदति तथानृतनिष्ठाणि यश्च ||
अशुभजनितदुर्मदस्य पुंस: कलुषमतेह् दि तस्य नास्त्यनन्तः ॥२८॥
न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः ॥
न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽघमस्य ॥२९॥
परमसुहृदि बान्धवे कलत्रे सुततनया पितृ मातृभृत्यवर्गे ॥
शठमतिरुपयाति योऽयंतृष्णां तमघमचेष्टमवेहि नास्य भक्तम् ||३०||
अशुभमतिरसत्प्रवृत्तिसक्तस्सततमनार्यकुशीलसङ्गमत्तः ॥
अनुदिनकृतपापबन्धयुक्तः पुरुषपशर्न हि वासुदेवभक्तः ॥३१॥
सकलमिदमह च वासुदेवः परमपुमान्परमेश्वरस्स एकः ॥
इति मतिरचला भक्त्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥३२॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ||
भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥३३॥
वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते ॥
तव गतिरथवा ममास्ति चऋप्रतिहतवीर्यबलस्य सोऽन्यलोक्यः ॥३४॥
कालिङ्ग उवाच -
इति निजभटशासनाय देवो रवितनयस्स किलाह धर्मराजः ॥
मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥३५॥
९. फलश्रुतिः
(विष्णु, ६, ८)
यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं
सवं सर्वमयं समस्तजगतामाघारमात्माश्रयम् ॥
२७९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP