English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 27

Puran Kavya Stotra Sudha - Page 27

Puran Kavya Stotra Sudha - Page 27


पुराणकाव्यस्तोत्रसुधा ।
त्यजेदेकं कुलस्यायें ग्रामस्यार्थे कुलं त्यजेत् ॥
ग्रामं जनपदस्यार्थी आत्मायें पृथिवीं त्यजेत् ॥ २ ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे ॥
नरकात्क्षीयते पापं कुगृहाल निवर्त्तते ॥ ३ ॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ॥
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ४ ॥
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ||
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ ५॥
अर्थेन कि कृपणहस्तगतेन केन
ज्ञानेन कि बहुराठाग्रहसडकुलेन ॥
रूपेण कि गुणपराक्रमवर्जितेन
मित्रेण कि व्यसनकालपराङ्मुखेन ॥ ६ ॥
अॅदृष्टपूर्वा बहवः सहायाः
सर्वे पदस्थस्य भवन्ति मित्राः ॥
अर्थविहोनस्य पदच्युतस्य
भवत्यकाले स्वजनोऽपि शत्रुः ॥ ७ ॥
आपत्सु मित्रं जानीयाद्रणे शूरं रहः शुचिम् ॥
भार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ ८ ॥
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ॥
पुष्पं पर्युषितं त्यजन्ति मधुपाः दग्धं वनान्तं मृगाः
सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ ९ ॥
लुब्धमर्थप्रदानेन श्लाघ्यमञ्जलिकर्मणा ॥
मूर्ख छन्दानुवृत्त्या च यथातथ्येन पण्डितम् ॥ १० ॥
सद्भावेन हि तुष्यन्ति देवाः संपुरुषा द्विजाः ॥
इतरे खाद्यपानेन मानदानेन पण्डिताः ॥ ११ ॥
उत्तमं प्रणिपातेन शठ भेदेन योजयेत् ॥
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १२ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP